упанишада (Поиск по тегам)

Соответствие упанишад Ведам

Каждая упанишада начинается с зачина (Шанти (śānti) — умиротворяющей формулы).
Согласно Муктика упанишаде, зачин указывает на Веду, к которой относится упанишада.
Классификация основных (108) упанишад с разделением на каноны.

Существует 5 зачинов упанишад:
  1. Ригведы — ...ṛgvedagatānāṃ… vāṅme manasīti śāntiḥ ॥1॥
  2. Самаведы — ...sāmavedagatānāṃ… āpyāyantviti śāntiḥ ॥4॥
  3. Кришна Яджурведы — ...kṛṣṇayajurvedagatānāṃ… saha nāvavatviti śāntiḥ ॥3॥
  4. Шукла Яджурведы — ...śuklayajurvedagatānām… pūrṇamada iti śāntiḥ ॥2॥
  5. Атхарваведы — ...atharvavedagatānām… bhadraṃ karṇebhiriti śāntiḥ ॥5॥

Ниже приведены зачины упанишад по Ведам в порядке:
  1. Перевод на русский язык.
  2. Написание на деванагари
  3. Транслитерация IAST
  4. IAST со снятыми сандхами

Зачин упанишад Ригведы

АУМ! Пусть моя речь утвердится в моём уме, а мой ум утвердится в речи. Cтань полностью явным для меня!
Тонкости Веды [да будут познаны] мной. Пусть услышанное мной не будет утрачено.
С помощью изученного я соединяю дни и ночи. Я буду говорить правильно.
Я буду говорить истину.
Пусть то [знание] защитит меня.
Пусть то [знание] защитит говорящего.
Пусть защитит меня, пусть защитит говорящего, защитит говорящего.


ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि ।
वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥

oṁ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrmā edhi ।
vedasya me āṇīsthaḥ śrutaṃ me mā prahāsīḥ ।
anenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi ।
satyaṃ vadiṣyāmi ।
tanmāmavatu ।
tadvaktāramavatu ।
avatu māmavatu vaktāramavatu vaktāram ॥

oṁ vāṅ me manasi pratiṣṭhitā manas me vāci pratiṣṭhitam āvir āvīr me edhi ।
vedasya me āṇīsthas śrutam me mā prahāsīs ।
anena adhītena ahorātrāt sandadhāmi ṛtaṃ vadiṣyāmi ।
satyam vadiṣyāmi ।
tad mām avatu ।
tad vaktāram avatu ।
avatu mām avatu vaktāram avatu vaktāram ॥


Зачин упанишад Самаведы

АУМ! Пусть наполнятся мои члены, речь, прана, глаза, уши, а также сила и все чувства.
Всё [есть] Брахман, как сказано в упанишадах. Да не отвергну я Брахмана, да не отвергнет меня Брахман. Пусть он не отвергнет, пусть он не отвергнет меня!
Те добродетели, которые описаны в упанишадах и сосредоточены в том Атмане, пусть они будут во мне. Пусть будут во мне.


ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।।

oṁ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ।

oṁ āpyāyantu mama-aṅgāni vāk-prāṇas-cakṣus śrotram athas balam indriyāṇi ca sarvāṇi ।
sarvaṃ brahma aupaniṣadaṃ mā ahaṃ brahma nirākuryāṃ mā mā brahma nirākarot anirākaraṇam astvanirākaraṇaṃ me astu ।
tad ātmani nirate yas upaniṣatsu dharmās te mayi santu te mayi santu ।


Зачин упанишад Кришна Яджурведы

Да будет к нам (учителю и ученику) благосклонен.
Да питает нас обоих.
Да совершим усилия вместе.
Да будет наше учение плодотворным.
Да не будем ненавидеть [друг друга].


ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ॥

oṁ saha nāvavatu ।
saha nau bhunaktu ।
sahavīryaṃ karavāvahai ।
tejasvi nāvadhītamastu ।
mā vidviṣāvahai ॥

oṁ saha nau avatu ।
saha nau bhunaktu ।
saha vīryaṃ karavāvahai ।
tejasvi nāu adhītam astu ।
mā vidviṣāvahai ॥


Зачин упанишад Шукла Яджурведы

Ом! То полнота, это полнота. Из полноты происходит полнота.
Когда полнота взята из полноты, то остается тоже полнота.


ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

oṃ pūrṇam adas pūrṇam idam pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya pūrṇam eva avaśiṣyate


Зачин упанишад Атхарваведы

АУМ! О светлейшие, ушами нам следует слушать Благого, о достойные почитания, глазами нам следует смотреть на Благого.
О прославленные, телами, чьи члены стойки, нам следует обрести божественную благодать, пока мы живы.


ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ॥

oṃ bhadram karṇebhis śṛṇuyāma devā bhadram paśyema akṣabhis yajatrās ।
sthirais aṅgais tuṣṭuvāṃsas tanūbhis vyaśema devahitam yadāyus ॥

Махат упанишада

महोपनिषत्

यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।
परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम
स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु॥
ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण
आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न
नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते । तस्य
ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते । तस्मिन्पुरुषाश्चतुर्दश
जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं तेजः ।
द्वादशोऽहङ्कारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा ।
पञ्चदशी बुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि ।
स एकः पञ्चविंशतिः पुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य
प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य
ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते । बिभ्रच्च्ह्रियं यशः
सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय
ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि च्हन्दांसि तान्यङ्गे
समाश्रितानि । तस्मादीशानो महादेवो महादेवः । अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य
ललाटात्स्वेदोऽपपत् । ता इमाः प्रतता आपः । ततस्तेजो हिरण्मयमन्डलम् ।
तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्याय्त् । पूर्वाभिमुखो भूत्वा
भूरिति व्याहृतिर्गायत्रं च्हन्द ऋग्वेदोऽग्निर्देवता । पश्चिमाभिमुखो
भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं च्हन्दो यजुर्वेदो वायुर्देवता ।
उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं च्हन्दः सामवेदः सूर्यो
देवता । दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ
च्हन्दोऽथर्ववेदाः सोमो देवता ।
सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् ।
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।
पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।
पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् ।
हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च ।
तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता ।
स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥
इति प्रथमोध्यायः ॥ १.१॥

शुको नाम महातेजाः स्वरूपानन्दतत्परः ।
जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान् ॥ २.१॥

तेनासौ स्वविवेकेन स्वयमेव महामनाः ।
प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान् ॥ २॥

अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः ।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ ३॥

चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः ।
उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् ॥ ४॥

आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।
न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन ॥ ५॥

चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्च्हिलोपमः ।
स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् ॥ ६॥

तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् ।
जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः ॥ ७॥

सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्च्हति ।
नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च ॥ ८॥

विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् ।
सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः ॥ ९॥

जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः ।
यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ॥ २.१०॥

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।
अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ॥ ११॥

स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्च्हुकः ।
स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ॥ १२॥

इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ ।
केवलं विररामास्य चेतो विषयचापलम् ।
भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥ १३॥

कदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः ।
पप्रच्च्ह पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥ १४॥

संसाराडम्बरमिदं कथमभ्युत्थितं मुने ।
कथं च प्रशमं याति किं यत्कस्य कदा वद ॥ १५॥

एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे ।
यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १६॥

अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः ।
स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते ॥ १७॥

व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् ।
प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥ १८॥

जनको नाम भूपालो विद्यते मिथिलापुरे ।
यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १९॥

पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम् ।
विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ २.२०॥

आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने ।
द्वारि व्याससुतो राजञ्च्हुकोऽत्र स्थितवानिति ॥ २१॥

जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया ।
उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २२॥

ततः प्रवेशयामास जनकः शुकमङ्गणे ।
तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥ २३॥

ततः प्रवेशयामास जनकोऽन्तःपुराजिरे ।
राजा न दृश्यते तावदिति सप्तदिनानि तम् ॥ २४॥

तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः ।
जनको लालयामास शुकं शशिनिभाननम् ॥ २५॥

ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः ।
नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम् ॥ २६॥

केवलं सुसमः स्वच्च्हो मौनी मुदितमानसः ।
संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः ॥ २७॥

परिज्ञातस्वभावं तं शुकं स जनको नृपः ।
आनीय मुदितात्मानमवलोक्य ननाम ह ॥ २८॥

निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः ।
किमीप्सितं तवेत्याह कृतस्वागत आह तम् ॥ २९॥

संसाराडम्बरमिदं कथमभ्युत्थितं गुरो ।
कथं प्रशममायाति यथावत्कथयाशु मे ॥२.३०॥

यथावदखिलं प्रोक्तं जनकेन महात्मना ।
तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया ॥ ३१॥

स्वयमेव मया पूर्वमभिज्ञातं विशेषतः ।
एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् ॥ ३२॥

भवताप्येष एवार्थः कथितो वाग्विदां वर ।
एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते ॥ ३३॥

मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् ।
क्षीयते दग्धसंसारो निःसार इति निश्चितः ॥ ३४॥

तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम् ।
त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् ॥ ३५॥

श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया ।
श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम् ॥ ३६॥

यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् ॥ ३७॥

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ३८॥

अशेषेण परित्यागो वासनायां य उत्तमः ।
मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः ॥ ३९॥

ये शुद्धवासना भूयो न जन्मानर्थभागिनः ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ २.४०॥

पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते ।
वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥ ४१॥

तपः प्रभृतिना यस्मै हेतुनैव विना पुनः ।
भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते ॥ ४२॥

आपतत्सु यथाकालं सुखदुःखेष्वनारतः ।
न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते ॥ ४३॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ ४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।
सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४६॥

अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।
प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्च्हति ।
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ ४७॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते ।
यस्यासावजडा संवित्स जीवन्मुक्त उच्यते ॥ ४८॥

रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।
यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥ ४९॥

मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः ।
यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते ॥ २.५०॥

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः ।
निरिच्च्हो वर्तते कार्ये स जीवन्मुक्त उच्यते ॥ ५१॥

येन धर्ममधर्मं च मनोमननमीहितम् ।
सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते ॥ ५२॥

यावती दृश्यकलना सकलेयं विलोक्यते ।
सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥ ५३॥

कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च ।
सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५४॥

जरामरणमापच्च राज्यं दारिद्र्यमेव च ।
रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५५॥

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।
धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते ॥ ५६॥

उद्वेगानन्दरहितः समया स्वच्च्हया धिया ।
न शोचते न चोदेति स जीवन्मुक्त उच्यते ॥ ५७॥

सर्वेच्च्हाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।
धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥ ५८॥

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।
सममेव मनो यस्य स जीवन्मुक्त उच्यते ॥ ५९॥

न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति ।
भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥ २.६०॥

शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ६१॥

यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः ।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ६२॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ६३॥

विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ ६४॥

ततः स्तिमितगंभीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥ ६५॥

न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् ।
न च भूतपदार्थौघसदनन्ततया स्थितम् ॥ ६६॥

किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः ।
न सन्नासन्न सदसन्न भावो भावनं न च ॥ ६७॥

चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् ।
अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥ ६८॥

द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् ।
नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने ॥ ६९॥

स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ।
स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते ॥ २.७०॥

तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः ।
भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह ॥ ७१॥

प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा ।
स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥ ७२॥

अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः ।
शुक पश्यन्न पश्येस्त्वं साक्षी संपूर्णकेवलः ॥ ७३॥

विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि ।
वीतशोकभयायासो निरीहश्च्हिन्नसंशयः ॥ ७४॥

जगाम शिखरं मेरोः समाध्यर्थमखण्डितम् ॥ ७५॥
तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।

देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ ७६॥
व्यपगतकलनाकलङ्कशुद्धः

स्वयममलात्मनि पावने पदेऽसौ ।
सलिलकण इवांबुधौ महात्मा
विगलितवासनमेकतां जगाम ॥ २.७७॥

इति महोपनिषत् । इति द्वितीयोऽध्यायः ॥ २॥

निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः ।
विहृतस्तीर्थयात्रार्थं पित्रानुज्ञातवान्स्वयम् ॥ ३.१॥

सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः ।
स्वोदन्तं कथयामास ऋभुं नत्वा महायशाः ॥ २॥

सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्रभावतः ।
प्रादुर्भूतोमनसि मे विचारः सोऽयमीदृशः ॥ ३॥

जायते म्रियते लोको म्रियते जननाय च ।
अस्थिरः सर्व एवेमे सचराचरचेष्टिताः ।
सर्वापदां पदं पापा भावा विभवभूमयः ॥ ४॥

अयःशलाकासदृशाः परस्परमसङ्गिनः ।
शुष्यन्ते केवला भावा मनःकल्पनयानया ॥ ५॥

भावेष्वरतिरायाता पथिकस्य मरुष्विव ।
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा ॥ ६॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।
संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ ७॥

इयमस्मि स्थितोदारा संसारे परिपेलवा ।
श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा ॥ ८॥

आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् ॥ ९॥

विषयाशी विषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानामायुरायासकारणम् ॥ ३.१०॥

युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ११॥

प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १२॥

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेनोपजीवति ॥ १३॥

जातास्त एव जगति जन्तवः साधुजीविताः ।
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १४॥

भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १५॥

अहंकारवशादापदहंकाराद्दुराधयः ।
अहंकारवशादीहा नाहंकारात्परो रिपुः ॥ १६॥

अहंकारवशाद्यद्यन्मया भुक्तं चराचरम् ।
तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता ॥ १७॥

इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।
मनो दूरतरं याति ग्रामे कौलेयको यथा ॥ १८॥

क्रूरेण जडतां याता तृष्णाभार्यानुगामिना ।
वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ॥ १९॥

अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः ॥ ३.२०॥

चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २१॥

यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ २२॥

पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते ।
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ २३॥

क्षणमायाति पातालं क्षणं याति नभस्थलम् ।
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ २४॥

सर्वसंसारदुःखानां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥ २५॥

तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि स द्विज ।
स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् ॥ २६॥

नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः ॥ २७॥

कलेवरमहंकारगृहस्थस्य महागृहम् ।
लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो मम ॥ २८॥

पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् ।
चित्तभृत्यजनाकीर्णं नेष्टं देहगृहं मम ॥ २९॥

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ३.३०॥

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने ।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३१॥

तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ३२॥

शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।
जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ ३३॥

स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा ।
बलात्कामपिशाचेन विवशः परिभूयते ॥ ३४॥

दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ३५॥

दैन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा ।
सर्वापदामेकसखी हृदि दाहप्रदायिनी ॥ ३६॥

क्वचिद्वा विद्यते यैषा संसारे सुखभावना ।
आयुः स्तम्बमिवासाद्य कालस्तामपि कृन्तति ॥ ३७॥

तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम् ।
आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ।
कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् ॥ ३८॥

मांसपाञ्चालिकायास्तु यन्त्रलोलेअङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् ॥ ३९॥

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ३.४०॥

मेरुशृङ्गतटोल्लासिगङ्गाचलरयोपमा ।
दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥ ४१॥

श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ४२॥

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ४३॥

ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ ४४॥

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ४५॥

जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।
पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ ४६॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ ४७॥

यस्य स्त्री तस्य भोगेच्च्हा निःस्त्रीकस्य क्व भोगभूः ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ४८॥

दिशोऽपि न हि दृश्यन्ते देशोऽप्यन्योपदेशकृत् ।
शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि ॥ ४९॥

शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः ।
सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः ॥ ३.५०॥

परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः ।
भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥ ५१॥

ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।
नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ ५२॥

आपदः क्षणमायान्ति क्षणमायान्ति संपदः ।
क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् ॥ ५३॥

अशूरेण हताः शूरा एकेनापि शतं हतम् ।
विषं विषयवैषम्यं न विषं विषमुच्यते ॥ ५४॥

जन्मान्तरघ्ना विषया एकजन्महरं विषम् ।
इति मे दोषदावाग्निदग्धे संप्रति चेतसि ॥ ५५॥

स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि ।
अतो मां बोधयाशु त्वं तत्त्वज्ञानेन वै गुरो ॥ ५६॥

नो चेन्मौनं समास्थाय निर्मानो गतमत्सरः ।
भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः ॥ ३.५७॥

इति महोपनिषत् । इति तृतीयोऽध्यायः ॥ ३॥

निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर ।
प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ।
चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥ ४.१॥

मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः ।
शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ २॥

एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् ।
एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः ॥ ३॥

शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ४॥

स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता ।
यस्याभ्यासेन तेनात्म सततं चावलोक्यते ॥ ५॥

संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् ।
करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥ ६॥

चेतसो यदकर्तृत्वं तत्समाधानमीरितम् ।
तदेव केवलीभावं साशुभा निर्वृतिः परा ॥ ७॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।
यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥ ८॥

सर्वं प्रशान्तमजमेकमनादिमध्य
माभास्वरं स्वदनमात्रमचैत्यचिह्नम् ।
सर्वं प्रशान्तमिति शब्दमयी च दृष्टि
र्बाधार्थमेव हि मुधैव तदोमितीदम् ॥ ४.१०॥

नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् ।
आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ११॥

तत्त्वावबोध एवासौ वासनातृणपावकः ।
प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ॥ १२॥

निरिच्च्हे संस्थिते रत्ने यथा लोकः प्रवर्तते ।
सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः ॥ १३॥

अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने ।
निरिच्च्हत्वादकर्तासौ कर्ता संनिधिमात्रतः ॥ १४॥

ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने ।
यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव ॥ १५॥

तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥ १६॥

निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः ।
ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः ॥ १७॥

नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा ।
नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि ॥ १८॥

आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः ।
समाः समरसाः सौम्य सततं साधुवृत्तयः ॥ १९॥

अब्धिवद्धतमर्याद भवति विशदाशयाः ।
नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥ ४.२०॥

कोऽहं कथमिदं चेति संसारमलमाततम् ।
प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ॥ २१॥

नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् ।
द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया ॥ २२॥

शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् ।
भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥ २३॥

उपादेयानुपतनं हेयैकान्तविसर्जनम् ।
यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् ॥ २४॥

गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने ।
ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ २५॥

यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना
दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव
निरवधिनाराचविकिरपातो निदाघविनोदनधारा
गृहशीकरवर्षणमिव स्वशिरच्च्हेदः सुखनिद्रेव
मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं
नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥
गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया ।
यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥ २६॥

विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।
तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय ॥ २७॥

न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः ।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः ।
केवलं तन्मनोमात्रमयेनासाद्यते पदम् ॥ २८॥

यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।
शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति ॥ २९॥

मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ४.३०॥

न रसायनपानेन न लक्ष्म्यालिङ्गितेन च ।
न तथा सुखमाप्नोति शमेनान्तर्यथा जनः ॥ ३१॥

श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ३२॥

तुषारकरबिंबाच्च्हं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ३३॥

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ३४॥

सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः ।
आत्मारामा महात्मानस्ते महापदमागताः ॥ ३५॥

अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः ।
अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते ॥ ३६॥

नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् ।
यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥ ३७॥

रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे ।
सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥ ३८॥

यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् ।
यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् ।
तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥ ३९॥

तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् ।
जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः ॥ ४.४०॥

नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।
निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः ॥ ४१॥

सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् ।
भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥ ४२॥

एवमात्मा यथा यत्र समुल्लासमुपागतः ।
तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते ॥ ४३॥

यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ४४॥

ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥ ४५॥

यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् ।
न हेमकटकात्तद्वज्जगच्च्हब्दार्थता परा ॥ ४६॥

तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते ।
द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते ॥ ४७॥

द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते ।
जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥ ४८॥

मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते ।
यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥ ४९॥

ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा ।
मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ ४.५०॥

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
यदर्थं प्रतिभानं तन्मन इत्यभिधीयते ॥ ५१॥

संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते ।
यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ ५२॥

संकल्पमनसी भिन्ने न कदाचन केनचित् ।
संकल्पजाते गलिते स्वरूपमवशिष्यते ॥ ५३॥

अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे ।
स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥ ५४॥

महाप्रलयसंपत्तौ ह्यसत्तां समुपागते ।
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ ५५॥

अस्त्यनस्तमितो भास्वानजो देवो निरामयः ।
सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥ ५६॥

यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।
यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥ ५७॥

चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥ ५८॥

देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।
निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥ ५९॥

तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् ।
सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः ॥ ४.६०॥

उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी ।
आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥ ६१॥

दृश्यासंभवबोधेन रागद्वेषादितानवे ।
रतिर्बलोदिता यासौ समाधिरभिधीयते ॥ ६२॥

दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् ।
तदेव केवलीभावं ततोऽन्यत्सकलं मृषा ॥ ६३॥

मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे ।
मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे ॥ ६४॥

पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।
निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् ॥ ६५॥

चित्तमेव हि संसारो रोगादिक्लेशदूषितम् ।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ६६॥

मनसा भाव्यमानो हि देहतां याति देहकः ।
देहवासनया मुक्तो देहधर्मैर्न लिप्यते ॥ ६७॥

कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनोविलाससंसार इति मे निश्चिता मतिः ॥ ६८॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ ६९॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मनो रूपं न बिभेति कदाचन ॥ ४.७०॥

परात्परं यन्महतो महान्तं
स्वरूपतेजोमयशाश्वतं शिवम् ।
कविं पुराणं पुरुषं सनातनं
सर्वेश्वरं सर्वदेवैरुपास्यम् ॥ ७१॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।
द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ।
ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥ ७२॥

जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ।
ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ७३॥

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।
लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥ ७४॥

तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः ।
कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ ७५॥

अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् ।
स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥ ७६॥

दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।
दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ७७॥

उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः ।
योगिनः सहजावस्था स्वयमेवोपजायते ॥ ७८॥

यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
विजानाति तदा तस्य भयं स्यान्नत्र संशयः ॥ ७९॥

सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते ।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् ॥ ४.८०॥

प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् ।
एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् ॥ ८१॥

भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८२॥

अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ ।
एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव ॥ ८३॥

मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।
जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ८४॥

लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ८५॥

अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥ ८६॥

सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् ।
संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् ॥ ८७॥

मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते ।
यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ॥ ८८॥

स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८९॥

स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा ।
मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ ४.९०॥

असंकल्पनशस्त्रेण च्हिन्नं चित्तमिदं यदा ।
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥ ९१॥

भव भावनया मुक्तो मुक्तः परमया धिया ।
धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥ ९२॥

परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।
ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया ॥ ९३॥

मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥ ९४॥
अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ।

तदभावनमात्रेण दात्रेणेव विलीयते ॥ ९५॥

च्हिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ।
वातेन कल्पकेनैव तथान्तर्धूयते मनः ॥ ९६॥

कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ९७॥

असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।
असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः ॥ ९८॥

न हि चञ्चलताहीनं मनः क्वचन दृश्यते ।
चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥ ९९॥

एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता ।
तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् ॥ ४.१००॥

यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते ।
तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते ॥ १०१॥

तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका ।
वासनापरनाम्नीं तां विचारेण विनाशय ॥ १०२॥

पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः ।
योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥ १०३॥

अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।
विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव ॥ १०४॥

मन एव समर्थं हि मनसो दृढनिग्रहे ।
अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि ॥ १०५॥

तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् ।
आवर्तैरूह्यमानानां दूरं स्वमन एव नौः ॥ १०६॥

मनसैव मनश्च्हित्त्वा पाशं परमबन्धनम् ।
भवादुत्तारयात्मानं नासावन्येन तार्यते ॥ १०७॥

या योदेति मनोनाम्नी वासना वासितान्तरा ।
तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥ १०८॥

भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।
भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव ॥ १०९॥

एष एव मनोनाशस्त्वविद्यानाश एव च ।
यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥ ४.११०॥

अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥ १११॥

अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते ।
नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥ ११२॥

तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।
आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु ॥ ११३॥

अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।
स्वयमात्मावलोकेच्च्हाअ मोहसंक्षयकारिणी ॥ ११४॥

अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते ।
दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥ ११५॥

इच्च्हामात्रमविद्येयं तन्नाशो मोक्ष उच्यते ।
स चासंकल्पमात्रेण सिद्धो भवति वै मुने ॥ ११६॥

मनागपि मनोव्योम्नि वासनारजनी क्षये ।
कालिका तनुतामेति चिदादित्याप्रकाशनात् ॥ ११७॥

चैतान्युपातरहितं सामान्येन च सर्वगम् ।
यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ ११८॥

सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् ।
कल्पनान्या मनोनाम्नी विद्यते न हि काचन ॥ ११९॥

न जायते न म्रियत्ते किंचिदत्र जगत्त्रये ।
न च भावविकाराणां सत्ता क्वचन विद्यते ॥ ४.१२०॥

केवलं केवलाभासं सर्वसामान्यमक्षतम् ।
चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १२१॥

तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।
शान्ते शमसमाभोगे निर्विकारे चिदात्मनि ॥ १२२॥

यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति ।
चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते ।
अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥ १२३॥

नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।
सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ १२४॥

कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् ।
इति भावानुरूपेण व्यवहारेण बध्यते ॥ १२५॥

नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः ।
इति भावानुरूपेण व्यवहारेण मुच्यते ॥ १२६॥

नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् ।
इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १२७॥

कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ।
परं पौरुषमाश्रित्य यत्नात्परमया धिया ।
भोगेच्च्हां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव ॥ १२८॥

मम पुत्रो मम धनमहं सोऽयमिदं मम ।
इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ १२९॥

मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् ।
अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ ४.१३०॥

कस्तवायं जडो मूको देहो मांसमयोऽशुचिः ।
यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ १३१॥

अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।
तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना ॥ १३२॥

अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
अविद्यमान या विद्या तया विश्वं खिलीकृतम् ॥ ४.१३३॥

इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् ॥
इत्युपनिषत् ॥ इति चतुर्थोऽध्यायः ॥ ४॥

ऋभुः ॥ अथापरं प्रवक्ष्यामि शृणु तात यथायथम् ।
अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ॥ ५.१॥

पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः ।
स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ॥ २॥

शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।
रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥ ३॥

यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् ।
एतस्मादपरो मोहो न भूतो न भविष्यति ॥ ४॥

अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः ।
सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते ॥ ५॥

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।
जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ६॥

अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता ।
अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥ ७॥

बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ।
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् ॥ ८॥

इति सप्तविधो मोहः पुनरेष परस्परम् ।
श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु ॥ ९॥

प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः ।
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥ ५.१०॥

बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते ।
एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु ॥ ११॥

नवप्रसूतस्य परादयं चाहमिदं मम ।
इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ॥ १२॥

अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ।
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् ॥ १३॥

अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।
यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥ १४॥

द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ।
अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥ १५॥

अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि ।
परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥ १६॥

चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः ।
चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥ १७॥

स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् ।
षडवस्था परित्यागो जडा जीवस्य या स्थितिः ॥ १८॥

भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः ।
जगत्तस्यामवस्थायामन्तस्तमसि लीयते ॥ १९॥

सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज ।
एकैका शतसंख्यात्र नानाविभवरूपिणी ॥ ५.२०॥

इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥ २१॥

वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
मम त्वभिमता नूनमिमा एव शुभप्रदाः ॥ २२॥

अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् ।
मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् ॥ २३॥

ज्ञानभूमिः शुभेच्च्हाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ २४॥

सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २५॥

आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति ।
एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु ॥ २६॥

स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्च्हेति शुभेच्च्हेत्युच्यते बुधैः ॥ २७॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ २८॥

विचारणाशुभेच्च्हाभ्यामिन्द्रियार्थेषु रक्तता ।
यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ २९॥

भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् ।
सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ५.३०॥

दशाचतुष्टयाभ्यासादसंसर्गकला तु या ।
रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ३१॥

भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ३२॥

परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् ।
पदार्थभावना नाम षष्ठी भवति भूमिका ॥ ३३॥

भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ३४॥

एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते ।
विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ ३५॥

ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः ।
आत्मारामा महात्मानस्ते महत्पदमागताः ॥ ३६॥

जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते ।
प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा ॥ ३७॥

पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् ।
आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः ॥ ३८॥

भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
प्राप्य ज्ञानदशामेतां पशुम्लेच्च्हादयोऽपि ये ॥ ३९॥

सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ।
ज्ञप्तिर्हि ग्रन्थिविच्च्हेदस्तस्मिन्सति विमुक्तता ॥ ५.४०॥

मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ ।
ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥ ४१॥

ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः ।
मनःप्रशमनोपायो योग इत्यभिधीयते ॥ ४२॥

सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः ।
एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् ॥ ४३॥

त्वत्ताहन्तात्मता यत्र परता नास्ति काचन ।
न क्वचिद्भावकलना न भावाभाव गोचरा ॥ ४४॥

सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् ।
अनामयमनाभासमनामकमकारणम् ॥ ४५॥

न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च ।
मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् ॥ ४६॥

असंवेदनमाशान्तमात्मवेदनमाततम् ।
सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥ ४७॥

संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥ ४८॥

देशाद्देशं गते चित्ते मध्ये यच्चेतसो वओउः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥ ४९॥

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।
अचेतनं चाजडं च तन्मयो भव सर्वदा ॥ ५.५०॥

जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा ।
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥ ५१॥

पूर्वं मनः समुदितं परमात्मतत्त्वा
त्तेनाततं जगदिदं सविकल्पजालम् ।
शून्येन शून्यमपि विप्र यथाम्बरेण
नीलत्वमुल्लसति चारुतराभिधानम् ॥ ५२॥

संकल्पसंक्षयद्गलिते तु चित्ते
संसारमोहमिहिका गलिता भवन्ति ।
स्वच्च्हं विभाति शरदीव खमागतायां
चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥ ५३॥

अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥ ५४॥

साक्षिभूते समे स्वच्च्हे निर्विकल्पे चिदात्मनि ।
निरिच्च्हं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ५५॥

एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् ।
इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥ ५६॥

रेखोपरेखावलिता यथैका पीवरी शिला ।
तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् ॥ ५७॥

द्वितीयकारणाभावादनुत्पन्नमिदं जगत् ।
ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् ॥ ५८॥

विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन ।
पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ॥ ५९॥

निरस्तकल्पनाजालमचित्तत्वं परं पदम् ।
त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः ॥ ५.६०॥

महाधियः शान्तधियो ये याता विमनस्कताम् ।
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ॥ ६१॥

मननं त्यजतो नित्यं किंचित्परिणतं मनः ।
दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ॥ ६२॥

द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः ।
विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥ ६३॥

सुप्तस्य धनसंमोहमये संसारवर्त्मनि ।
अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि ॥ ६४॥

संसारवासनाजाले खगजाल इवाधुना ।
त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥ ६५॥

कातकं फलमासाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥ ६६॥

नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥ ६७॥

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ ६८॥

नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् ।
इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति ॥ ६९॥

अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ५.७०॥

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् ॥ ७१॥

अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते ॥ ७२॥

मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः ।
तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥ ७३॥

बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।
परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते ॥ ७४॥

हस्तं हतेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥ ७५॥

मनसो विजयान्नान्या गतिरस्ति भवार्णवे ।
महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥ ७६॥

आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ।
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥ ७७॥

पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
तावन्निशीव वेताला वसन्ति हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ७८॥

भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् ।
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ७९॥

लालनात्स्निग्धललना पालानात्पालकः पिता ।
सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥ ५.८०॥

स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः ।
प्रयच्च्हति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥ ८१॥

सुहृष्टः सुदृढः स्वच्च्हः सुक्रान्तः सुप्रबोधितः ।
स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥ ८२॥

एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् ।
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव ॥ ८३॥

विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।
इन्द्रियारीनलं च्हित्त्वा तीर्णो भव भवार्णवात् ॥ ८४॥

आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।
अनास्थामात्रमभितः सुखानामालयं विदुः ॥ ८५॥

वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।
सा प्रसिद्धातिदुःखाय सुखायोच्च्हेदमागता ॥ ८६॥

धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ८७॥

परमं पौरुषं यत्नमास्थादाय सृद्यमम् ।
यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥ ८८॥

अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।
नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः ॥ ८९॥

सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः ।
इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा ॥ ५.९०॥

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥ ९१॥

पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।
अहंकारस्तृतीयोऽसौ लैकिकस्तुच्च्ह एव सः ॥ ९२॥

जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः ।
अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥ ९३॥

अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् ।
शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् ॥ ९४॥

प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ ।
तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥ ९५॥

अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।
स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥ ९६॥

भोगेच्च्हामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ।
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ॥ ९७॥

ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला ।
नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।
न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥ ९८॥

यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते ।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥ ९९॥

सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता ।
सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा ॥ ५.१००॥

आकाशशतभागाण्च्हा ज्ञेषु निष्कलरूपिणी ।
सकलामलसंसारस्वरूपैकात्मदर्शिनी ॥ १०१॥

नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।
न च याति न चायाति न च नेह न चेह चित् ॥ १०२॥

सैषा चियमलाकारा निर्विकल्पा निरास्पदा ॥ १०३॥

आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ १०४॥

अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनियोजितः ॥ १०५॥

प्रबुद्धबुद्धेः प्रक्षीणभोगेच्च्हस्य निराशिषः ।
नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः ॥ १०६॥

सति दीप इवालोकः सत्यर्क इव वासरः ।
सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥ १०७॥

प्रतिभासत एवेदं न जगत्परमार्थतः ।
ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥ १०८॥

यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् ।
अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया ॥ १०९॥

विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी ।
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् ॥ ५.११०॥

शमं विषं विषेणैति रिपुणा हन्यते रिपुः ।
ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥ १११॥

न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति ।
नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया ॥ ११२॥

सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा ।
भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् ॥ ११३॥

मुने नासाद्यते तद्धि पदमक्षयमुच्यते ।
कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥ ११४॥

इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् ॥ ११५॥

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
तदस्या रोगशालाया यत्नं कुरु चिकित्सने ॥ ११६॥

यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्च्हैश्चिदर्णवः ॥ ११७॥

एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् ।
किंचित्क्षुभितरूपा सा चिच्च्हक्तिश्चिन्मयार्णवे॥ ११८॥

तन्मयैव स्फुरत्यच्च्हा तत्रैवोर्मिरिवार्णवे ।
आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः ॥ ११९॥

तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ।
क्षणं स्फुरति सा देवी सर्वशक्तितया तथा ॥ ५.१२०॥

देशकालक्रियाशक्तिर्न यस्याः संप्रकर्षणे ।
स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता ॥ १२१॥

रूपं परिमितेनासौ भावयत्यविभाविता ।
यदैवं भावितं रूपं तया परमकान्तया ॥ १२२॥

तदैवैनामनुगता नामसंख्यादिका दृशः ।
विकल्पकलिताकारं देशकालक्रियास्पदम् ॥ १२३॥

चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते ।
वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः ॥ १२४॥

अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते ।
बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् ॥ १२५॥

मनो घनविकल्पं तु गच्च्हतीन्द्रियतां शनैः ।
पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥ १२६॥

एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।
दुःखजालपरीतात्मा क्रमादायाति नीचताम् ॥ १२७॥

इति शक्तिमयं चेतो घनाहंकारतां गतम् ।
कोशकारक्रिमिरिव स्वेच्च्हया याति बन्धनम् ॥ १२८॥

स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च ।
परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥ १२९॥

क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया ।
क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥ ५.१३०॥

क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।
क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् ॥ १३१॥

क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् ।
प्रोक्तं क्वचिदविद्येति क्वचिदिच्च्हेति संमतम् ॥ १३२॥

इअमं संसारमखिलमाशापाशविधायकम् ।
दधदन्तःफलैर्हीनं वटधाना वटं यथा ॥ १३३॥

चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।
कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् ॥ १३४॥

समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् ।
एवं जीवाश्रिता भावा भवभावनयाहिताः ॥ १३५॥

ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः ।
संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥ १३६॥

उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् ।
केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ॥ १३७॥

केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः ।
केचित्किन्नरगन्धर्वविद्याधरमहोरगाः ॥ १३८॥

केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः ।
केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥ १३९॥

केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः ।
केचित्कदम्बजम्बीरसालतालतमालकाः ॥ ५.१४०॥

केचिन्महेन्द्रमलयसह्यमन्दरमेरवः ।
केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥ १४१॥

केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः ।
विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च ॥ १४२॥

कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः ।
भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥ १४३॥

पतन्ति केचिदबुधाः संप्राप्यापि विवेकताम् ।
दिक्कालाद्यनवच्च्हिन्नमात्मतत्त्वं स्वशक्तितः ॥ १४४॥

लीलयैव यदादत्ते दिक्कालकलितं वपुः ।
तदेव जीवपर्यायवासनावेशतः परम् ॥ १४५॥

मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।
कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥ १४६॥

आकाशभावनामच्च्हां शब्दबीजरसोन्मुखीम् ।
ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः ॥ १४७॥

भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।
ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥ १४८॥

शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः ।
रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥ १४९॥

मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् ।
क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥ ५.१५०॥

ततस्तादृग्गुणगतं मनो भावयति क्षणात् ।
गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥ १५१॥

अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् ।
वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ॥ १५२॥

अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् ।
तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ॥ १५३॥

तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः ।
स्थूलतामेति पाकेन मनो बिल्वफलं यथा ॥ १५४॥

मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ।
संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥ १५५॥

ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा ।
पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् ॥ १५६॥

कालेन स्फुटतामेत्य भवत्यमलविग्रहम् ।
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ॥ १५७॥

स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।
अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥ १५८॥

चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः ।
एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी ॥ १५९॥

अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति ।
इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् ॥ ५.१६०॥

अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।
स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् ॥ १६१॥

लीलया कल्पयामास चित्राः संकल्पतः प्रजाः ।
नानाचारसमारम्भा गन्धर्वनगरं यथा ॥ १६२॥

तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ।
अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥ १६३॥

विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः ।
तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् ॥ १६४॥

न जायते न म्रियते क्वचित्किंचित्कदाचन ।
परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥ १६५॥

कोशमाशाभुजङ्गानां संसाराडंबरं त्यज ।
असदेतदिति ज्ञात्वा मातृभावं निवेशय ॥ १६६॥

गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा ।
अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥ १६७॥

धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता ।
वृद्धायां मोहमायायां कः समाश्वासवानिह ॥ १६८॥

यैरेव जायते रागो मूर्खस्याधिकतां गतैः ।
तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥ १६९॥

अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः ।
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥ ५.१७०॥

अनागतानां भोगानामवाञ्च्हनमकृत्रिमम् ।
आगतानां च संभोग इति पण्डितलक्षणम् ॥ १७१॥

शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च ।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥ १७२॥

यस्य चेच्च्हा तथानिच्च्हा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥ १७३॥

यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज ।
तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् ॥ १७४॥

उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥ १७५॥

संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।
ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥ १७६॥

न त्यजन्ति न वाञ्च्हन्ति व्यवहारं जगद्गतम् ।
सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥ १७७॥

अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।
चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ॥ १७८॥

लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।
याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् ॥ १७९॥

भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः ।
संकल्पतामिवायाति बीजमङ्कुरतामिव ॥ ५.१८०॥

संकल्पनं हि संकल्पः स्वयमेव प्रजायते ।
वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् ॥ १८१॥

मा संकल्पय संकल्पं मा भावं भावय स्थितौ ।
संकल्पनाशने यत्तो न भूयोऽननुगच्च्हति ॥ १८२॥

भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् ।
संकल्पेनैव संकल्पं मनसैव मनो मुने ॥ १८३॥

च्हित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् ।
यथैवेदं नभः शून्यं जगच्च्हून्यं तथैव हि ॥ १८४॥

तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥ १८५॥

जीवस्य तण्डुलस्येव मलं सहजमप्यलम् ।
नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् ॥ ५.१८६॥

इति महोपनिषत् ॥ इति पञ्चमोऽध्यायः ॥ ५॥

अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ ॥ ६.१॥

सर्वत्राहमकर्तेति दृढभावनयानया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥ २॥

खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।
स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥ ३॥

समता सर्वभावेषु यासौ सत्यपरा स्थितिः ।
तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ ४॥

अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ।
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ ५॥

शेषस्थिरो समाधानो येन त्यजसि तत्त्यज ।
चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् ॥ ६॥

वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।
समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ ७॥

हृदयात्संपरित्यज्य सर्ववासनपङ्क्तयः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ ८॥

दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।
युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥ ९॥

सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च ।
इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ ६.१०॥

न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।
किमन्यदभिवाञ्च्हामि सर्वं सच्चिन्मयं ततम् ॥ ११॥

समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् ।
अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ ॥ १२॥

तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः ।
न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा ॥ १३॥

यदस्तीह तदेवास्ति विज्वरो भव सर्वदा ।
यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्च्हनात् ॥ १४॥

त्यागादानपरित्यागी विज्वरो भव सर्वदा ।
यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ॥ १५॥

विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ।
विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥ १६॥

द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥ १७॥

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रत्ययाभासमात्मानं समुपास्महे ॥ १८॥

द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
प्रकाशनं प्रकाशानामात्मानं समुपास्महे ॥ १९॥

सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
ते रत्नमभिवाञ्च्हन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ ६.२०॥

उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः ।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ २१॥

संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे ।
सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥ २२॥

अज्ञानोपहतो बाल्ये यौवने वनिताहतः ।
शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥ २३॥

सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता ।
सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् ॥ २४॥

येषां निमेषणामेषौ जगतः प्रलयोदयौ ।
तादृशाः पुरुषा यान्ति मादृशां गणनैव का ॥ २५॥

संसार एव दुःखानां सीमान्त इति कथ्यते ।
तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥ २६॥

प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः ।
मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः ॥ २७॥

मा खेदं भज हेयेषु नोपादेयपरो भव ।
हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥ २८॥

निराशता निर्भयता नित्यता समता ज्ञता ।
निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥ २९॥

धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता ।
हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥ ६.३०॥

गृहीततृष्णाशबरीवासनाजालमाततम् ।
संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥ ३१॥

अनया तीक्ष्णया तात च्हिन्धि बुद्धिशलाकया ।
वात्ययेवाम्बुदं जालं च्हित्त्वा तिष्ठ तते पदे ॥ ३२॥

मनसैव मनश्च्हित्त्वा कुठारेणेव पादपम् ।
पदं पावनमासाद्य सद्य एव स्थिरो भव ॥ ३३॥

तिष्ठन्गच्च्हन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।
असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज ॥ ३४॥

दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् ।
दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥ ३५॥

नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।
आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ॥ ३६॥

दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव ।
स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ॥ ३७॥

स्वदनं केवलं ध्यायन्परमात्ममयो भव ।
अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव ॥ ३८॥

रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् ।
तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् ॥ ३९॥

एतामहंभावमयीपपुण्यां
च्हित्त्वानहंभाव शलाकयैव ॥
स्वभावजां भव्यभवन्तभूमौ
भव प्रशान्ताखिलभूतभीतिः ॥ ६.४०॥

अहमेषां पदार्थानामेते च मम जीवितम् ।
नाहमेभिर्विना किंचिन्न मयैते विना किल ॥ ४१॥

इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह ।
नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥ ४२॥

अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् ।
यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥ ४३॥

सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् ।
जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः ॥ ४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः ।
ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् ॥ ४६॥

द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ ।
आपतत्सु यथाकालं सुखदुःखेष्वनारतौ ।
संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर ॥ ४७॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।
सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४८॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥ ४९॥

बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते ।
सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते ॥ ६.५०॥

इदमस्तु ममेत्यन्तमिच्च्हां प्रार्थनयान्विताम् ।
तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥ ५१॥

तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।
संत्यज्य परमोदारं पदमेति महामनाः ॥ ५२॥

बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि ।
त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ५३॥

जायते निश्चयः साधो पुरुषस्य चतुर्विधः ॥ ५४॥

आपादमस्तकमहं मातापितृविनिर्मितः ।
इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् ॥ ५५॥

अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।
इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥ ५६॥

जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः ।
तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम ॥ ५७॥

अहं जगद्वा सकलं शून्यं व्योम समं सदा ।
एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः ॥ ५८॥

एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया ।
शुद्धतृष्णास्त्रयः स्वच्च्हा जीवन्मुक्ता विलासिनः ॥ ५९॥

सर्वं चाप्यहमेवेति निश्चयो यो महामते ।
तमादाय विषादाय न भूयो जायते मतिः ॥ ६.६०॥

शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।
शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते ॥ ६१॥

द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया ।
परमात्ममयीशक्तिरद्वैतैव विजृम्भते ॥ ६२॥

सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः ।
नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥ ६३॥

प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् ।
ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति ॥ ६४॥

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।
आशयज्ञश्च भूतानां संसारे नावसीदति ॥ ६५॥

पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।
जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥ ६६॥

अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः ।
बहिःसर्वसमाचारो लोके विहर विज्वरः ॥ ६७॥

बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः ।
कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः ॥ ६८॥

त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।
अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥ ६९॥

उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।
अन्तःसङ्गपरित्यागी बहिःसंभारवानिव ।
अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥ ६.७०॥

अयं बन्धुरयं नेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७१॥

भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।
प्रशान्तकलनारभ्यं नीरागं पदमाश्रय ॥ ७२॥

एषा ब्राह्मी स्थितिः स्वच्च्हा निष्कामा विगतामया ।
आदाय विहरन्नेवं संकटेषु न मुह्यति ॥ ७३॥

वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।
यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः ॥ ७४॥

वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् ।
आशया रक्ततामेति शरदीव सरोऽमलम् ॥ ७५॥

तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः ।
दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते ॥ ७६॥

चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते ।
चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥ ७७॥

एतन्निश्चयमादाय विलोकय धियेद्धया ।
स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि ॥ ७८॥

चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः ।
दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥ ७९॥

नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः ॥ ६.८०॥

चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् ।
संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥ ८१॥

संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः ।
निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर ॥ ६.८२॥ इति ।

य इमां महोपनिषदं ब्राह्मणो नित्यमधीते ।
अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति ।
सोऽग्निपूतो भवति । स वायुपूतो भवति । स सोमपूतो भवति ।
स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वर्देवैर्ज्ञातो भवति ।
स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्देवैरनुध्यातो भवति ।
स सर्वक्रतुभिरिष्टवान्भवति । गायत्र्याः षष्टिसहस्राणि
जप्तानि फलानि भवन्ति । इतिहासपुराणानां शतसहस्राणि जप्तानि
फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति ।
आचक्षुषः पङ्क्तिं पुनाति । आसप्तमान्पुरुषयुगान्पुनाति ।
इत्याह भगवान् हिरण्यगर्भः । जप्येनामृतत्त्वं च
गच्च्हतीत्युपनिषत् । ॥ इति षष्ठोऽध्यायः ॥ ६॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति महोपनिषत्समाप्ता॥

Пайнгала упанишада

पैङ्गलोपनिषत्

शुक्लयजुर्वेदीय सामान्य उपनिषत् ॥

पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।
परितः कलये रामं परमाक्षरवैभवम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य
द्वादशवर्शशुश्रूषापूर्वकं
परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ । स होवाच
याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् ।
तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं
सनातनमेकमेवाद्वितीयं ब्रह्म ।
तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ
जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी
गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं
यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य
सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः सर्वज्ञः
सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति ।
स्वस्मिन्विलीनं सकलं जगदाविर्भावयति ।
प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः
प्राणिकर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं
सङ्कोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो
रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी
स्पष्टास्पष्टवपुर्भवति ।
हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा
स्थूलशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्विराटचैतन्यमासीत् । स तदभिमानी स्पष्टवपुः
सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति ।
तस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः
। अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि
त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय
सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत ।
सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय
पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा
संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि
तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् । स
पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा
भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् । स तेषां
तुर्यभागेन कर्मेन्द्रियाण्यसृजत् । स तेषां सत्त्वांशं
चतुर्धा कृत्वा भागत्रयसमष्टितः
पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां
सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित
इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत्
। तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् ।
तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् ।
हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि
तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि
चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि
समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा
जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशो
मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो
जीवत्वमगमत् ।
शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो
घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन
परिभ्रमतीति ॥ इति प्रथमोऽध्यायः ॥ १॥

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां
सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति । स
होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं
जीवेश्वरस्वरूपं विविच्य कथयामीति
सावधानेनैकाग्रतया श्रूयताम् । ईशः
पञ्चीकृतमहाभूतलेशानादाय
व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् ।
कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः ।
रक्तमूत्रलालास्वेदादिकमवंशाः ।
क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः ।
प्रचारणोत्तारणश्वासादिका वाय्वंशाः । कामक्रोधादयो
व्योमांशाः । एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं
बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं
भवति ॥

अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः
प्राणमसृजत् । प्राणापानव्यानोदानसमानाः प्राणवृत्तयः
। नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः ।
हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि ।
आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् ।
वाक्पाणिपादपायूपास्थास्तद्वृत्तयः ।
वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥

एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत्
। अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः ।
सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः ।
गलवदननाभिहृदयभ्रूमध्यं स्थानम् ।
भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् ।
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।
शब्दस्पर्शरूपरसगन्धास्तद्विषयाः ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो
विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥

अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च
कोशाः । अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं
प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः ।
तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादिपञ्चकं
प्राणमयकोशः । ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः ।
एतत्कोशत्रयं लिङ्गशरीरम् ।
स्वरूपाज्ञानमानन्दमयकोशः । तत्कारणशरीरम् ॥

अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं
प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं
कामकर्मतमांस्यष्टपुरम् ॥

इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय
विश्वत्वमगमत् । विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको
जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम
भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं
प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् । तैजसः
प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ।
ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं
प्रविश्य प्राज्ञत्वमगमत् । प्राज्ञोविच्छिन्नः पारमार्थिकः
सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति ।
अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य
तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः
नेतरयोर्व्यावहारिकप्रातिभासिकयोः ।
अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति
। स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो
जातो मृत इव स्थितो भवति । अथ
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति


तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः
शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति ।
तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य
कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक् च
भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स
सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं
मार्गमाश्रित्य तिष्ठति । करणोपरमे
जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं
स्वप्नावस्था भवति । तत्र विश्व एव
जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य
वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं
स्वयं भुङ्क्ते ॥

चित्तैककरणा सुषुप्त्यवस्था भवति ।
भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा
गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य
श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥

अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ्
आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या
ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी
मरणावस्था भवति । कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि
तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित
अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं
गच्छति । प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं
नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते
नृणां मोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य
चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति । अविचारकृतो
बन्धो विचारान्मोक्षो भवति । तस्मात्सदा विचारयेत् ।
अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते ।
तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो
जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत
इति ॥ इति द्वितीयोऽध्यायः ॥ २॥

अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं
महावाक्यविवरणमनुब्रूहीति । स होवाच
याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं
ब्रह्मास्मीत्यनुसन्धानं कुर्यात् । तत्र पारोक्ष्यशबलः
सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो
जगद्योनिस्तत्पदवाच्यो भवति । स
एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो
भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं
प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति
वाक्यार्थविचारः श्रवणं भवति । एकान्तेन
श्रवणार्थानुसन्धानं मननं भवति ।
श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया
चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय
निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति ।
तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति ।
ताः स्मरणादनुमीयन्ते । इहानादिसंसारे सञ्चिताः
कर्मकोटयोऽनेनैव विलयं यान्ति ।
ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति । ततो
योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले
निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे
समूलोन्मूलिते प्राक्परोक्षमपि
करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं
प्रसूयते । तदा जीवन्मुक्तो भवति ॥

ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं
सोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च
कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि
प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं
चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य
भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे
चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं
पुरुषे क्रमेण विलीयते । विराद्ड्ढिरण्यगर्भेश्वरा
उपाधिविलयात्परमात्मनि लीयन्ते ।
पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः
कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य
सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं
कूटस्थे प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः
स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते । अण्डं ज्ञानाग्निना
दग्धं कारणैः सह परमात्मनि लीनं भवति । ततो ब्राह्मणः
समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततो
मेघापायेंऽशुमानिवात्माविर्भवति । ध्यात्वा
मध्यस्थमात्मानं कलशान्तरदीपवत् ।
अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ १॥

प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् ।
ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥ २॥

जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३॥

अशब्दमस्पर्शमरूपमव्ययं
तथा रसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
तदेव शिष्यत्यमलं निरामयम् ॥ ४॥ इति ॥ इति
तृतीयोऽध्यायः ॥ ३॥

अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं ज्ञानिनः किं
कर्म का च स्थितिरिति । स होवाच याज्ञवल्क्यः ।
अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति ।
ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु
सारथिं विद्धि मनः प्रग्रहमेव च ॥ १॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि
विमानानि हृदयानि मनीषिणः ॥ २॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः
साक्षाद्धृदये सुप्रतिष्ठितः ॥ ३॥

प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।
चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥ ४॥

तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् ।
प्राणानवकीर्य याति कैवल्यम् ॥

तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् । पुंसः
प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ५॥

नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न
कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे ॥ ६॥

दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा ।
ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ७॥

यावच्चोपाधिपर्यन्तं तावच्छुश्रूषयेद्गुरुम् ।
गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ८॥

शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः
सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि
संस्थिते देहे लब्धशान्तिपदं गते तदा
प्रभामनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं
प्रयोजनम् । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं
भवति । ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति
तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः
पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति ।
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव
परं सर्वमिति पश्येत्परं सुखम् ॥ ९॥

यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः ॥ १०॥

देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति
तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः
पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् ।
यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः
॥ ११॥

आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति
चान्तरात्मा ॥ १२॥

यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा
सर्वगतं व्योम तत्रतत्र लयं गतः ॥ १३॥

घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति
निरालम्बं ज्ञानालोकं समन्ततः ॥ १४॥

तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य
कलां नार्हति षोडशीम् ॥ १५॥

इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्छति । । अपि
वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ १६॥

विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय
शास्त्रजालानि यत्सत्यं तदुपासताम् ॥ १७॥

अनन्तकर्मशौचं च जपो यज्ञस्तथैव च ।
तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति ॥ १८॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे
बन्धमोक्षाय न ममेति ममेति च ॥ १९॥

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । मनसो ह्युन्मनी भावे
द्वैतं नैवोपलभ्यते ॥ २०॥

यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्रयत्र मनो
याति तत्रतत्र परं पदम् ॥ २१॥

तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ।
हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् ॥ २२॥

नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते । य
एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो
भवति । स आदित्यपूतो भवति । स ब्रह्मपूतो भवति । स
विष्णुपूतो भवति । स रुद्रपूतो भवति । स सर्वेषु
तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतो भवति ।
स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां
रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
प्रणवानामयुतं जप्तं भवति । दश
पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स
महान्भवति ।
ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य
ः पूतो भवति । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
। दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत्


ॐ पूर्णामद इति शान्तिः ॥

इति पैङ्गलोपनिष्त्समाप्ता ॥

Гопала-тапани упанишада

गोपालतापिन्युपनिषत्

श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥

हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥

मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः कुतो मृत्युर्बिभेति ।
कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति ।
तदुहोवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।
स्वाहेदं विश्वं संसरतीति । तदुहोचुः । कः कृष्णः । गोविन्दश्च
कोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।
तन्माया चेति सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति
सोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहो
तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदुहोवाच हैरण्यो
गोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ १॥

गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥ २॥

कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३॥ इति॥

तस्य पुना रसनमितिजलभूमिं तु सम्पाताः । कामादि कृष्णायेत्येकं
पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।
स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म सम्पद्यत इति । तदेष श्लोकः
क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या
गतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये-
नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधा आराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेतत्सुरेताः ॥ १॥

वायुर्यथैको भुवनं प्रविष्टो
जन्येजन्ये पञ्चरूपो बभूव ।
कृष्णस्तदेकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥ २॥ इति॥

ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि-
रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलं
भवतीति ॥ २॥ तदिह श्लोका भवन्ति ।
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठं येऽनुभजन्ति धीरा-
स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ ३॥

नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४॥

एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् ।
तेषामसौ गोपरूपःप्रयत्ना-
त्प्रकाशयेदात्मपदं तदेव ॥ ५॥

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यां तस्मै गोपयति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुः शरणं व्रजेत् ॥ ६॥

ओङ्कारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥ ७॥

एतस्मा एव पञ्चपदादभूव-
न्गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै-
रभ्यस्यन्ते भूतिकामैर्यथावत् ॥ ८॥

पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टा
मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतो मायानुकूलेन
हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।
तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।
तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातात्तदर्क इति ।
क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः
प्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदं
सकलमिदं सकलमिदमिति ॥ ३॥

एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।
ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति । ॥४॥

तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।
वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥ ५॥

तदत्र गाथाः
यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १॥

पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥ २॥

ततो विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥ ३॥

तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
परमया स्तुत्या स्तोष्यामि ॥

ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥

नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २॥

नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥ ३॥

बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमोनमः ॥ ४॥

कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५॥

वेणुनादविनोदाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ६॥

पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७॥

नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमोन् नमः ॥ ९॥

प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥

श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥

केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥

अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच
हैरण्यगर्भः । अमुं पञ्चपदं मनुमार्तयेयेद्यः स
यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्ण एव परमं
देवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् ।
ॐ तत्सदित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥

ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः
कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति
दुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।
यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं
वो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति ।
यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती
व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।
यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति । यं मां
स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।
श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा
तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं
श्रेष्ठतमं हि वै रौद्रं चेति । दत्त्वास्मै ब्राह्मणाय
क्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं
हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।
कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनं
मां स्मृत्वा वो दास्यतीति मार्गम् । तासां मध्ये हि श्रेष्ठा
गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो
ब्रह्मचारी । कथं दुर्वासनो मुनिः । तां हि मुख्यां विधाय
पूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यां
भिन्नः । तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति
स ह्याकाशस्तं न वेद । स ह्यात्मा ।
अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यां
भिन्नम् । तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तं
न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्य
आपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सु
भूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।
भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथं
भोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।
यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्छतीति ।
स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हि
प्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतो
ब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्षी
भवतीति । वृक्षधर्मे तौ तिष्ठतः । अतू भोक्तभोक्तारौ । पूर्वो
हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्ये
न विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी
भवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै
त्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यां
भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ
गोषु तिष्ठति । योऽसौ गोपान्पालयति । योऽसौ सर्वेषु देवेषु
तिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य
भूतानि विदधाति स वो हि स्वामी भवति । सा होवाच गान्धर्वी ।
कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।
को वास्य मन्त्रः किं स्थानम् । कथं वा देवक्या जातः । को वास्य
जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृति-
परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै
सा गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणो
यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
तस्मै ह वरं ददौ । स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।
स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः
को भवति । येन लोकास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ता
अस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।
स होवाच तं हि वै नारायणो देवः । सकाम्या मेरोः श‍ृङ्गे
यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या
भूगोपालचक्रे सप्तपुर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म
गोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषां
भूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसि
पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षिता
मथुरा । तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं
तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः
कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति
भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी
भवति । तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः
किंनरा गायन्ति नृत्यन्तीति । तत्र द्वादशादित्या एकादश रुद्रा
अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका
वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।
द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानि
पुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य-
अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः । वनेश्वेवं मथुरास्वेवं
द्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति ।
तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका
यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति ।
नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीति-
स्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति ते
मृत्युं तरन्ति । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखं
तरन्ति । तदप्येते श्लोका भवन्ति ।
सम्प्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।
शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥ १॥

यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥

चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेव
परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।
स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति । स ब्रह्मविद्भवति ।
स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति । स गोपालो
ह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मको
नित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव । परं
सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् ।
आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥ १॥

विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् ।
मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥

योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥ ३॥

चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥ ४॥

गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥

रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।
मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥

तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।
तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥ ७॥

कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥ ८॥

यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।
स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् ।
स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।
तस्मादव्यक्तमेकाक्षरम् । तस्मदक्षरान्महत् ।
महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि ।
तेभ्यो भूतानि । तैरावृतमक्षरम् ।
अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।
स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।
सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥ ९॥

एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
रोहिणीतनयो विश्व अकाराक्षरसंभवः ॥ १०॥

तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ।
प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः ॥ ११॥

अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।
कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥ १२॥

व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।
प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ १३॥

तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।
क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥ १४॥

मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।
अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ १५॥

दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।
श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥ १६॥

चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।
सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥ १७॥

द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १८॥

ध्यायेन्मनसि मां नित्यं वेणुश‍ृङ्गधरं तु वा ।
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥ १९॥

मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।
अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ २०॥

संसारार्णवसंजातं सेवितं मम मानसे ।
चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥ २१॥

आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।
श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥ २२॥

श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।
येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥ २३॥

वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥ २४॥

पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।
बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥ २५॥

आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥ २६॥

धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥ २७॥

माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।
कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥ २८॥

क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।
ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥ २९॥

स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ ३०॥

स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥

स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
चाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।
ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्या
यजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सपदानुगा अन्तर्धाने
तिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणो
देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । रुद्रेषु रौद्री
ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
स्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।
ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥ १॥

ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥

ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥ ३॥

ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥

ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥ ५॥

ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥

ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥ ७॥

ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ८॥

ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥ ९॥

ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १०॥

ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ११॥

ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १२॥

ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १३॥

ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥ १४॥

ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १५॥

ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ १६॥

ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १७॥

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ १८॥

रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।
विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।
निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।
ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥ १९॥

ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।
तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २०॥ इति॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥

Майтраяни упанишада

मैत्रायण्युपनिषत्

॥ अथ मैत्रायण्युपनिषत् ॥

सामवेदीय सामान्य उपनिषत् ॥

वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः ।
यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथो
बलमिन्द्रियाणि च ।
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य
उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

मैत्रायणी कौषितकी बृहज्जाबालतापनी ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरमन्त्रिका ।
ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं
निधापयित्वेदमशाश्वतं मन्यमानः शारीरं
वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप
आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य
मुनिरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा
निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं
वृणीश्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच
भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो
ब्रूहीत्येतद्वृतं पुरस्तादशक्यं मा पृच्छ
प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य
चरणवभिमृश्यमानो राजेमां गाथां जगाद ॥ १॥

भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू
षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे
निःसारेऽस्मिञ्छरीरे किं कामोपभोगैः ॥ २॥

कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसम्प्रयोगक्षु
त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्छरीरे किं
कामोपभोगैः ॥ ३॥

सर्वं चेदं क्षयिष्णु पश्यामो यथेमे
दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः ॥ ४॥

अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः
केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया
श्वाश्वपतिः शशबिन्दुर्हारिश्चन्द्रोऽम्बरीषो
ननूक्तस्वयातिर्ययातिनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो
राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं
त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥ ५॥

अथ किमेतैर्वा परेऽन्ये
गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां
निरोधनं पश्यामः ॥ ६॥

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां (किमेतैर्वार्ण्यानां)
प्रपतनं ध्रुवस्य प्रचलनं (व्रश्चनं वातरज्जूनां)
(स्थानं वा तरूणां)
निमज्जनं पृथिव्याः स्थानादपसरणं सुराणं
सोऽहमित्येतद्विधेऽस्मिन्संसारे किं
कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनं दृश्यत
इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे
भगवंस्त्वं नो गतिस्त्वं नो गतिः ॥ ७॥ इति प्रथमः
प्रपाठकः ॥

अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज
बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं
मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो
भगवान्वर्ण्य इति तं होवाच इति ॥ १॥

य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो
व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह
भगवानथ य एष सम्प्रसादोऽस्माञ्छरीरात्समुत्थाय
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २॥

अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं
भगवता मैत्रेयेण व्याख्याताहं ते
कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो
वालखिल्या इति श्रुयन्तेऽथैते
प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं
कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य
येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को
भगवन्नेतदस्माकं ब्रूहीति तान्होवाच ॥ ३॥

यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः
पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः
शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं
चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते
होचुर्भगवन्कथमनेनेदृशेनानिच्छेनैतद्विधमिदं
चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति
तान्होवाच ॥ ४॥

स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसंज्ञको
बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं
निबोधयत्यथ योह खलु वावाइतस्यांशोऽयं
यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः
सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वक्षस्तेन
चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता
चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन
वर्तनमिति तान्होवाच ॥ ५॥

प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स
आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा
अप्राणा स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत
सोऽमन्यतैतासं प्रतिबोधनायाभ्यन्तरं प्राविशानीत्यथ स
वायुमिवात्मानं कृत्वाभ्यन्तरं प्राविशत्स एको नाविशत्स
पञ्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान
उदानो व्यान इति ॥ ६॥

अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ
योयमावञ्चं संक्रामत्वेष वाव सोऽपानोऽथ योयं
स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे
समं नयत्येष वाव स समानोऽथ योऽयं पीताशितमुद्गिरति
निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा
अनुव्याप्ता एष वाव स व्यानः ॥ ७॥

अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले
चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः
सोऽग्निर्वैश्वानरोऽप्यन्यत्राप्युक्तमयमग्निर्वैश्वानरो
योऽयमनन्तः पुरुषो येनेदमन्नं पच्यते यदिदमद्यते
तस्यैष घोषो भवति यदेतत्कर्णावपिधाय श‍ृणोति स
यदोत्क्रमिष्यन्भवति नैनं घोषं श‍ृणोति ॥ ८॥

स वा एष पञ्चधात्मानं प्रविभज्य निहितो गुहायां
मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा
एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थोऽमन्यतार्थानसानि
तत्स्वानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्तीति
बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य
हया रथः शरीरं मनो नियन्ता प्रकृतिमयोस्य प्रतोदनेन
खल्वीरितं परिभ्रमतीदं शरीरं चक्रमिव मृते च
नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता
चैषोऽस्येति ॥ ९॥

स वा एष आत्मेत्यदो वशं नीत इव सितासितैः
कर्मफलैरभिभूयमान इव प्रतिशरीरेषु
चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा
च्चानवस्थोऽकर्ता कर्तेवावस्थितः ॥ १०॥

स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः
प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन
पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति ॥ ११॥ इति
द्वितीयः प्रपाठकः ॥

ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो
वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः
सदसद्योनिमापद्यत इत्यवाचीं वोर्ध्वां वा गतं
द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति
तान्होवाच ॥ १॥

अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः
कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं
वोर्ध्वां गतिं द्वन्द्वैरभिभूयमानः
परिभ्रमतीत्यस्योपव्याख्यानं पञ्च तन्मात्राणि
भूतशब्देनोच्यन्ते पञ्च महाभूतानि
भूतशब्देनोच्यन्तेऽथ तेषां यः समुदायः
शरीरमित्युक्तमथ यो ह खलु वाव शरीरमित्युक्तं स
भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति स वा
एषोऽभिभूतः
प्राकृत्यैर्गुणैरित्यतोऽभिभूतत्वात्संमूढत्वं
प्रयात्यसंमूढस्त्वादात्मस्थं प्रभुं भगवन्तं
कारयितारं नापश्यद्गुणौघैस्तृप्यमानः
कलुषीकृतास्थिरश्चञ्चलो लोलुप्यमानः सस्पृहो
व्यग्रश्चाभिमानत्वं प्रयात इत्यहं सो ममेदमित्येवं
मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः
कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति ॥ २॥

अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः
कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः
कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ
भूतात्मान्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो
नानात्वमुपैत्यथ यत्त्रिगुणं चतुरशीतिलक्षयोनिपरिणतं
भूतत्रिगुणमेतद्वै नानात्वस्य रूपं तानि ह वा इमानि
गुणानि पुरुषेणेरितानि चक्रमिव चक्रिणेत्यथ यथायःपिण्डे
हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ
पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥ ३॥

अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं
संविदपेतं निरय एव मूत्रद्वारेण
निष्क्रामन्तमस्थिभिश्चितं मांसेनानुलिप्तं
चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च
मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति ॥ ४॥

अथान्यत्राप्युक्तं संमोहो भयं विषादो निद्रा तन्द्री व्रणो
जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमज्ञानं
मात्सर्यं वैकारुण्यं मूढत्वं निर्व्रीडत्वं
निकृतत्वमुद्धातत्वमसमत्वमिति तामसान्वितस्तृष्णा स्नेहो
रागो लोभो हिंसा रतिर्दृष्टिव्यापृतत्वमीर्ष्या
काममवस्थितत्वं चञ्चलत्वं जिहीर्षार्थोपार्जनं
मित्रानुग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु
द्विष्टिरिष्टेश्वभिषङ्ग इति राजसान्वितैः परिपूर्ण
एतैरभिभूत इत्ययं भूतात्मा
तस्मान्नानारूपाण्याप्नोतीत्याप्नोतीति ॥ ५॥ तृतीयः
प्रपाठकः ॥

ते ह खल्वथोर्ध्वरेतसोऽतिविस्मिता अतिसमेत्योचुर्भगवन्नमस्ते
त्वं नः शाधि त्वमस्माकं गतिरन्या न विद्यत इत्यस्य
कोऽतिथिर्भूतात्मनो येनेदं हित्वामन्येव सायुज्यमुपैति
तान्होवाच ॥ १॥

अथान्यत्राप्युक्तं महानदीषूर्मय इव निवर्तकमस्य
यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमनं
सदसत्फलमयैर्हि पाशैः पशुरिव बद्धं
बन्धनस्थस्येवास्वातन्त्र्यं यमविषयस्थस्यैव
बहुभयावस्थं मदिरोन्मत्त इवामोदममदिरोन्मत्तं पाप्मना
गृहीत इव भ्राम्यमाणं महोरगदष्ट इव विपदृष्टं
महान्धकार इव रागान्धमिन्द्रजालमिव मायामयं स्वप्नमिव
मिथ्यादर्शनं कदलीगर्भ इवासारं नट इव क्षणवेषं
चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् ॥ शब्दस्पर्शादयो
येऽर्था अनर्था इव ते स्थिताः । येष्वासक्तस्तु भूतात्मा न
स्मरेच्च परं पदम् ॥ २॥

अयं वा व खल्वस्य प्रतिविधिर्भूतात्मनो यद्येव
विद्याधिगमस्य धर्मस्यानुचरणं स्वाश्रमेष्वानुक्रमणं
स्वधर्म एव सर्वं धत्ते
स्तम्भशाखेवेतराण्यनेनोर्ध्वभाग्भवत्यन्यथधः पतत्येष
स्वधर्माभिभूतो यो वेदेषु न स्वधर्मातिक्रमेणाश्रमी
भवत्याश्रमेष्वेवावस्थितस्तपस्वी चेत्युच्यत एतदप्युक्तं
नातपस्कस्यात्मध्यानेऽधिगमः कर्मशुद्धिर्वेत्येवं ह्याह ॥

तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।
मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तत इति ॥ ३॥

अत्रैते श्लोका भवन्ति ॥

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ १॥

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।
इन्द्रियार्थाविमूढस्यानृताः कर्मवशानुगाः ॥ २॥

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३॥

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते॥ ४॥

समासक्तं यदा चित्तं जन्तोर्विषयगोचरे ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ५॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥ ६॥

लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।
यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ ७॥

तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् ।
एतज्ज्ञानं च मोक्षं च शेषास्तु ग्रन्थविस्तराः ॥ ८॥

समाधिनिर्धूतमलस्य चेतसो
निवेशितस्यात्मनि यत्सुखं लभेत् ।
न शक्यते वर्णयितुं गिरा तदा
स्वयं तदन्तःकरणेन गृह्यते ॥ ९॥

अपामपोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत् ।
एवमन्तर्गतं चित्तं पुरुषः प्रतिमुच्यते ॥ १०॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतमिति ॥ ११॥

अथ यथेयं कौत्सायनिस्तुतिः ॥

त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः ।
त्वमग्निर्वरुणो वायुस्त्वमिन्द्रस्त्वं निशाकरः ॥ १२॥

त्वं मनुस्त्वं यमश्च त्वं पृथिवी त्वमथाच्युतः ।
स्वार्थे स्वाभाविकेऽर्थे च बहुधा तिष्ठसे दिवि ॥ १३॥

विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् ।
विश्वभुग्विश्वमायस्त्वं विश्वक्रीडारतिः प्रभुः ॥ १४॥

नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च ।
अचिन्त्यायाप्रमेयाय अनादिनिधनाय चेति ॥ १५॥ ॥ ४॥

तमो वा इदमेकमास तत्पश्चात्परेणेरितं विषयत्वं
प्रयात्येतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं
प्रयात्येतद्वै तमसो रूपं तत्तमः खल्वीरितं तमसः
सम्प्रास्रवत्येतद्वै सत्त्वस्य रूपं तत्सत्त्वमेवेरितं
तत्सत्त्वात्सम्प्रास्रवत्सोंऽशोऽयं यश्चेतनमात्रः
प्रतिपुरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसायाभिमानलिङ्गः
प्रजापतिस्तस्य प्रोक्ता अग्र्यास्तनवो ब्रह्मा रुद्रो विष्णुरित्यथ
यो ह खलु वावास्य राजसोंऽशोऽसौ स योऽयं ब्रह्माथ यो ह
खलु वावास्य तामसोंऽशोऽसौ स योऽयं रुद्रोऽथ यो ह
खलु वावास्य सात्विकोंऽशोऽसौ स एवं विष्णुः स वा एष
एकस्त्रिधाभूतोऽष्टधैकादशधा द्वादशधापरिमितधा
चोद्भूत उद्भूतत्वाद्भूतेषु चरति प्रतिष्ठा
सर्वभूतानामधिपतिर्बभूवेत्यसावात्मान्तर्बहिश्चान्तर्बहिस्
ह्च ॥ ५॥ चतुर्थः प्रपाठकः ॥

द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो
यश्चासावादित्योऽथ द्वौ वा एतावास्तां पञ्चधा
नामान्तर्बहिश्चाहोरात्रे तौ व्यावर्तेते असौ वा आदित्यो
बहिरात्मान्तरात्मा प्राणो बहिरात्मा गत्यान्तरात्मनानुमीयते
। गतिरित्येवं ह्याह यः
कश्चिद्विद्वानपहतपाप्माध्यक्षोऽवदातमनास्तन्निष्ठ
आवृत्तचक्षुः सोऽन्तरात्मागत्या बहिरात्मनोऽनुमीयते
गतिरित्येवं ह्याहाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो
यः पश्यति मां हिरण्यवत्स एषोऽन्तरे हृत्पुष्कर
एवाश्रितोऽन्नमत्ति ॥ १॥

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स
एषोऽग्निर्दिवि श्रितः सौरः कालाख्योऽदृश्यः
सर्वभूतान्नमत्ति कः पुष्करः किमयं वेद वा व
तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो दिशश्चतस्र
उपदिशः संस्था अयमर्वागग्निः परत एतौ
प्राणादित्यावेतावुपासीतोमित्यक्षरेण व्याहृतिभिः सावित्र्या
चेति ॥ २॥

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं चाथ यन्मूर्तं
तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म यद्ब्रह्म
तज्ज्योतिर्यज्ज्योतिः स आदित्यः स वा एष ओमित्येतदात्मा स
त्रेधात्मानं व्यकुरुत ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं
प्रोतं चैवास्मिन्नित्येवं ह्याहैतद्वा आदित्य ओमित्येवं
ध्यायंस्तथात्मानं युञ्जीतेति ॥ ३॥

अथान्यत्राप्युक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इत्यसावादित्य उद्गीथ एव प्रणव इत्येवं
ह्याहोद्गीथः प्रणवाख्यं प्रणेतारं नामरूपं विगतनिद्रं
विजरमविमृत्युं पुनः पञ्चधा ज्ञेयं निहितं
गुहायामित्येवं ह्याहोर्ध्वमूलं वा आब्रह्मशाखा
आकाशवाय्वग्न्युदकभूम्यादय एकेनात्तमेतद्ब्रह्म
तत्तस्यैतत्ते यदसावादित्य ओमित्येतदक्षरस्य
चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य रसं
बोधयीत इत्येवं ह्याहैतदेवाक्षरं पुण्यमेतदेवाक्षरं
ज्ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ४॥

अथान्यत्राप्युक्तं स्तनयत्येपास्य तनूर्या ओमिति
स्त्रीपुंनपुंसकमिति लिङ्गवत्येषाथाग्निर्वायुरादित्य इति
भास्वत्येषाथ रुद्रो विष्णुरित्यधिपतिरित्येषाथ गार्हपत्यो
दक्षणाग्निराहवनीय इति मुखवत्येषाथ ऋग्यजुःसामेति
विजानात्येषथ भूर्भुवस्वरिति लोकवत्येषाथ भूतं
भव्यं भविष्यदिति कालवत्येषाथ प्राणोऽग्निः सूर्यः इति
प्रतापवत्येषाथान्नमापश्चन्द्रमा इत्याप्यायनवत्येषाथ
बुद्धिर्मनोऽहङ्कार इति चेतनवत्येषाथ प्राणोऽपानो व्यान
इति प्राणवत्येके त्यजामीत्युक्तैताह प्रस्तोतार्पिता
भवतीत्येवं ह्याहैतद्वै सत्यकाम परं चापरं च
यदोमित्येतदक्षरमिति ॥ ५॥

अथ व्यात्तं वा इदमासीत्सत्यं प्रजापतिस्तपस्तप्त्वा
अनुव्याहरद्भूर्भुवःस्वरित्येषा हाथ प्रजापतेः स्थविष्ठा
तनूर्वा लोकवतीति स्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा
आदित्यश्चक्षुरायत्तः पुरुषस्य महतो मात्राश्चक्षुषा
ह्ययं मात्राश्चरिति सत्यं वै चक्षुरक्षिण्युपस्थितो हि
पुरुषः सर्वार्थेषु
वदत्येतस्माद्भूर्भुवःस्वरित्युपासीतान्नं हि
प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं
ह्याहैषा वै प्रजापतिर्विश्वभृत्तनूरेतस्यामिदं
सर्वमन्तर्हितमस्मिॅंश्च सर्वस्मिन्नेषान्तर्हितेति
तस्मादेषोपासीतेति ॥ ६॥

तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं
प्रवरणाय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य
धीमहीति सविता वै तेऽवस्थिता योऽस्य भर्गः कं
सञ्चितयामीत्याहुर्ब्रह्मवादिनोऽथ धियो यो नः प्रचोदयादिति
बुद्धयो वै धियस्ता योऽस्माकं
प्रचोदयादित्याहुर्ब्रह्मवादिनोऽथ भर्ग इति यो ह वा
अस्मिन्नादित्ये निहितस्तारकेऽक्षिणि चैष भर्गाख्यो
भाभिर्गतिरस्य हीति भर्गो भर्जति वैष भर्ग इति
ब्रह्मवादिनोऽथ भर्ग इति भासयतीमाॅंल्लोकानिति
रञ्जयतीमानि भूतानि गच्छत इति
गच्छत्यस्मिन्नागच्छत्यस्मा इमाः
प्रजास्तस्माद्भारकत्वाद्भर्गः शत्रून्सूयमानत्वात्सूर्यः
सव्नात्सविता दानादादित्यः
पवनात्पावमानोऽथायोऽथायनादादित्य इत्येवं ह्याह
खल्वात्मनात्मामृताख्यश्चेता मन्ता गन्ता स्रष्टा
नन्दयिता कर्ता वक्ता रसयिता घ्राता स्पर्शयिता च
विभुविग्रहे सन्निष्ठा इत्येवं ह्याहाथ यत्र द्वैतीभूतं
विज्ञानं तत्र हि श‍ृणोति पश्यति जिघ्रतीति रसयते चैव
स्पर्शयति सर्वमात्मा जानीतेति यत्राद्वैतीभूतं विज्ञानं
कार्यकारणनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं
तदङ्ग वाच्यम् ॥ ७॥

एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः
प्रजापतिर्विश्वसृड्ढिरण्यगर्भः सत्यं प्राणो हंसः शान्तो
विष्णुर्नारायणोऽर्कः सविता धाता सम्राडिन्द्र इन्दुरिति य
एष तपत्यग्निना पिहितः सहस्राक्षेण हिरण्मयेनानन्देनैष
वाव विजिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं
दत्त्वारण्यं गत्वाथ
बहिःकृतेन्द्रियार्थान्स्वशरीरादुपलभतेऽथैनमिति
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं
तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः
प्रजानामुदयत्येष सूर्यः ॥ ८॥ इति पञ्चमः प्रपाठकः ॥

। अथ प्रपाठक ६ ।
द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो
यश्चासा आदित्योऽथ द्वौ वा एता अस्य पन्थाना
अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते असौ वा आदित्यो
बहिरात्मान्तरात्मा प्राणोऽतो बहिरात्मक्या
गत्यान्तरात्मनोऽनुमीयते गतिरित्येवं हि आहाथ यः
कश्चिद्विद्वानपहतपाप्माऽक्षाध्यक्षोऽवदातमनास्तन्निष्ठ
आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते
गतिरित्येवं ह आह अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः
पश्यतीमां हिरण्यवस्थात् स एषोऽन्तरे हृत्पुष्कर
एवाश्रितोऽन्नमत्ति ॥ १॥

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिवि
श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति कः
पुष्करः
किंमयो वेति इअदं वा व तत्पुष्करं योऽयमाकाशोऽस्येमाः
चतस्रो दिशश्चतस्र उपदिशो दलसंस्था आसमर्वाग्विचरत एतौ
प्राणादित्या एता उपासितोमित्येतदक्षरेण व्याहृतिभिः
सावित्र्या चेति ॥ २॥

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च । अथ यन्मूर्तं
तदसत्यम् यदमूर्तं तत्सत्यम् तद्ब्रह्म तज्ज्योतिः यज्ज्योतिः स
आदित्यः स वा एष ओमित्येतदात्माभवत् स त्रेधात्मानं व्याकुरुत
ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीति एवं
ह्याहैतद्वा आदित्य ओमित्येवं ध्यायत आत्मानं युञ्जीतेति ॥ ३॥

अथान्यत्रापि उक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति असौ वा आदित्य उद्गीथ एष प्रणवा इति । एवं
ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं
विगतनिद्रं विजरं विमृत्युं
त्रिपदं त्र्यक्षरं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं
ह्याहोर्ध्वमूलं त्रिपाद्ब्रह्म शाखा आकाश वाय्वग्न्युदकभूम्यादय
एकोऽश्वत्थनामैतद्ब्रह्मैतस्यैतत्तेजो यदसा आदित्यः ओमित्येतदक्षरस्य
चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य सम्बोधयितेत्येवं
ह्याह:
एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ॥ ४॥

अथान्यत्राप्युक्तं स्वनवत्येषास्यस्तनुर्या ओमिति स्त्रीपुंनपुंसकेति
लिङ्गवती एषाऽथाग्निर्वायुरादित्य इति भास्वति एषा अथ ब्रह्म
रुद्रो
विष्णुरित्यधिपतिवती एषाऽथ गार्हपत्यो दक्षिणाग्निराहवनीया इति
मुखवती एषाऽथ ऋग्यजुःसामेति विज्ञानवती एषा
भूर्भुवःस्वरिति
लोकवती एषाऽथ भूतं भव्यं भविष्यदिति कालवती एषाऽथ
प्राणोऽग्निः
सूर्य इति प्रतापवती एषाऽथान्नमापश्चन्द्रमा इत्याप्यायनवती
एषाऽथ बुद्धिर्मनोऽहङ्कारा इति चेतनवती एषाऽथ प्राणोऽपानो
व्यान
इति प्राणवती एषेति अत ओमित्युक्तेनैताः प्रस्तुता अर्चिता अर्पिता
भवन्तीति एवं ह्याहैतद्वै सत्यकाम परां चापरां
च ब्रह्म यदोमित्येतदक्षरमिति ॥ ५॥

अथाव्याहृतं वा इदमासीत् स सत्यं
प्रजापतिस्तपस्तप्त्वाऽनुव्याहरद्भूर्भुवःस्वरिति ।
एषैवास्य प्रजापतेः स्थविष्ठा तनुर्या लोकवतीति
स्वरित्यस्याः शिरो नाभिर्भुवो
भूः पादा आदित्यश्चक्षुः चक्षुरायता हि पुरुषस्य
महती मात्रा चक्षुषा
ह्ययं मात्राश्चरति सत्यं वै चक्षुः
अक्षिण्यवस्थितो हि पुरुषः सर्वार्थेषु चरति
एतस्माद्भूर्भुवःस्वरित्युपासीतानेन हि
प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीति एवं ह्याहैषा
वै प्रजापतेर्विश्वभृत्तनुरेतस्यामिदं सर्वमन्तर्हितमस्मिन्
च सर्वस्मिन्नेषा अन्तर्हितेति तस्मादेषोपासीता ॥ ६॥

तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं प्रवरणीय
आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीति
सविता वै देवस्ततो योऽस्य भर्गाख्यस्तं
चिन्तयामीत्याहुर्ब्रह्मवादिनोऽथ
धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्तायोऽस्माकं
प्रचोदयादित्याहुर्ब्रह्मवादिनः अथ भर्गा इति यो ह वा अमुष्मिन्नादित्ये
निहितस्तारकोऽक्षिणि वैष भर्गाख्यः भाभिर्गतिरस्य हीति भर्गः
भर्जयतीति
वैष भर्ग इति रुद्रो ब्रह्मवादिनोऽथ भ इति भासयतीमान् लोकान् र
इति
रंजयतीमानि भूतानि ग इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः
प्रजास्तस्माद्भ-रग-त्वाद्भर्गः शाश्वत् सूयमानात् सूर्यः सवनात्
सविताऽदानात् आदित्यः पवनात्पावनोऽथापोप्यायनादित्येवं ह्याह
खल्वात्मनोऽत्मा नेतामृताख्यश्चेता मन्ता गन्तोत्सृष्टानन्दयिता
कर्ता वक्ता रसयिता घ्राता द्रष्टा श्रोता स्पृशति च विभुर्विग्रहे
सन्निविष्टा इत्येवं ह्याह अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि
श‍ृणोति
पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेति
यत्राद्वैतीभूतं
विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यां
किं तदवाच्यम् ॥ ७॥

एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर्विश्वसृक्
हिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः
सविता धाता विधाता सम्राडिन्द्र इन्दुरिति य एष तपत्यग्निरिवाग्निना
पिहितः सहस्राक्षेण हिरण्मयेनाण्डेन एष वा जिज्ञासितव्योऽन्वेष्टव्यः
सर्वभूतेभ्योऽभयं दत्वारण्यं गत्वाथ
बहिःकृत्वीन्द्रियार्थान्स्वाच्छरीरादुपलभेत एनमिति ।
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥

॥ ८॥

तस्माद्वा एष उभयात्मैवं विदात्मन्येवाभिद्यायत्यात्मन्येव
यजतीति ध्यानं प्रयोगस्थं मनो विद्वद्भिष्टुतं
मनःपूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् मन्त्रं पठति
उच्छिष्टोच्छिष्टोपहितं यच्च पापेन दत्तं मृतसूतकाद्वा
वसोः पवित्रमग्निः सवितुश्च रश्मयः पुनन्त्वन्नं मम दुष्कृतं
च यदन्यत् अद्भिः पुरस्तात्परिदधाति प्राणाय स्वाहापानाय
स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति
पञ्चभिरभिजुहोति
अथावाशिष्टं यतवागश्नात्यतोऽद्भिर्भूय
एवोपरिष्टात्परिदधात्याचान्तो
भूत्वात्मेज्यानः प्राणोऽग्निर्विश्वोऽसीति च
द्वाभ्यामात्मानमभिध्यायेत्
प्राणोऽग्निः परमात्मा वै पञ्चवायुः समाश्रितः स प्रीतः प्रीणातु
विश्वं
विश्वभुक् विश्वोऽसि वैश्वानरोऽसि विश्वं त्वया
धार्यते जायमानम् विशन् तु त्वामाहुतयश्च
सर्वाः प्रजास्तत्र यत्र विश्वामृतोऽसीति एवं न विधिना
खल्वनेनात्तानत्वं पुनरुपैति ॥ ९॥

अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथान्नमन्नादश्चेति

अस्योपव्याख्यानं पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता
प्राकृतमन्नं भुङ्क्त इति तस्यायं भूतात्मा ह्यन्नमस्यकर्ता
प्रधानः
तस्मात्त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्थः अत्र दृष्टं नाम
प्रत्ययम्
यस्माद्बीजसम्भवा हि पशवस्तस्माद्बीजं भोज्यमनेनैव प्रधानस्य
भोज्यत्वं
व्याख्यातं तस्माद्भोक्ता पुरुषो भोज्या प्रकृतिस्तत्स्थो भुङ्क्त इति
प्राकृतमन्नं
त्रिगुणभेदपरिणमत्वान्महदाद्यं विशेषान्तं लिङ्गमनेनैव
चतुर्दशविधस्य
मार्गस्य व्याख्या कृता भवति सुखदुःखमोहसंज्ञं
ह्यन्नभूतमिदं जगत्
न हि बीजस्य स्वादुपरिग्रहोऽस्तीति यावन्नप्रसूतिः तस्याप्येवं
तिसृष्ववस्थास्वन्नत्वं
भवति कौमारं यौवनं जरा परिणमत्वातत्दन्नत्वमेवं प्रधानस्य
व्यक्ततां
गतस्योपलब्धिर्भवति तत्र बुद्ध्यादीनि स्वादुनि
भवन्त्यध्यवसायसङ्कल्पाभिमाना इति
अथेन्द्रियार्थान् पञ्चस्वादुनि भवन्ति एवं सर्वाणीन्द्रियकर्माणि
प्राणकर्माणि
एवं व्यक्तमन्नमव्यक्तमन्नम् अस्य निर्गुणो भोक्ता
भोक्तृत्वाच्चैतन्यं
प्रसिद्धं तस्य यथाग्निर्वै देवानामन्नदः
सोमोऽन्नमग्निनैवान्नमित्येवंवित्
सोमसंज्ञोऽयंभूतत्माऽग्निसंज्ञोऽप्यव्यक्तमुखा इति वचनात्पुरुषो
ह्यव्यक्तमुखेन त्रिगुणं भुङ्क्त इति यो हैवं वेद संन्यासी योगी
चात्मयाजी चेति अथ यद्वन्न कश्चिच्छून्यागारे कामिन्यः
प्रविष्टाः स्पृशतीन्द्रियार्थान् तद्वद् यो न स्पृशति
प्रविष्टान् संन्यासी योगी चात्मयाजी चेति ॥ १०॥

परं वा एतदात्मनो रूपं यदन्नमन्नमयो ह्ययं प्राणोऽथ न
यद्यश्नात्यमन्ताऽश्रोताऽस्प्रष्टाऽद्रष्टाऽवक्ताऽघ्रातारसयिता
भवति प्राणांश्चोत्सृजतीति एवं ह्याहाथ यदि खल्वश्नाति
प्राणसमृद्धो
भूत्वा मन्ता भवति श्रोता भवति
स्प्रष्टा भवति वक्ता भवति रसयिता
भवति घ्राता भवति द्रष्टा भवतीति एवं ह्याह अन्नाद्वै प्रजाः
प्रजायन्ते
याः कश्चित्पृथिवीश‍ृताः । अतोऽन्नेनैव जीवन्ति अथैतदपि यन्ति
अन्ततः ॥ ११॥

अथान्यत्रापि उक्तम् सर्वाणि ह वा इमानि भूतान्यहरहः
प्रपतन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं
तेनासौ तपत्यन्नेनाभिषिक्ताः पचन्तीमे प्राणा अग्निर्वा
अन्नेनोज्ज्वलत्यन्नकामेनेदं प्रकल्पितं ब्रह्मणा
अतोऽन्नमात्मेत्युपासीतेत्वेयं
ह्याह । अनाद्भूतानि जायन्ते जातान्यन्नेन
वर्धन्ते अद्यतेऽत्ति च भूतानि
तस्मादन्नं तदुच्यते ॥ १२॥

अथान्यत्रापि उक्तम्: विश्वभृद्वै नामैषा तनुर्भगवतो
विष्णोर्यदिदमन्नं प्राणो वा अन्नस्य रसो मनः प्राणस्य
विज्ञानं मनस आनन्दं विज्ञानस्येति अन्नवान् प्राणवान्
मनश्वान् विज्ञानवान् आनन्दवान् च भवति यो हैवं वेद
यावान्तीह वै भूतान्यन्नमदन्ति तावत्स्वन्तस्थोऽन्नमत्ति यो हैवंवेद

अन्नमेव विजरन्नमन्नं संवननं स्मृतम् । अन्नं पशूनां
प्राणोऽन्नं ज्येष्ठमन्नं भिषक् स्मृतम् ॥ १३॥

अथान्यात्रप्युक्तम्: अन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य
सूर्यो योनिः कालस्य तस्यैतद्रूपं यन् निमेषादिकालात्सम्भृतं
द्वादशात्मकं वत्सरमेतस्याग्नेयमर्धमर्धं वारुणं मघाद्यं
श्रविष्ठार्धमाग्नेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तं
सौम्यम् तत्रैकैकमात्मनो नवांशकं सचारकविधम्
सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव प्रमीयते हि कालः न विना प्रमाणेन
प्रमेयस्योपलब्धिः प्रमेयोऽपि प्रमाणतां
पृथक्त्वादुपैत्यात्मसम्बोधनार्थमित्येवं
ह्याह । यावत्यो वै कालस्य कलास्तावतीषु चरत्यसौ यः कालं
ब्रह्मेत्युपासीत
कालस्तस्यातिदूरमपसरतीति एवं ह्याह:
कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च ।
काले चास्तं नियच्छन्ति कालो मूर्तिरमूर्तिमान् ॥ ॥ १४॥

द्वे वाव ब्रह्मणो रुपे कालश्चाकालश्चाथ यः
प्रागादित्यात्सोऽकालोऽकालोऽथ
य आदित्यद्यः स कालः सकलः सकलस्य वा एतद्रूपं यत्संवत्सरः
संवत्सरात्खल्वेवेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वै जाता
विवर्धन्ते
संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो वै प्रजापतिः कालोऽन्नं
ब्रह्मनीडमात्मा
चेत्येवं ह्याह
कालः पचति भूतानि सर्वाण्येव महात्मनि ।
यस्मिन् तु पच्यते कालो यस्तं वेद स वेदवित् ॥ ॥ १५॥

विग्रहवानेष कालः सिन्धुराजः प्रजानाम् एष तत्स्थः सविताख्यो
यस्मादेवेमे चन्द्रर्क्षग्रह संवत्सरादयः सूयन्ते अथैभ्यः
सर्वमिदमत्र वा यत्किञ्चित्शुभाशुभं दृश्यन्तेह लोके
तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासीतादित्यो
ब्रह्मेत्येकेऽथ एवं ह्याह ।
होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजापतिः ।
सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ ॥ १६॥

ब्रह्म ह वा इदमग्र आसीत् एकोऽनन्तः प्रागनन्तो दक्षिणोऽनन्तः
प्रतीच्यनन्त उदीच्यनन्त ऊर्ध्वान् चाऽवान् च सर्वतोऽनन्तः
न ह्यास्य प्राच्यादि दिशः कल्पन्तेऽथ तिर्यग्वान् चोर्ध्वं वा
अनूह्य एष परमात्माऽपरिमितोऽतर्क्योऽचिन्त्य एष आकाशात्मा
एवैष कृत्स्नक्षय एको जागर्तीति एतस्मादाकाशादेष खल्विदं
चेतामात्रं बोधयति अनेनैव चेदम् ध्यायते अस्मिन् च प्रत्यस्तं
याति अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपति अग्नौ
चाधुमके
यज्ज्योतिश्चित्रतरमुदरस्तोऽथ वा यः पचत्यन्नम् इत्येवं ह्याह
यश्चैषोऽग्नौ
यश्चायं हृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति
य एवं वेद ॥ १७॥

तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा
तर्कः समाधिः षडङ्गा इत्युच्यते योगः अनेन यदा पश्यन्पश्यति
रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदा विद्वान्पुण्यपापे
विहाय परेऽव्यये सर्वमेकीकरोति एवं ह्याह:
यथा पर्वतमादीप्तं नाश्रयन्ति मृगद्विजाः ।
तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥

॥ १८॥

अथान्यत्राप्युक्तम्: यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थान्
च प्राणो निवेशयित्वा निःसङ्कल्पस्ततस्तिष्ठेत् अप्राणादिह
यस्मात्सम्भूतः प्राणसंज्ञको जीवस्तस्मात्प्राणो वै तुर्याख्ये
धारयेत्प्राणम् इत्येवं ह्याह:
अचित्तं चित्तमध्यस्तमचिन्त्यं गुह्यमुत्तमम् ।
तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम् ॥ ॥ १९॥

अथान्यत्राप्युक्तम्: अतः परास्य धारणा तालुरसनाग्रनिपीडना-
द्वाङ्मनःप्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदात्मनाऽऽत्मान-
मणोरणीयांसं द्योतमानं मनःक्षयात्पश्यति तदात्मनात्मानं
दृष्ट्वा निरात्मा भवति निरात्मकत्वादसङ्ख्योऽयोनिश्चिन्त्यो
मोक्षलक्षणमित्येतत्परं रहस्यम् इत्येवं ह्याह:
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति ॥ ॥ २०॥

अथान्यत्राप्युक्तम्: ऊर्ध्वगा नाडी सुषुम्नाख्या
प्राणसञ्चारिणी
ताल्वन्तर्विच्छिन्ना तया प्राणोङ्कारमनोयुक्तयोर्ध्वमुत्क्रमेत्
ताल्वध्याग्रं
परिवर्त्य इन्द्रियाण्यसंयोज्य महिमा महिमानं निरीक्षेता ततो
निरात्वकमेति
निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभता इत्येवं
ह्याह:
परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः ।
तीर्त्वा पारमपारेण पश्चाद्युञ्जीत मूर्ध्वनि ॥ ॥ २१॥

अथान्यत्राप्युक्तम्: द्वे वा व ब्रह्मणी अभिध्येये
शब्दश्चाशब्दश्च
अथ शब्देनैवाशब्दमाविष्क्रियते अथ तत्र ओमिति
शब्दोऽनेनोर्ध्वमुत्क्रान्तोऽशब्दे
निधनमेति अथाहैषा गतिरेतदमृतम् अतत्सायुज्यत्वम्
निर्वृतत्वम् तथा चेति
अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वा व
खल्वासावभिध्याता ओमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते
अन्यथा परे शब्दवादिनः:
श्रवणाङ्गुष्ठयोगेनान्तर्हृदयाकाशशब्दमाकर्णयन्ति सप्तविधेयं
तस्योपमा यथा नद्यः किङ्किणी कांस्यचक्रकभेक विःकृन्दिका
वृष्टिर्निवाते
वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तं
गताः तत्र तेऽपृथग्धर्मिणोऽपृथग्विवेक्या यथा सम्पन्ना
मधुत्वं नानारसा इत्येवं ह्याह:
द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ॥ २२॥

अथान्यत्राप्युक्तम्: यः शब्दस्तदोमित्येतदक्षरम्
यदस्याग्रं तच्छान्तमशब्दमभयमशोकमानन्दं तृप्तं
स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय
तदेता उपसीतेत्येवं ह्याह:
योऽसौ परापरो देवा ॐकारो नाम नामतः ।
निःशब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ॥ ॥ २३॥

अथान्यत्राप्युक्तम्: धनुः शरीरम् ओमित्येतच्छरः
शिखास्य मनः तमोलक्षणं भित्वा तमोऽतमाविष्टमागच्छति
अथाविष्टं भित्वाऽलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं
ब्रह्म तमसः पर्यमपश्यद्यदमुष्मिन्नादित्येऽथ सोमेऽग्नौ
विद्युति विभाति अथ खल्वेनं दृष्ट्वाऽमृतत्वं गच्छतीत्येवं
ह्याह:
ध्यानमन्तःपरे तत्त्वे लक्ष्येषु च निधीयते ।
अतोऽविशेषविज्ञानं विशेषमुपगच्छति ॥

मानसे च विलीने तु यत्सुखं चात्मसाक्षिकम् ।
तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः ॥ ॥ २४॥

अथान्यत्राप्युक्तम्: निद्रेवान्तर्हितेन्द्रियः शुद्धितमया
धिया स्वप्न इव यः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं
प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं विशोकं
च सोऽपि प्रणवाख्यः प्रणेता भारूपः विगत निद्रः विजरः
विमृत्युर्विशोको भवतीत्येवं ह्याह:
एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा ।
युनक्ति युञ्जते वापि यस्माद्योग इति स्मृतः ॥

एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
सर्वभावपरित्यागो योग इत्यभिधीयते ॥ ॥ २५॥

अथान्यत्राप्युक्तम्: यथा वाप्सु चारिणः शाकुनिकः
सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वा व
खल्विमान्प्राणानोमित्यनेनोद्धृत्यानामयेऽग्नौ जुहोति
अतस्तप्तोर्विवसोऽथ यथा तप्तोर्वि सार्पिस्तृणकाष्ठसंस्पर्शे-
नोज्ज्वलतीत्येवं वा व खल्वसावप्राणाख्यः प्राणसंस्पर्शेनोज्ज्वलति
अथ यदुज्ज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमं पदम्
चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चात्मानं विभज्य
पूरयतीमां लोकानित्येवं ह्याह:
वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव
तस्य
प्राणादयो वै पुनरेव तस्माद् अभ्युच्चरन्तीह यथाक्रमेण ॥

॥ २६॥

अथान्यत्राप्युक्तम्: ब्रह्मणो वा वैतत्तेजः परस्यामृतस्याशरीरस्य
यच्छरीरस्यौष्ण्यमस्यैतद्घृतमथाविः सन् नभसि निहितं
वैतदेकाग्रेणैवमन्तर्हृदयाकाशं विनुदन्ति यत्तस्य ज्योतिरिव
सम्पद्यतीति अतस्तद्भावम् अचिरेणैति भूमावयस्पिण्डं निहितं
यथाऽचिरेणैति भूमित्वम् मृद्वत्संस्थमयस्पिण्डं
यथाग्न्ययस्कारादयो
नाभिभवन्ति प्रणश्यति चित्तं तथाश्रयेण सहैवमित्येवं ह्याह:
हृद्याकाशमयं कोशमानन्दं परमालयम् ।
स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः ॥ ॥ २७॥

अथान्यत्राप्युक्तम्: भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं
धृतिदण्डं धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्म
द्वारपारं निहत्याद्यं संमोहमौली तृष्णेर्ष्याकुण्डली
तन्द्रीराघवेत्र्यभिमानाध्यक्षः क्रोधज्यं प्रलोभदण्डं
धनुर्गृहीत्वेच्छामयेन चैवेषुणेमानि खलु भूतानि हन्ति
तं हत्वोंकारप्लवेनान्तर्हृदयाकाशस्य पारं तीर्त्वाविर्भूते
अन्तराकाशे शनकैरवटैवावटकृद्धातुकामः संविशत्येवं
ब्रह्मशालां विशेत् ततश्चतुर्जालं ब्रह्मकोशं प्रणुदेत्
गुर्वागमेनेति:
अतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः
स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठति अतः स्वे महिम्नि
तिष्ठमानम् दृष्ट्वाऽवृत्तचक्रमिव सञ्चारचक्रमालोकयति
इत्येवं ह्याह:
षड्भिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः
अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ॥

रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः
पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ ॥ २८॥

एवमुक्त्वाऽन्तर्हृदयः शकायन्यस्तस्मै नमस्कृत्वाऽनया
ब्रह्मविद्यया राजन् ब्रह्मणः पन्थानमारूढाः पुत्राः
प्रजापतेरिति सन्तोषं द्वन्द्वतितिक्षां शान्तत्वं
योगाभ्यासादवाप्नोतीति
एतद्गुह्यतमं नापुत्राय नाशिष्याय नाशान्ताय कीर्तयेदिति
अनन्यभक्ताय सर्वगुणसम्पन्नाय दद्यात् ॥ ॥ २९॥

ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी
सद्ध्यायी सद्याजी स्यादिति । अतः सद्ब्रह्मणि सत्यभिलाषिणि
निर्वृत्त्योऽनस्तत्फलच्छिन्नपाशो निराशः परेष्वात्मवद्विगतभयो
निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । परमं
वै शेवधेरिव परस्योद्धरणं यन्निष्कामत्वम् । स हि सर्वकाममयः
पुरुषोऽध्यवसायसङ्कल्पाभिमानलिङ्गो बद्दः । अतस्तद्विपरीतो मुक्तः ।
अत्रैक आहुर्गुणः प्रकृतिभेदवशासध्यवसायात्मबन्धमुपागतो।
अध्यवसायस्य दोषक्षयाद्धि मोक्षः मनसा ह्येव पश्यति मनसा
श‍ृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव गुणौघैरुह्यमानः
कलुषीकृतश्चास्थिरश्चलो लुप्यमानः सस्पृहो
व्यग्रश्चाभिमानित्वं
प्रयात इति अहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मान्ं
जालेनेव खेचरः । अतः पुरुषोऽध्यावसायसङ्कल्पाबिमानलिङ्गो बद्दः
अतस्तद्विपरीतो मुक्तः तस्मान्निरध्यवसायो निःसङ्कल्पो
निरभिमानस्तिष्ठेत्
एतन्मोक्षलक्षणम् एषात्र ब्रह्मपदवी एषोऽत्र द्वारविवरोऽनेनास्य
तमसः पारं गमिष्यति । अत्र हि सर्वे कामाः समाहिता
इत्यत्रोदाहरन्ति:
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश न विचेष्टते तामाहुः परमां गतिम् ॥

एतदुक्त्वान्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी
कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिः एषोऽत्र
ब्रह्मपथः सौरं स्द्वारं भित्त्वोर्द्ध्वेन विनिर्गता इत्यत्रोदाहरन्ति
:
अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ॥

ऊर्ध्वमेकः स्थितस्तेषां यो भिभित्वा सूर्यमण्डलम् ।
ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥

यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
तेन देवनिकायानां स्वधामानि प्रपद्यते ॥

ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवषः ।
तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति ॥

॥ ३०॥

किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेषामिह
को नियन्ता वेत्याह । प्रत्याहात्मात्मकानीत्यात्मा ह्येषामुद्गन्ता
वाप्सरसो भानवीयाश्च मरीचयो नाम अथ पञ्चभिः
रश्मिभिर्विषयानत्ति कतम आत्मेति योऽयं शुद्धः पूतः
शून्यः शान्तादिलक्षणोक्तः स्वकैर्लिङ्गैरुपगृह्यः
तस्यैतल्लिङ्गमलिङ्गस्याग्नेर्यदौष्ण्यमाविष्टं चापां यः
शिवतमोरस इत्येके । अथ वाक्ष्रोत्रं चक्षुर्मनः प्राण इत्येके,
अथ बुद्धिर्धृतिः स्मृतिः प्रज्ञा तदित्येके अथ ते एतस्यैवं
यथैवेह बीजस्याङ्कुरावाथधूमार्चिर्विष्फुलिङ्गा इवाग्नेश्चेति
अत्रोदाहरन्ति:
वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः
सूर्यान्मयूखाश्च तथैव तस्य ।
प्राणादयो वै पुनरेव तस्मा-
दभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ३१॥

तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः
सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति

अथ यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा
एतस्य महतो
भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसा
इतिहासः
पुराणम् विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि
व्याख्यानान्यस्यैवैतानि विश्वा भूतानि ॥ ३२॥

पञ्चेष्टको वा एषोऽग्निः संवत्सरः तस्येमा इष्टका यो
वसन्तो ग्रीष्मो वर्षाः शरद्धेमन्तः स
शिरःपक्षसीपृच्छपृष्टवान्
एषोऽग्निः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः
करैर्यजमानमन्तरिक्षमुत्क्षिओप्त्वा वायवे प्रायच्छत्
प्राणो वै वायुः प्राणोऽग्निस्तस्येमा इष्टका यः प्राणो
व्यानोऽपानः समान उदानः स
शिरःपक्षसीपृष्ठपुच्छवानेषोऽग्निः
पुरुषविदस्तदिदमन्तरिक्षं प्रजापतेर्द्वितीया चितिः करैर्यजमानं
दिवमुत्क्षिप्तेन्द्राय प्रायच्छत् असौ वा आदित्य इन्द्रः सैषोऽग्निः
तस्येमा इष्टका यदृग्यजुः सामाथर्वाङ्गिरसा इतिहासं पुराणं
स शिरःपक्षसीपुच्छपृष्ठवानेषोऽग्निः पुरुषविदः सैषा
द्यौः प्रजापतेस्तृतीया चितिः करैर्यजमानस्यात्मविदेऽवदानं
करोति यथात्मविदुत्क्षिप्य ब्रह्मणे प्रायच्छत्
तत्रानन्दी मोदी भवति ॥ ३३॥

पृथिवीगार्हपत्योऽन्तरिक्षं दक्षिणाग्निर्द्यौराहवनीयः
तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य
यज्ञम् यतः पवमानपावकशुचिसंघातो हि जाठरः
तस्मादग्निर्यष्टव्यः चेतव्यः स्तोतव्योऽभिध्यातव्यः
यजमानो हविर्गृहीत्वा देवताभिध्यानमिच्छति:
हिरण्यवर्णः शकुनो हृद्यादित्ये प्रतिष्ठितः
मद्गुर्हंसस्तेजोवृषः सोऽस्मिन्नग्नौ यजामहे
इति चापि मन्त्रार्थं विचिनोति । तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं
यो बुद्ध्यन्तस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव
धत्तेऽत्रेमे श्लोका भवन्ति:
१ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यते ।
२ स्वयोनावुपशान्तस्य मनसः सत्यकामतः
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ।
३ चित्तमेव हि संसारम् तत्प्रयत्नेन शोधयेत्
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ।
४ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ।
५ समासक्तं यथा चित्तं जन्तोर्विषयगोचरे
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ।
६ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च
अशुद्धं कामसम्पर्कात् शुद्धं कामविवर्जितम् ।
७ लय विक्षेपरहितं मनः कृत्वा सुनिश्चलम्
यदा यात्यमनीभावं तदा तत्परमं पदम् ।
८ तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम्
एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः ।
९ समाधिनिर्धौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत्
न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ।
१० अपामापोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत्
एवमन्तर्गतं यस्य मनः स परिमुच्यते ।
११ मन एव मनुष्याणं कारणं बन्धमोक्षयोः
बन्धाय विषयासंगिं मोक्षो निर्विषयं स्मृतम् ।
अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्राह्मणः
पदव्योमानुस्मरणं विरुद्धम् तस्मादग्निर्यष्टव्यः चेतव्यः
स्तोतव्योऽभिध्यातव्यः ॥ ३४॥

नमोऽग्नये पृथिवी क्षिते लोकस्मृते लोकम्स्मै यजमानाय धेहि
नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लकमस्मै यजमानाय धेहि
नम आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि
नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्
तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे
योऽसा आदित्ये पुरुषः सोऽसा अहम् एष ह वै सत्यधर्मो यदादित्यस्य
आदित्यत्वं तच्छुक्लम् पुरुषम् अलिङ्गम् नभसोऽन्तर्गतस्य
तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्य इवेत्य् अक्षिण्यग्नौ
चैतद्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो नभसोऽन्तर्गतस्य
तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्ये अमृतं यस्य हि सोमः प्राणा
वा अप्ययंकुरा एतक़्द्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो
नभसोऽन्तर्गतस्य तेजसोऽंशमात्रम् एतद्यदादित्यस्य मध्ये
यजुर्दीप्यत्यौमापोज्योतिरसोऽमृतंब्रह्म भूर्भुवः स्वरोम् ।
अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम्
द्विधर्मोऽन्धं तेजसेन्धं सर्वं पश्यन्पश्यति
नभसोऽन्तर्गतस्य तेजसोऽन्शमात्रमेतद्यदादित्यस्य मध्ये उदित्वा
मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप
एतदग्निरेतद्वायुरेतत्प्राण
एतदाप एतच्चन्द्रमा
एतच्छुक्रमेतदमृतमेतद्ब्रह्मविषयमेतद्भानुरर्णवस्तस्मिन्नेव
यजमानः सैन्धव इव व्लीयन्त एषा वै ब्रह्मैकतात्र हि सर्वे कामाः
समाहिता
इत्यत्रोदाहरन्ति:
अंशुधारय इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम् यो
हैवंवित्स सवित्
स द्वैतवित् सैकधामेतः स्यात्तदात्मकश्च: ये विन्दव
इवाभ्युच्चरन्त्यजस्रम्
विद्युदिवाभ्रार्चिषः परमे व्योमन् तेऽऋचिषो वै यशस
आश्रयवासाज्जटाभिरूपा
इव कृष्णवर्त्मनः ॥ ३५॥

द्वे वा व खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकं समृद्धं चैकम्

अथ यच्छन्तं तस्याधारं खम् अथ यत्समृद्धमिदं तस्यान्नम्
तस्मान्मन्त्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्त-
र्वेद्यामास्न्यवशिष्टैरन्नपानैश्चास्यमाहवनीयमिति मत्वा तेजसः
समृद्ध्यै पुण्यलोकविजित्यर्थायामृतत्वाय चात्रोदाहरन्ति:
अग्निहोत्रं जुहुयात्स्वर्गकामो यमराज्यमग्निष्टोमेनाभिययति
सोमराज्यमुक्थेन सूर्यराज्यं षोडशीना स्वाराज्यमतिरात्रेण
प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति:
वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
अन्तर्याण्डोपयोगादिमौ स्थितावात्मशिची तथा ॥

॥ ३६॥

तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्त्रेधभिहितमग्नावादित्ये
प्राणेऽथैषा नाड्यन्नबहुमित्येषाग्नौ हुतमादित्यं गमयति अतो यो
रसोऽस्रवत् स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा
इत्यत्रोदाहरन्ति:
यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मिभिर्वर्षति
तेनान्नं भवति अन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह:
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥

॥ ३७॥

अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति अतः संमोहं छित्वा न
क्रोधान्स्तुन्वानः काममभिध्यायमानस्ततश्चतुर्जालं
ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि सौर
सौम्याग्नेयसात्विकानि मण्डलानि भित्त्वा ततः शुद्धः
सत्त्वान्तरस्थमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितम्
सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तम् स्वतन्त्रम्
चैतन्यम् स्वे महिम्नि तिष्ठमानं पश्यति अत्रोदाहरन्ति:
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥

शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यन्वयं ध्यात्वातःपरमतां
गच्छति अत्र हि सर्वे कामाः समाहिता इति अत्रोदाहरन्ति:
अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्विस्त्रिधा हि
तद्ब्रह्माभिष्टूयमानं महो देवो भुवनान्याविवेश ।
ॐ नमो ब्रह्मणे नमः ॥ ॥ ३८॥

इति षष्ठः प्रपाठकः ॥

प्रपाठक ७ ।
अग्निर्गायत्रं त्रिवृद्रथन्तरं वसन्तः प्राणो नक्षत्राणि
वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विश्नति
अन्तर्विवएणेक्षन्ति अचिन्त्योऽमूर्तो गभीरो
गुणभुग्भयोऽनिर्वृत्तिर्योगीश्वरः
सर्वज्ञो मघोऽप्रमेयोऽनाद्यन्तः श्रीमान् अजो धीमाननिर्देश्यः
सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः
सर्वस्यान्तरान्तरः ॥ १॥

इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत
उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण
ईक्षन्ति: अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरप्रयोज्यः
स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥ २॥

मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र
आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति
अन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोकमानन्दम् तृप्तम्

स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं
धाम ॥ ३॥

विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या
उत्तरत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति
अन्तर्विवरेणेक्षन्ति अन्तःशुद्धः पूतः शून्यः शान्तोऽप्राणो
निरात्मानन्तः ॥ ४॥

मित्रावरुणौ पङ्क्तिस्त्रिणवत्रयस्त्रिंशो शाक्वररैवते हेमन्त
शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति
वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति प्रणवाख्यं
प्रणेतारम्
भारूपम् विगतनिद्रम् विजरम् विमृत्युम् विशोकम् ॥ ५॥

शनिराहुकेतुरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति
तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति
यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतः भान्तः
क्षान्तः शान्तः ॥ ६॥

एष हि खल्वात्मन्तर्हृदयेऽणीयानिद्धोऽग्निरिव
विश्वरूपोऽस्यैवान्नमिदं
सर्वमस्मिन्नोता इमाः प्रजाः एष आत्मापहतपाप्मा विजरो
विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसङ्कल्पः सत्यकामः
एष परमेश्वरः एष भूताधिपतिः एष भूतपालः एष सेतुः
विधरणः
एष हि खल्वात्मेशानः शम्भुर्भवओरुद्रः प्रजापतिर्
विश्वसृखिरण्यगर्भः
सत्यं प्राणो हंसः शस्ताच्युतो विष्णुर्नारायणः यश्चैषोऽग्नौ
यश्चायं
हृदयेवयश्चासावादित्ये स एष एकः तस्मै ते विश्वरूपाय सत्ये
नभसि हिताय नमः ॥ ७॥

अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिः यदस्वर्गैः
सह स्वर्गस्यैष वाट्ये पुरस्तादुक्तेऽप्यधः स्तम्बेनाश्लिष्यन्ति
अथ ये चान्ये ह नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचनका
नित्यं शिल्पोपजीविनोऽथ ये चान्ये ह पुरयाचका अयाज्ययाचकाः
शुद्रशिष्याः शूद्रश्च शास्त्रविद्वांसोऽथ ये चान्ये ह
चाटजटनटभटप्रव्रजितरङ्गावतारिणो राजकर्मणि पतितादयोऽथये
चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थं
पुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा
कषायकुण्डलिनः कापालिनोऽथ ये चान्ये ह वृथा
तर्कदृष्टान्तकुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह
न संवस्त् प्रकाश्यभूता वै ते तस्करा अस्वर्ग्या इत्येवं ह्याह:
नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः ।
भ्राम्यन्लोको न जानाति वेदविद्यान्तरन्तु यत् ॥

॥ ८॥

बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः
क्षयायेमामविद्यामसृजत्
तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति
वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति
वदन्ति अतो नैनामभिधीयेतान्यथैषा बन्ध्येवैषा रतिमात्रं
फलमस्या वृत्तच्युतस्येव नारम्भणीयेत्येवं ह्याह:
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सितुं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥

विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते ॥

अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव
नीयमाना यथान्धाः ॥ ॥ ९॥

देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयाताः तस्मै
नमस्कृत्वोचुः भगवन् वयमात्मकामाः स त्वं नो ब्रूहीति
अतश्चिरं ध्यात्वाऽमन्यतान्यतामानो वै तेऽसुरा
अतोऽन्यतममेतेषामुक्तम्
तदिमे मूढा
उपजीवन्त्यभिष्वङ्गिणस्तर्याभिघातिनोऽनृताभिशंसिनः
सत्यमिवानृतं पश्यन्तीन्द्रजालवदित्यतो यद्वेदेष्वाभिहितं तत्सत्यं
यद्वेदेषूक्तं तद्विद्वांस उपजीवन्ति तस्माद्ब्राह्मणो
नावैदिकमधीयीतायमर्थः
स्यादिति ॥ १०॥

एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं
तेजस्तत्त्रेधाभिहितमग्ना आदित्ये प्राण एतद्वा व तत्स्वरूपं
नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरमनेनैव तदुद्बुध्न्यति
उदयति उच्छ्वसति अजस्रं ब्रह्मधीयालम्बं वात्रैवैतत्समीरणे
नभसि प्रसाखयैवोत्क्रम्य स्कधात्स्कन्धमनुसर्त्यप्सु प्रक्षेपको
लवणस्येव घृतस्य
चौष्ण्यमिवाभिध्यातुर्विस्तृतिरिवैतदित्यात्रोदाहरन्ति:
अथ कस्मादुच्यते वैद्युतो यस्मादुच्चारितमात्र एव सर्वं शरीरं
विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजः ।
१ पुरुषश्चक्षुषो योऽयं दक्षिणोऽक्षिण्यवस्थितः ।
इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्यवस्थिता ॥

२ समागमस्तयोरेव हृदयान्तर्गते सुषौ ।
तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥

३ हृदयादायाति तावच्चक्षुष्यस्मिन्प्रतिष्ठिता ।
सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥

४ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ॥

५ खजाग्नियोगाद् हृदि सम्प्रयुक्तमणोर्ह्यणुर्द्विरणुः कण्ठदेशे ।
जिह्वाग्रदेशे त्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥

६ न पश्यन्मृत्युम्ं पश्यति न रोगं नोत दुःखताम् ।
सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः ॥

७ चाक्षुषः स्वप्नचारी च सुप्तः सुप्तात्परश्च यः ।
भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्यं महत्तरम् ॥

८ त्रिष्वेकपाच्चरेद्ब्रह्म त्रिपाच्चरति चोत्तरे ।
सत्यानृतोपभोगार्थाः द्वैतीभावो महात्मन इति
द्वैतीभावो महात्मन इति ॥ ॥ ११॥

इति सप्तमः प्रपाठकः ॥

ॐ आप्यायन्त्विति शान्तिः ॥

इति मैत्रायण्युपनिषत्समाप्ता ॥

Каушитаки упанишада

कौषीतकिब्राह्मणोपनिषत्

श्रीमत्कौषीतकीविद्यावेद्यप्रज्ञापराक्षरम् ।
प्रतियोगिविनिर्मुक्तब्रह्ममात्रं विचिन्तये ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य मा आणीस्थः । श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु मामवतु वक्तारम् ॥

चित्रो ह वै गार्ग्यायणिर्यक्षमाण आरुणिं वव्रे स ह पुत्रं
श्वेतकेतुं प्रजिघाय याजयेति तं हासीनं पप्रच्छ
गौतमस्य पुत्रास्ते संवृतं लोके यस्मिन्माधास्यस्यन्यमहो
बद्ध्वा तस्य लोके धास्यसीति स होवाच नाहमेतद्वेद
हन्ताचार्यं प्रच्छानीति स ह पितरमासाद्य पप्रच्छेतीति
मा प्राक्षीत्कथं प्रतिब्रवाणीति स होवाचाहमप्येतन्न वेद
सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः परे
ददत्येह्युभौ गमिष्याव इति ॥ स ह समित्पाणिश्चित्रं
गार्ग्यायणिं प्रतिचक्रम उपायानीति तं होवाच ब्रह्मार्होसि
गौतम यो मामुपागा एहि त्वा ज्ञपयिष्यामीति ॥ १॥

स होवाच ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते
सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष
आप्यायतेऽथापरपक्षे न प्रजनयत्येतद्वै स्वर्गस्य लोकस्य
द्वारं यश्चन्द्रमास्तं यत्प्रत्याह तमतिसृजते य एनं
प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा
पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा
परश्वा वा पुरुषो वान्यो वैतेषु स्थानेषु प्रत्याजायते
यथाकर्मं यथाविद्यं तमागतं पृच्छति कोऽसीति तं
प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं
पञ्चदशात्प्रसूतात्पित्र्यावतस्तन्मा पुंसि कर्तर्येरयध्वं
पुंसा कर्त्रा मातरि मासिषिक्तः स जायमान उपजायमानो
द्वादशत्रयोदश उपमासो द्वादशत्रयोदशेन पित्रा
सन्तद्विदेहं प्रतितद्विदेहं तन्म ऋतवो मर्त्यव आरभध्वं
तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि कोऽसि त्वमस्मीति
तमतिसृजते ॥ २॥

स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स
वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स
प्रजापतिलोकं स ब्रह्मलोकं तस्य ह वा एतस्य
ब्रह्मलोकस्यारोहृदो मुहूर्ता येष्टिहा विरजा नदी तिल्यो
वृक्षः सायुज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती
द्वारगोपौ विभुं प्रमितं विचक्षणासन्ध्यमितौजाः प्रयङ्कः
प्रिया च मानसी प्रतिरूपा च चाक्षुषी
पुष्पाण्यादायावयतौ वै च
जगत्यम्बाश्चाम्बावयवाश्चाप्सरसोंऽबयानद्यस्तमित्थंविद
अ गच्छति तं ब्रह्माहाभिधावत मम यशसा विरजां
वायं नदीं प्रापन्नवानयं जिगीष्यतीति ॥ ३॥

तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः
शतमाञ्जनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः
शतं कणाहस्तास्तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति स
ब्रह्मालङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति स
आगच्छत्यारं हृदं तन्मनसात्येति तमृत्वा सम्प्रतिविदो
मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति
स आगच्छति विरजां नदीं तां मनसैवात्येति
तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः
सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन
धावयन्रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षत एवं
सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि स एष विसुकृतो
विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति ॥४॥

स आगच्छति तिल्यं वृक्षं तं ब्रह्मगन्धः प्रविशति स
आगच्छति सायुज्यं संस्थानं तं ब्रह्म स प्रविशति
आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स
आगच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स
आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति स
आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी
पूर्वौ पादौ ध्यैत नौधसे चापरौ पादौ वैरूपवैराजे
शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स
आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्य भूतं च
भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ
बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये
शीर्षण्यमृचश्च सामानि च प्राचीनातानं यजूंषि
तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः
श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थंवित्पादेनैवाग्र
आरोहति तं ब्रह्माह कोऽसीति तं प्रतिब्रूयात् ॥ ५॥

ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः सम्भूतो भार्यायै रेतः
संवत्सरस्य तेजोभूतस्य भूतस्यात्मभूतस्य त्वमात्मासि
यस्त्वमसि सोहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं
तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सदथ
यद्देवाच्च प्राणाश्च तद्यं तदेतया वाचाभिव्याह्रियते
सत्यमित्येतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह
तदेतच्छ्लोकेनाप्युक्तम् ॥ ६॥

यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति हि
विज्ञेय ऋषिर्ब्रह्ममयो महानिति ॥

तमाह केन पौंस्रानि नामान्याप्नोतीति प्राणेनेति ब्रूयात्केन
स्त्रीनामानीति वाचेति केन नपुंसकनामानीति मनसेति केन
गन्धानिति घ्राणेनेति ब्रूयात्केन रूपाणीति चक्षुषेति केन
शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति
हस्ताभ्यामिति केन सुखदुःखे इति शरीरेणेति केनानन्दं रतिं
प्रजापतिमित्युपस्थेनेति केनेत्या इति पादाभ्यामिति केन धियो
विज्ञातव्यं कामानिति प्रज्ञयेति प्रब्रूयात्तमहापो वै खलु
मे ह्यसावयं ते लोक इति सा या ब्रह्मणि चितिर्या व्यष्टिस्तां
चितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद
॥ ७॥ प्रथमोऽध्यायः ॥ १॥

प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य
ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं
संश्रावयितृ यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं
वेद दूतवान्भवति यो वाचं परिवेष्ट्रीं
परिवेष्ट्रीमान्भवति तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः
सर्वा देवता अयाचमाना बलिं हरन्ति तथो एवास्मै सर्वाणि
भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद
तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वा
लब्धोपविशेन्नाहगतो दत्तमश्नीयामिति य एवैनं
पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त
इत्येष धर्मो याचतो भवत्यनन्तरस्तेवैनमुपमन्त्रयन्ते
ददाम त इति ॥ १॥

अथात एकधनावरोधनं
यदेकधनमभिध्यायात्पौर्णमास्यां वामावास्यां वा
शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य
परिस्तीर्य पर्युक्ष पूर्वदक्षिणं जान्वाच्य स्रुवेण वा
चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति
वाङ्नामदेवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै
स्वाहा चक्षुर्नाम देवतावरोधिनी सा
मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा श्रोत्रं नाम
देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा
मनो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां
तस्यै स्वाहैत्यथ धूमगन्धं
प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य
वाचंयमोऽभिप्रवृज्यार्थं ब्रवीत दूतं वा
प्रहिणुयाल्लभते हैव ॥ ३॥

अथातो दैवस्मरो यस्य प्रियो बुभूषेयस्यै वा एषां
वैतेषमेवैतस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता
जुहोम्यसौ स्वाहा चक्षुस्ते मयि जुहोम्यसौ स्वाहा प्रज्ञानं ते
मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं
प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्य
संस्पर्शं जिगमिषेदपि वाताद्वा
सम्भाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति हैवास्य ॥

४॥

अथातः सायमन्नं प्रातर्दनमम्तरमग्निहोत्रमित्याचक्षते
यावद्वै
पुरुषो भासते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि
जुहोति
यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं
तदा प्राणे जुहोत्येतेऽनन्तेऽमृताहुतिर्जाग्रच्च स्वपंश्च
सन्ततमवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः
कर्ममय्योभवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं
जुहवांचक्रुः॥ ५॥

उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गरस्तदृगित्युपासीत
सर्वाणि हास्मै भूतानि श्रैष्ठ्यायाभ्यर्च्यन्ते
तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय
युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि
श्रैष्ठ्याय सन्नमन्ते तच्छ्रीत्युपासीत तद्यश
इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छा स्त्राणां
श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं
विद्वान्सर्वेषां भूतानां श्रीमत्तमो यशस्वितमस्तेजस्वितमो
भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति
तस्मिन्यजुर्भयं प्रवयति यजुर्मयं ऋङ्मयं होता ऋङ्मयं
साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उत
एवास्यात्यैतदात्मा भवति एवं वेद ॥ ६॥

अथातः सर्वजितः कौषीतकेस्रीण्युपासनानि भवन्ति
यज्ञोपवीतं कृत्वाप आचम्य त्रिरुदपात्रं
प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे
वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं म
उद्धृङ्धीत्येतयैवावृतास्ते यन्तं संवर्गोऽसि पाप्मानं
मे संवृङ्धीति यदहोरात्राभ्यां पापं करोति
सन्तद्धृङ्क्ते ॥ ७॥

अथ मासि मास्यमावास्यायां पश्चाच्चन्द्रमसं
दृश्यमानमुपतिष्ठेतैवावृता हरिततृणाभ्यामथ वाक्
प्रत्यस्यति यत्ते सुसीमं हृदयमधिचन्द्रमसि श्रितम् ॥

तेनामृतत्वस्येशानं माहं पौत्रमघं रुदमिति न
हास्मात्पूर्वाः प्रजाः प्रयन्तीति न
जातपुत्रस्याथाजातपुत्रस्याह ॥ आप्यास्व समेतु ते सन्ते
पयांसि समुयन्तु वाजा यमादित्या
अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा नास्माकं प्राणेन
प्रजया पशुभिराप्यस्वेति दैवीमावृतमावर्त
आदित्यस्यावृतमन्वावर्तयति दक्षिणं बाहुमन्वावर्तते ॥ ८॥

अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं
दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजासि
विचक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं
तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु ॥ राजा
त एकं मुखं तेन मुखेन विशोत्सि तेनैव मुखेन मामन्नादं
कुरु ॥ श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन
मुखेन मामन्नादं कुरु ॥ अग्निस्त एकं मुखं तेन मुखेनेमं
लोकमत्सि तेन मुखेन मामन्नादं कुरु ॥ सर्वाणि भूतानीत्येव
पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन
मामन्नादं कुरु ॥ मास्माकं प्राणेन प्रजया
पशुभिरवक्षेष्ठा योऽस्माद्वेष्टि यं च वयं
द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति
स्थितिर्दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तन्त इति
दक्षिणं बाहुमन्वावर्तते ॥ ९॥

अथ संवेश्यन्जायायै हृदयमभिमृशेत् ॥ यत्ते सुसीमे
हृदये हितमन्तः प्रजापतौ ॥ मन्येऽहं मां तद्विद्वांसं
माहं पौत्रमघं रुदमिति न हास्मत्पूर्वाः प्रजाः प्रैति ॥

१०॥

अथ प्रोष्यान्पुत्रस्य मूर्धानमभिमृशति ॥

अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ असाविति
नामास्य गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं
भव । तेजो वै पुत्रनामासि स जीव शरदः शतम् ॥ असाविति
नामासि गृह्णाति। येन प्रजापतिः प्रजाः
पर्यगृह्णीतारिष्ट्यै तेन त्वा परिगृह्णाम्यसावित्यथास्य
दक्षिणे कर्णे जपति ॥ अस्मे प्रयन्धि
मघवन्नृजीषिन्नितीन्द्रश्रेष्ठानि द्रविणानि धेहीति
माच्छेत्ता मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र
। ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति त्रिरस्य
मूर्धानमभिजिघ्रेद्गवा त्वा हिङ्कारेणाभिहिङ्करोमीति
त्रिरस्य मूर्धानमभिहिङ्कुर्यात् ॥ ११॥

अथातो दैवः परिमर एतद्वै ब्रह्म दीप्यते
यदग्निर्ज्वलत्यथैतन्म्रियते
यन्न ज्वलति तस्यादित्यमेव तेजो गच्छति वायुं प्राण एतद्वै
ब्रह्म
दीप्यते यथादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य
चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते
यच्चन्द्रमा दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य
विद्युतमेव तेजो
गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते
यद्विद्युद्विद्योततेऽथैतन्म्रियते
यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणस्ता
वा एताः
सर्वा देवता वायुमेव प्रविश्य वायौ सृप्ता न मूर्च्छन्ते
तस्मादेव
पुनरुदीरत इत्यधिदैवतमथाध्यात्मम् ॥ १२॥

एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वलति
तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म
दीप्यते
यच्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य
श्रोत्रमेव
तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छोत्रेण
श‍ृणोत्यथैतन्म्रियते यन्न श‍ृणोति तस्य मन एव तेजो
गच्छति
प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा
ध्यायत्यथैतन्म्रियते
यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता
वा
एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे सृप्ता न
मूर्छन्ते
तस्माद्धैव पुनरुदीरते तद्यदिह वा एवंविद्वांस उभौ
पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणो दक्षिणश्चोत्तरश्च
न हैवैनं स्तृण्वीयातामथ य एनं द्विषन्ति यांश्च
स्वयं
द्वेष्टि त एवं सर्वे परितो म्रियन्ते ॥ १३॥

अथातो निःश्रेयसादानं एता ह वै देवता अहं श्रेयसे
विवदमाना अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं
शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य
एवाथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा
पश्यच्छिष्य एवाथैतच्छ्रोत्रं प्रविवेश तद्वाचा
वदच्चक्षुषा पश्यच्छ्रोत्रेण श‍ृण्वन्मनसा
ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव
समुत्तस्थौ तद्देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव
प्रज्ञात्मानमभिसंस्तूय सहैतैः
सर्वैरस्माल्लोकादुच्चक्रमुस्ते
वायुप्रतिष्ठाकाशात्मानः स्वर्ययुस्तहो
एवैवंविद्वान्सर्वेषां
भूतानां प्राणमेव प्रज्ञात्मानमभिसंस्तूय सहैतैः
सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा
न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवति
यदमृता देवाः ॥ १४॥

अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते पिता पुत्रं
प्रष्याह्वयति नवैस्तृणैरगारं
संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन
वाससा सम्प्रच्छन्नः श्येत एत्य पुत्र उपरिष्टदभिनिपद्यत
इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वास्याभिमुखत
एवासीताथास्मै सम्प्रयच्छति वाचं मे त्वयि दधानीति पिता
वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता
प्राणं ते मयि दध इति पुत्रश्चक्षुर्मे त्वयि दधानीति पिता
चक्षुस्ते मयि दध इति पुत्रः श्रोत्रं मे त्वयि दधानीति पिता
श्रोत्रं ते मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता
मनस्ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधानीति
पितान्नरसांस्ते मयि दध इति पुत्रः कर्माणि मे त्वयि
दधानीति पिता कर्माणि ते मयि दध इति पुत्रः सुखदुःखे मे
त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्र आनन्दं
रतिं प्रजाइं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिं
ते
मयि दध इति पुत्र इत्यां मे त्वयि दधानीति पिता इत्यां ते मयि
दध इति पुत्रो धियो विज्ञातव्यं कामान्मे त्वयि दधानीति
पिउता
धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रोऽथ
दक्षिणावृदुपनिष्क्रामति तं पितानुमन्त्रयते यशो
ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषतामित्यथेतरः
सव्यमंसमन्ववेक्षते पाणि नान्तर्धाय वसनान्तेन वा
प्रच्छद्य स्वर्गाल्लोकान्कामानवाप्नुहीति स यद्यगदः
स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परिवा व्रजेद्ययुर्वै
प्रेयाद्यदेवैनं
समापयति तथा समापयितव्यो भवति तथा समापयितव्यो
भवति ॥ १५॥ इति द्वितीयोऽध्यायः ॥ २॥

प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन
पौरुषेण च तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स
होवाच प्रतर्दनस्त्वमेव वृणीश्व यं त्वं मनुष्याय
हिततमं
मन्यस इति तं हेन्द्र उवाच न वै वरं परस्मै वृणीते
त्वमेव
वृणीश्वेत्यवरो वैतर्हि किल म इति होवाच प्रतर्दनोऽथो
खल्विन्द्रः
सत्यादेव नेयाय सत्यं हीन्द्रः स होवाच मामेव
विजानीह्येतदेवाहं
मनुष्याय हिततमं मन्ये यन्मां विजानीयां त्रिशीर्षाणं
त्वाष्ट्रमहनमवाङ्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं
बह्वीः
सन्धा अतिक्रम्य दिवि प्रह्लादीनतृणमहमन्तरिक्षे
पौलोमान्पृथिव्यां कालकाश्यांस्तस्य मे तत्र न लोम च
नामीयते
स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न
मातृवधेन
न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं च न
चकृषो मुखान्नीलं वेत्तीति ॥ १॥

स होवाच प्राणोऽस्मि प्रज्ञात्मा तं
मामायुरमृतमित्युपास्वायुः
प्राणः प्राणो वा आयुः प्राण उवाचामृतं
यावद्ध्यस्मि`न्छरीरे
प्राणो वसति तावदायुः प्राणेन
ह्येवामुष्मिंल्लोकेऽमृतत्वमाप्नोति
प्रज्ञया सत्यसङ्कल्पं स यो म आयुरमृतमित्युपास्ते
सर्वमायुरस्मिंल्लोक एवाप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके
तद्धैक
आहुरेकभूयं वै प्राणा गच्छन्तीति न हि कश्चन
शक्नुयात्सकृद्वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं
श्रोत्रेण शब्दं मनसा ध्यानमित्येकभूयं वै प्राणा भूत्वा
एकैकं सर्वाण्येवैतानि प्रज्ञापयन्ति वाचं वदतीं सर्वे
प्राणा
अनुवदन्ति चक्षुः पश्यत्सर्वे प्राणा अनुपश्यन्ति श्रोत्रं
श‍ृण्वत्सर्वे प्राणा अनुश‍ृण्वन्ति मनो ध्यायत्सर्वे प्राणा
अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा
अनुप्राणन्तीत्येवमुहैवैतदिति हेन्द्र उवाचास्तीत्येव प्राणानां
निःश्रेयसादानमिति ॥ २॥

जीवति वागपेतो मूकान्विपश्यामो जीवति
चक्षुरपेतोऽन्धान्विपश्यामो
जीवति श्रोत्रापेतो बधिरान्विपश्यामो जीवतो बाहुच्छिन्नो
जीवत्यूरुच्छिन्न इत्येवं हि पश्याम इत्यथ खलु प्राण एव
प्रज्ञात्मेदं शरीरं परिगृह्योत्यापयति
तस्मादेतमेवोक्थमुपासीत
यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह
ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतस्तस्यैषैव
दृष्टिरेतद्विज्ञानं यत्रैतत्पुरुषः सुप्तः स्वप्नं न
कञ्चन
पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं
वाक्सर्वैर्नामभिः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः
सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते
यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः
प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो
लोकास्तस्यैषैव सिद्धिरेतद्विज्ञानं यत्रैतत्पुरुष आर्तो
मरिष्यन्नाबल्य न्येत्य मोहं नैति तदाहुरुदक्रमीच्चित्तं न
श‍ृणोति न पश्यति वाचा वदत्यथास्मिन्प्राण एवैकधा भवति
तदैनं वाव सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः
सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः
सर्वैर्ध्यातैः
सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥ ३॥

स यदास्माच्छरीरादुत्क्रामति वागस्मात्सर्वाणि
नामान्यभिविसृजते वाचा सर्वाणि नामान्याप्नोति
प्राणोऽस्मात्सर्वान्गन्धानभिविसृजते प्राणेन
सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणि रूपाण्यभिविसृजते
चक्षुषा सर्वाणि रूपाण्याप्नोति
श्रोत्रमस्मात्सर्वाञ्छब्दानभिविसृजते श्रोत्रेण
सर्वाञ्छब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यातान्यभिविसृजते
मनसा सर्वाणि ध्यातान्याप्नोति सैषा प्राणे सर्वाप्तिर्यो वै
प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः स ह
ह्येतावस्मिञ्छरीरे वसतः सहत्क्रामतोऽथ खलु यथा
प्रज्ञायां सर्वाणि भूतान्येकी भवन्ति तद्व्याख्यास्यामः ॥

४॥

वागेवास्मा एकमङ्गमुदूढं तस्यै नाम परस्तात्प्रतिविहिता
भूतमात्रा घ्राणमेवास्या एकमङ्गमुदूढं तस्य गन्धः
परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या
एकमङ्गमुदूढं
तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या
एकमङ्गमुदूढं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा
जिह्वैवास्या एकमङ्गमुदूढं तस्यान्नरसः परस्तात्प्रतिविहिता
भूतमात्रा हस्तावेवास्या एकमङ्गमुदूढं तयोः कर्म
परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या
एकमङ्गमुदूढं
तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रा उपस्थ एवास्या
एकमङ्गमुदूढं तस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता
भूतमात्रा पादावेवास्या एकमङ्गमुदूढं तयोरित्या
परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या
एकमङ्गमुदूढं
तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता
भूतमात्रा ॥ ५ ॥

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि सामान्याप्नोति
प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान्गन्धानाप्नोति
प्रज्ञया चक्षुः समारुह्य सर्वाणि रूपाण्याप्नोति प्रज्ञया
श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्छब्दानाप्नोति प्रज्ञया
जिह्वां समारुह्य जिह्वाया सर्वानन्नरसानाप्नोति प्रज्ञया
हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति प्रज्ञया
शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं
समारुह्योपस्थेनानन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ
समारुह्य पादाभ्यां सर्वा इत्या आप्नोति प्रज्ञयैव धियं
समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ६॥

न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति न हि
प्रज्ञापेतः प्राणो गन्धं कंचन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति नहि
प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषमिति नहि
प्रज्ञापेतं श्रोत्रं शब्दं कंचन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतं शब्दं प्राज्ञासिषमिति नहि
प्रज्ञापेता जिह्वान्नरसं कंचन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतमन्नरसं प्राज्ञासिषमिति नहि
प्रज्ञापेतौ हतौ कर्म किंचन प्रज्ञपेतामन्यत्र मे
मनोऽभूदित्याह नाहमेतत्कर्म प्राज्ञासिषमिति नहि
प्रज्ञापेतं शरीरं सुखदुःखं किंचन प्रज्ञपयेदन्यत्र
मे मनोऽभूदित्याह नाहमेतत्सुखदुःखं प्राज्ञासिषमिति
नहि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजातिं कंचन
प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्दं रतिं
प्रजातिं प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां
कांचन प्रज्ञपयेतामन्यत्र मे मनोऽभूदित्याह
नाहमेतामित्यां
प्राज्ञसिषमिति नहि प्रज्ञापेता धीः काचन सिद्ध्येन्न
प्रज्ञातव्यं प्रज्ञायेत् ॥ ७॥

न वाचं विजिज्ञासीत वक्तारं विद्यान्न गन्धं
विजिज्ञासीत
घ्रातारं विद्यान्न रूपं विजिज्ञासीत रूपविदं विद्यान्न
शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं
विजिज्ञासीतान्नरसविज्ञातारं विद्यान्न कर्म विजिज्ञासीत
कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत
सुखदुःखयोर्विज्ञातारं
विद्यान्नानन्दं रतिं प्रजातिं विजिज्ञासीतानन्दस्य रतेः
प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं
विद्यान्न
मनो विजिज्ञासीत मन्तारं विद्यात्ता वा एता दशैव
भूतमात्रा
अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि
भूतमात्रा न
स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्न
भूतमात्राः
स्युः ॥ ८॥

न ह्यन्यतरतो रूपं किंचन सिद्ध्येन्नो एतन्नाना तद्यथा
रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता
भूतमात्राः
प्रज्ञामात्रा स्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिता एष
प्राण एव
प्रज्ञात्मानन्दोऽजरोऽमृतो न साधुना कर्मणा भूयान्नो
एवासाधुना
कर्मणा कनीयानेष ह्येवैनं साधुकर्म कारयति तं
यमन्वानुनेषत्येष एवैनमसाधु कर्म कारयति तं यमेभ्यो
लोकेभ्यो
नुनुत्सत एष लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः स
म आत्मेति
विद्यात्स म आत्मेति विद्यात् ॥ ९॥ इति तृतीयोऽध्यायः ॥

गार्ग्यो ह वै बालाकिरनूचानः संस्पष्ट आस
सोऽयमुशिनरेषु
संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति
सहाजातशत्रुं काश्यमेत्योवाच ब्रह्म ते ब्रवाणीति तं
होवाच
अजातशत्रुः सहस्रं दद्मस्त एतस्यां वाचि जनको जनक इति
वा उ
जना धावन्तीति ॥ १॥

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां
भूतानां मूर्धा भवति ॥ २॥

स एवैष बालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः सोमो
राजान्नस्यात्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्तेऽन्नस्यात्मा
भवति ॥ ३॥

सहोवाच बालाकिर्य एवैष विद्युति पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा
मैतस्मिन्समवादयिष्ठास्तेजस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस्यात्मा भवति
॥ ४॥

स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
शब्दस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्यात्मा
भवति ॥ ५॥

स होवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
पूर्णमप्रवर्ति ब्रह्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नो
एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ६॥

स होवाच बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा इन्द्रो
वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्ते जिष्णुर्ह वा पराजिष्णुरन्यतरस्य
ज्ज्यायन्भवति ॥ ७॥

स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा विषासहिरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिर्वा एष
भवति ॥ ८॥

स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नाम्न्यस्यात्मेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न्यस्यात्मा
भवतीतिअधिदैवतमथाध्यात्मम् ॥ ९॥

स होवाच बालाकिर्य एवैष आदर्शे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः प्रतिरूप इति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य
प्रजायामाजायते नाप्रतिरूपः ॥ १०॥

स होवाच बालाकिर्य एवैष प्रतिश्रुत्काया
पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
द्वितीयोऽनपग
इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते
द्वितीयाद्द्वितीयवान्भवति ॥ ११॥

स होवाच बालाकिर्य एवैष शब्दः पुरुषमन्वेति
तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा असुरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुराकालात्सम्मोहमेति ॥ १२॥

स होवाच बालाकिर्य एवैष च्छायायां
पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठामृत्युरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुरा कालात्प्रमीयते ॥ १३॥

स होवाच बालाकिर्य एवैष शारीरः पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
प्रजापतिरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया
पशुभिः ॥ १४॥

स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्सुप्तः
स्वप्नमाचरति तमेवाहमुपास इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा यमो राजेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वं हास्मा इदं
श्रैष्ठ्याय गम्यते ॥ १५॥

स होवाच बालाकिर्य एवैष
दक्षिणेक्षन्पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नान्न
आत्माग्निरात्मा ज्योतिष्ट आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ १६॥

स होवाच बालाकिर्य एवैष सव्येक्षन्पुरुषस्तमेवाहमुपास
इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
सत्यस्यात्मा
विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ १७॥

तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुरेतावन्नु
बालाकीति एतावद्धीति होवाच बालाकिस्तं
होवाचाजातशत्रुर्मृषा वै किल मा संवदिष्ठा ब्रह्म
ते ब्रवाणीति होवाच यो वै बालाक एतेषां पुरुषाणां
कर्ता यस्य वैतत्कर्म स वेदितव्य इति तत उ ह बालाकिः
समित्पाणिः प्रतिचक्रामोपायानीति तं होवाचजातशत्रुः
प्रतिलोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयीतैहि व्येव
त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवव्राज तौ
ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयांचक्रे
बृहत्पाण्डरवासः सोमराजन्निति स उ ह तूष्णीमेव शिश्ये
तत उ हैनं यष्ट्या विचिक्षेप स तत एव समुत्तस्थौ तं
होवाचाजातशत्रुः क्वैष एतद्वा लोके पुरुषोऽशयिष्ट
क्वैतदभूत्कुत एतदागादिति तदु ह बालाकिर्न विजज्ञौ ॥ १८॥

तं होवाचाजातशत्रुर्यत्रैष एतद्बालाके पुरुषोऽशयिष्ट
यत्रैतदभूद्यत एतदागाद्धिता नाम हृदयस्य नाड्यो
हृदयात्पुरीततमभिप्रतन्वन्ति यथा सहस्रधा केशो
विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य
कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति यदा सुप्तः
स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति
तथैनं वाक्सर्वैर्नामभिः सहाप्येति मनः सर्वैर्ध्यातैः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा
प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकास्तद्यथा क्षुरः
क्षुरध्याने हितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाय
एवमेवैष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आ लोमभ्य
आ नखेभ्यः ॥ १९॥

तमेतमात्मानमेतमात्मनोऽन्ववस्यति यथा श्रेष्ठिनं
स्वास्तद्यथा श्रेष्ठैः स्वैर्भुङ्क्ते यथा वा श्रेष्ठिनं
स्वा भुञ्जन्त एवमेवैष प्राज्ञ आत्मैतैरात्मभिर्भुङ्क्ते ।
यथा श्रेष्ठी स्वैरेवं वैतमात्मानमेत आत्मनोऽन्ववस्यन्ति
यथा श्रेष्ठिनं स्वाः स यावद्ध वा इन्द्र एतमात्मानं न
विजज्ञौ तावदेनमसुरा अभिबभूवुः स यदा विजज्ञावथ
हत्वासुरान्विजित्य सर्वेषां भूतानां श्रैष्ठ्यं
स्वाराज्यमाधिपत्यं पर्येति तथो एवैवं विद्वान्सर्वेषां
भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं
वेद य एवं वेद ॥ २०॥ इति चतुर्थोऽध्यायः ॥ ४॥

ॐ वाङ्मे मनसीति शान्तिः ॥

इति कौषीतकिब्राह्मणोपनिषत्समाप्ता ॥

Субала упанишада

सुबालोपनिषत्

॥ अथ सुबालोपनिषत् ॥

बीजाज्ञानमहामोहापह्नवाद्यद्विशिष्यते ।
निर्बीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तदाहुः किं तदासीत्तस्मै स होवाच
न सन्नसन्न सदसदिति तस्मात्तमः सञ्जायते
तमसो भूतादिर्भूतादेराकाशमाकाशा-
द्वायुर्वाय्रग्निरग्नेरापोऽद्भ्यः पृथिवी तदण्डं
समभवत्तत्संवत्सरमात्रमुषित्वा द्विधाकरो-
दधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो
दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजन्त्र्यक्षरं
त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्रह्माभिधेति
स ब्रह्माणमेव विवेश स मानसान्सप्त पुत्रानसृजत्तेह
विराजः सत्यमानसानसृजन्तेह प्रजापतयो ब्राह्मणोऽस्य
मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥

इति प्रथमः खण्डः ॥

अपानान्निषादा यक्षराक्षसगन्धर्वाश्चास्थिभ्यः
पर्वता लोमभ्य ओषधिवनस्पतयो ललाटात्क्रोधजो रुद्रो
जायते तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतद्यदृग्वदो
यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं
निरुक्तं छन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि
व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि
हिरण्यज्योतिर्यस्मिन्नयमात्माधिक्षियन्ति भुवनानि विश्वा ॥

आत्मानं द्विधाकरोदर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा
देवानसृजदृषिर्भूत्वा ऋषीन्यक्षराक्षसगन्धर्वान्-
ग्राम्यानारण्यांश्च पशूनसृजदितरा गौरितरोऽनड्वानितरो
वडवेतरोऽश्व इतरा गर्दभीतरो गर्दभ इतरा विश्वम्भरीतरो
विश्वम्भरः सोऽन्ते वैश्वानरो भूत्वा सन्दग्ध्वा सर्वाणि
भूतानि पृथिव्यप्सु प्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ
विलीयते वायुराकाशे विलीयत आकाशमिन्द्रियेष्विन्द्रियाणि
तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिर्महति
विलीयते महानव्यक्ते विलीयतेऽव्यक्तमक्षरे विलीयते अक्षरं
तमसि विलीयते तमः परे देव एकीभवति परस्तान्न सन्नासन्नासद-
सदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

इति द्वितीयः खण्डः ॥ २॥

असद्वा इदमग्र आसीदजातमभूतमप्रतिष्ठित-
मशब्दमस्पर्शमरूपमरसमगन्धमव्ययम-
महान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥

अप्रमाणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षु-
ष्कमनामगोत्रमशिरस्कमपाणिपादमस्निग्धमलोहित-
मप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपार-
मनिर्देश्यमनपावृतमप्रतर्क्यमप्रकाश्यमसंवृत-
मनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति
कश्चनैतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण
निर्वेदनेनानाशकेन षडङ्गेनैव साधयेदेतत्रयं
वीक्षेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥

इति तृतीयः खण्डः ॥ ३॥

हृदयस्य मध्ये लोहितं मांसपिण्डं
यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा
विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु
प्राणाः प्रतिष्ठिताः स यदा प्राणेन सह
संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि
विविधानि च यदा व्यानेन सह संयुज्यते तदा पश्यति
देवांश्च ऋषींश्च यदापानेन सह संयुज्यते
तदा पश्यति यक्षराक्षसगन्धर्वान्यदा उदानेन
सह संयुज्यते तदा पश्यति देवलोकान्देवान्स्कन्दं
जयन्तं चेति यदा समानेन सह संयुज्यते तदा
पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह
संयुज्यते तदा पश्यति दृष्टं च श्रुतं च भुक्तं
चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा
दश दश नाड्यो भवन्ति तासामेकैकस्य द्वासप्ततिर्द्वासप्ततिः
शाखा नाडीसहस्राणि भवन्ति यस्मिन्नयमात्मा स्वपिति
शब्दानां च करोत्यथ यद्द्वितीये सङ्कोशे स्वपिति तदेमं
च लोकं परं च लोकं पश्यति सर्वाञ्छब्दान्विजानाति
स सम्प्रसाद इत्याचक्षते प्राणः शरीरं परिरक्षति हरितस्य
नीलस्य पीतस्य लोहितस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा
अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं
यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति
हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न
कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता
न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा
तेजस्कायममृतं सलिल एवेदं सलिलं वनं भूयस्तेनैव
मार्गेण जाग्राय धावति सम्राडिति होवाच ॥

इति चतुर्थः खण्डः ॥ ४॥

स्थानानि स्थानिभ्यो यच्छति नाडी तेषां
निबन्धनं चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यश्चक्षुषि यो द्रष्टव्ये य आदित्ये
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्षु
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

नासाध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतं
नाडी तेषां निबन्धनं यो नासायां यो घ्रातव्ये यः
पृथिव्यां यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये
यो वरुणे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरमममृतमभयमशोकमनन्तम् ॥

त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यो मनसि यो मन्तव्ये यश्चन्द्रे
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं
नाडी तेषां निबन्धनं यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

अहङ्कारोऽध्यात्ममहंकर्तव्यमधिभूतं
रुद्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं
योऽहङ्कारे योऽहंकर्तव्ये यो रुद्रे यो नाड्यां
यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

चित्तमध्यात्मं चेतयितव्यमधिभूतं
क्षेत्रज्ञस्तत्राधिदैवतं नाडी तेषां निबन्धनं
यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो नाड्यां
यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यो वाचि यो वक्तव्ये योऽग्नौ
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां
यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य
एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

पादावध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतं
नाडी तेषां निबन्धनं यः पादे यो गन्तव्ये यो विष्णौ
यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

पायुरध्यात्मं विसर्जयितव्यमधिभूतं
मृत्युस्तत्राधिदैवतं नाडी तेषां निबन्धनं
यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां
यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं
प्रजापतिस्तत्राधिदैवतं नाडी तेषां निबन्धनं
य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां
यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
तमात्मानमुपसीताजरममृतमभयमशोकमनन्तम् ॥

एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष
योनिः सर्वस्य सर्वसौख्येरुपास्यमानो न च सर्वसौख्यान्युपास्यति
वेदशास्त्रैरुपास्यमानो न च वेदशास्त्राण्युपास्यति
यस्यानमिदं सर्वे न च योऽन्नं भवत्यतः परं सर्वनयनः
प्रशास्तान्नमयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः
संकल्पात्मा विज्ञानमयः कालात्मानन्दमयो लयात्मैकत्वं
नास्ति द्वैतं कुतो मर्त्यं नास्त्यमृतं कुतो नान्तःप्रज्ञो
न बहिःप्रज्ञो नोभयतःप्रज्ञो न प्रज्ञाघनो न प्रज्ञो
नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनमिति
वेदानुशासनमिति वेदानुशासनम् ॥

इति पञ्चमः खण्डः ॥ ५॥

नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः
प्रजाः प्रजायन्ते दिव्यो देव एको नारायणश्चक्षुश्च
द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च
नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च
रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं च
नारायणो मतश्च मन्तव्यं च नरायणो बुद्धिश्च
बोद्धव्यं च नारायणोऽहङ्कारश्चाहंकार्तव्यं च
नारायणश्चित्तं च चेतयितव्यं च नारायणो वाक् च
वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः
पादौ च गन्तव्यं च नारायणः पायुश्च विसर्जयितव्यं
च नारायण उपस्थश्चानन्दयितव्यं च नारायणो धाता
विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रा
मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽग्नि-
राज्याहुतिर्नारायण उद्भवः सम्भवो दिव्यो देव एको नारायणो
माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणो विराजा
सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना-
सीराशिशुतासूरासूर्यास्वराविज्ञेयानि नाडीनामानि दिव्यानि
गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला
कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च
कलाः कल्पाश्चोर्ध्वं च दिशश्च सर्वं नारायणः ॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनतिरोहति ॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥

तदेतन्निर्वाणानुशासनमिति वेदनुशासनमिति वेदानुशासनम् ॥

इति षष्ठः खण्डः ॥ ६॥

अन्तःशरीरे निहितो गुहायामज एको नित्यो यस्य पृथिवी
शरीरं यः पृथिवीमन्तरे संचरन् यं पृथिवी न वेद ॥

यस्यापः शरीरं योऽपोन्तरे संचरन्यमापो न विदुः ॥

यस्य तेजः शरीरं यस्तेजोन्तरे संचरन् यं तेजो न वेद ॥

यस्य वायुअः शरीरं यो वायुमन्तरे संचरन् य वायुर्न वेद ॥

यस्याकाशः शरीरं य आकाशमन्तरे संचरन् यमाकाशो न वेद ॥

यस्य मनः शरीरं यो मनोन्तरे संचरन् यं मनो न वेद ॥

यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यं बुद्धिर्न वेद ॥

यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे संचरन् यमहङ्कारो न वेद ॥

यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ॥

यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद ॥

यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन् यमक्षरं न वेद ॥

यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद ॥

स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ॥

एतां विद्यामपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा
घोराङ्गिरसे ददौ घोराङ्गिरा रैक्वाय ददौ रैक्वो रामाय ददौ
रामः सर्वेभ्यो भूतेभ्यो ददावित्येवं निर्वाणानुशासनमिति
वेदानुशासनमिति वेदानुशासनम् ॥

इति सप्तमः खण्डः ॥ ७॥

अन्तःशरीरे निहितो गुहायां शुद्धः सोऽयमात्मा
सर्वस्य मेदोमांसक्लेदावकीर्णे शरीरमध्येऽत्यन्तोपहते
चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवन्निःसारे
जलबुद्बुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं
दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं
सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं
विभ्राजमानमानन्दं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥

इति अष्टमः खण्डः ॥ ८॥

अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं
गच्छन्तीति ॥ तस्मै स होवाच चक्षुरेवाप्येति
यच्चक्षुरेवास्तमेति द्रष्टव्यमेवप्येति यो
द्रष्टव्यमेवास्तमेत्यादित्यमेवाप्येति य आदित्यमेवास्तमेति
विराजमेवाप्येति यो विराजमेवास्तमेति प्राणमेवाप्येति यः
प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे-
त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति
यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्त-
निर्बीजमेवाप्येतीति होवाच ॥

श्रोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति श्रोतव्यएवाप्येति
यः श्रोतव्यमेवास्तमेति दिशमेवाप्येति यो दिशमेवास्तमेति
सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्यपानमेवाप्येति
योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

नासमेवाप्येति यो नासामेवास्तमेति घ्रातव्यमेवाप्येति
यो घ्रातव्यमेवास्तमेति पृथिविमीवाप्येति यः पृथिवीएवास्तमेति
जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येति यो
व्यानमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

जिह्वामेवाप्येति यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति
यो रसयितव्यमेवास्तमेति वरुणमेवाप्येति यो वरुणमेवास्तमेति
सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्युदानमेवाप्येति
य उअदानमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति
यः स्पर्शैतव्यमेवास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति
मोधामेवाप्येति यो मोधामेवास्तमेति समानमेवाप्येति
यः समानमेवास्तमेति विज्ञानएवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति
यो वक्तव्यमेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति
कुमारामेवाप्येति यः कुमारामेवास्तमेति वैरम्भ-
मेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति
य आदातव्यमेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्त-
मेत्यमृतामेवाप्येति योऽमृतामेवास्तमेति मुख्यमेवाप्येति
यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति
यो गन्तव्यमेवास्तमेति विष्णुमेवाप्येति यो विष्णुमेवास्तमेति
सत्यामेवाप्येति यः सत्यामेवास्तमेत्त्यन्तर्याममेवाप्येति
योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति
यो विसर्जयितव्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति
मध्यमामेवाप्येति यो मध्यमामेवास्तमेति
प्रभञ्जनमेवाप्येति यः प्रभञ्जनमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्यमेवाप्येति
य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति-
मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति
कुमारमेवाप्येति यः कुमारमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

मन एवाप्येति यो मन एवास्तमेति मन्तव्यमेवाप्येति
यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति
शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः
श्येनमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति
यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवाप्येति यो
ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति
कृष्णमेवाप्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

अहङ्कारमेवाप्येति योऽहङ्कारमेवास्तमे-
त्यहङ्कर्तव्यमेवाप्येति योऽहङ्कर्तव्यमेवास्तमेति
रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति
योऽसुरामेवास्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति
विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्त-
निर्बीजमेवाप्येतीति होवाच ॥

चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति
यश्चेतयितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः
क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति यो भास्वती-
मेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञान-
मेवाप्येति यो विज्ञामेवास्तमेत्यानन्दमेवाप्येति य
आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति
तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते
न म्रियते न मुह्यते न भिद्यते न दह्यते न छिद्यते
न कम्पते न कुप्सते सर्वदहनोऽयमात्मेत्याचक्षते
नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन
न बुद्धिज्ञानाश्रितेन न मेधया न वेदैर्न यज्ञैर्न
तपोभिरुग्रैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरात्मा-
नमुपुलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं
ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते शान्तो
दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं
पश्यति सर्वस्यात्मा भवति य एवं वेद ॥

इति नवमः खण्डः ॥ ९॥

अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वे
सम्प्रतिष्ठिता भवन्तीति रसातललोकेष्विति होवाच
कस्मिन्रसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्विति
होवाच कस्मिन्भूर्लोका ओताश्च प्रोताश्चेति
भुवर्लोकेष्विति होवाच कस्मिन्भुवर्लोका ओताश्च
प्रोताश्चेति सुवर्लोकेष्विति होवाच कस्मिन्सुवर्लोका
ओताश्च प्रोताश्चेति महर्लोकेष्विति होवाच कस्मिन्महर्लोका
ओताश्च प्रोताश्चेति जनोलोकेष्विति होवाच कस्मिन् जनोलोका
ओताश्च प्रोताश्चेति तपोलोकेष्विति होवाच कस्मिंस्तपोलोका
ओताश्च प्रोताश्चेति सत्यलोकेष्विति होवाच कस्मिन्सत्यलोका
ओताश्च प्रोताश्चेति प्रजापतिलोकेष्विति होवाच
कस्मिन्प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेष्विति
होवाच कस्मिन्ब्रह्मलोका ओताश्च प्रोताश्चेति सर्वलोका
आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति
स होवाचैवमेतान् लोकानात्मनि प्रतिष्ठितान्वेदात्मैव
स भवतीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
वेदानुशासनम् ॥

इति दशमः खण्डः ॥ १०॥

अथ हैनं रैक्वः पप्रच्छ भगवन्वोऽयं
विज्ञानघन उत्क्रामन्स केन कतरद्वाव
स्थानमुत्सृज्यापक्रामतीति तस्मै स होवाच
हृदयस्थ मध्ये लोहितं मांसपिण्डं
यस्मिऽन्स्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा
विकसितं तस्य मध्ये समुद्रः समुद्रस्य मध्ये
कोशस्तस्मिन्न्नाड्यश्चतस्रो भवन्ति रमारमेच्छाऽपुनर्भवेति
तत्र रमा पुण्येन पुण्यं लोकं नयत्यरमा पापेन
पापमिच्छया यत्स्मरति तदभिसम्पद्यते अपुनर्भवया
कोशं भिनत्ति कोशं भित्त्वा शीर्षकपालं भिनत्ति
शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति पृथिवीं भित्त्वापो
भिनत्त्यापो भित्त्वा तेजो भिनत्ति तेजो भित्त्वा वायुं भिनत्ति वायुं
भित्त्वाकाशं भिनत्त्याकाशं भित्त्वा मनो भिनत्ति
मनो भित्त्वा भूतादिं भिनत्ति भूतादिं भित्त्वा महान्तं
भिनत्ति महान्तं भित्त्वाव्यक्तं भिनत्त्यव्यक्तं भित्त्वाक्षरं
भिनत्त्यक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै परे देव
एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा-
नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

इत्येकादशः खण्डः ॥ ११॥

ॐ नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके
महासंवर्तके पुनः पक्वमादित्ये पुनः पक्वं
क्रब्यादि पुनः पक्वं जालकिलक्लिन्नं पर्युषितं
पूतमन्नमयाचितमसंक्लृप्तमश्नीयान्न कंचन याचेत ॥

इति द्वादशः खण्डः ॥ १२॥

बाल्येन तिष्ठासेद्बालस्वभावोऽसङ्गो निरवद्यो
मौनेन पाण्डित्येन निरवधिकारतयोपलभ्येत
कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं
ज्ञात्वा वृक्षमूले वसेत कुचेलोऽसहाय एकाकी
समाधिस्थ आत्मकाम आप्तकामो निष्कामो
जीर्णकामो हस्तिनि सिंहे दंशे मशके नकुले
सर्पराक्षसगन्धर्वे मृत्यो रूपाणि विदित्वा न बिभेति
कुतश्चनेति वृक्षमिव तिष्ठासेच्छिद्यमानोऽपि
न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोऽपि
न कुप्येत न कम्पेताकाशमिव तिष्ठासेच्छिद्यमानोऽपि
न कुप्येत न कम्पेत सत्येन तिष्ठासेत्सत्योऽयमात्मा
सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव
रसानामापो हृदयं सर्वेशामेव रूपाणां तेजो
हृदयं सर्वेषामेव स्पर्शानां वायुर्हृदयं
सर्वेषामेव शब्दानामाकाशं हृदयं सर्वेषामेव
गतीनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानां
मृत्युर्हृदयं मृत्युर्वै परे देव एकीभवतीति परस्तान्न
सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति
वेदानुशासनमिति वेदानुशासनम् ॥

इति त्रयोदशः खण्डः ॥ १३॥

ॐ पृथिवी वान्नमापोऽन्नादा आपो वान्नं
ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो
वायुर्वान्नमाकाशोऽन्नाद आकाशो
वान्नमिन्द्रियाण्यन्नादानीन्द्रियाणि वान्नं
मनोऽन्नादं मनो वान्नं बुद्धिरन्नादा
बुद्धिर्वानमव्यक्तमन्नदमव्यक्तं
वान्नमक्षरमन्नादमक्षरं वान्नं
मृत्युरन्नादो मृत्युर्वै परे देव एकीभवतीति
परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा-
नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

इति चतुर्दशः खण्डः ॥ १४॥

अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं
विज्ञानघन उत्क्रामन्स केन कतरद्वाव
स्थानं दहतीति तस्मै स होवाच योऽयं
विज्ञानघन उत्क्रामन्प्राणं दहत्यपानं
व्यानमुदानं समानं वैरम्भं मुख्य-
मन्तर्यामं प्रभञ्जनं कुमारं श्येनं
श्वेतं कृष्णं नागं दहति पृथिव्यापस्तेजो-
य्वाकाशं दहति जागरितं स्वप्नं सुषुप्तं
तुरीयं च महतां च लोकं परं च लोकं
दहति लोकालोकं दहति धर्माधर्मं दहत्यभास्कर-
ममर्यादं निरालोकमतः परं दहति महान्तं
दहत्यव्यक्तं दहत्यक्षरं दहति मृत्युं दहति
मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न
सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
वेदानुशासनम् ॥

इति पञ्चदशः खण्डः ॥ १५॥

सौबालबीजब्रह्मोपनिषन्नाप्रशान्ताय
दातव्या नापुत्राय नाशिष्याय नासंवत्सर-
रात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव
च प्रवक्तव्या । यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते
महात्मन इत्येतन्निर्वाणानुशासनमिति
वेदानुशासनमिति वेदानुशासनम् ॥

इति षोडशः खण्डः ॥ १६॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति सुबालोपनिषत्समाप्ता ॥

Сарвасара упанишада

सर्वसारोपनिषत्
sarvasāropaniṣat

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् । samastavedāntasārasiddhāntārthakalevaram ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ tejonādadhyānavidyāyogatattvātmabodhakam ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । kathaṃ bandhaḥ kathaṃ mokṣaḥ kā vidyā kā'vidyeti ।
जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् । jāgratsvapnasuṣuptiturīyaṃ ca katham ।
अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् । annamayaprāṇamayamanomayavijñānamayānandamayakośāḥ katham ।
कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् । kartā jīvaḥ pañcavargaḥ kṣetrajñaḥ sākṣī kūṭastho'ntaryāmī katham ।
प्रत्यगात्मा परात्मा माया चेति कथम् । pratyagātmā parātmā māyā ceti katham ।
आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते ātmeśvarajīvaḥ anātmanāṃ dehādīnāmātmatvenābhimanyate
सोऽभिमान आत्मनो बन्धः । so'bhimāna ātmano bandhaḥ ।
तन्निवृत्तिर्मोक्षः । tannivṛttirmokṣaḥ ।
या तदभिमानं कारयति सा अविद्या । yā tadabhimānaṃ kārayati sā avidyā ।
सोऽभिमानो यया निवर्तते सा विद्या । so'bhimāno yayā nivartate sā vidyā ।
मन आदिचतुर्दशकरणैः पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदात्मनो जागरणम् । mana ādicaturdaśakaraṇaiḥ puṣkalairādityādyanugṛhītaiḥ śabdādīnviṣayānsthūlānyadopalabhate tadātmano jāgaraṇam ।
तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् । tadvāsanāsahitaiścaturdaśakaraṇaiḥ śabdādyabhāve'pi vāsanāmayāñchabdādīnyadopalabhate tadātmanaḥ svapnam ।
चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् । caturdaśakaraṇo paramādviśeṣavijñānābhāvādyadā śabdādīnnopalabhate tadātmanaḥ suṣuptam ।
अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते । avasthātrayabhāvābhāvasākṣī svayaṃbhāvarahitaṃ nairantaryaṃ caitanyaṃ yadā tadā turīyaṃ caitanyamityucyate ।
अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते । annakāryāṇāṃ kośānāṃ samūho'nnamayaḥ kośa ucyate ।
प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते । prāṇādicaturdaśavāyubhedā annamayakośe yadā vartante tadā prāṇamayaḥ kośa ityucyate ।
एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते । etatkośadvayasaṃsaktaṃ mana ādi caturdaśakaraṇairātmā śabdādiviṣayasaṅkalpādīndharmānyadā karoti tadā manomayaḥ kośa ityucyate ।
एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते । etatkośatrayasaṃsaktaṃ tadgataviśeṣajño yadā bhāsate tadā vijñānamayaḥ kośa ityucyate ।
एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते । सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः । etatkośacatuṣṭayaṃ saṃsaktaṃ svakāraṇājñāne vaṭakaṇikāyāmiva vṛkṣo yadā vartate tadānandamayaḥ kośa ityucyate । sukhaduḥkhabuddhyā śreyo'ntaḥ kartā yadā tadā iṣṭaviṣaye buddhiḥ sukhabuddhiraniṣṭaviṣaye buddhirduḥkhabuddhiḥ ।
शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । śabdasparśarūparasagandhāḥ sukhaduḥkhahetavaḥ ।
पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते । puṇyapāpakarmānusārī bhūtvā prāptaśarīrasaṃyogamaprāptaśarīrasaṃyogamiva kurvāṇo yadā dṛśyate tadopahitajīva ityucyate ।
मन आदिश्च प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स mana ādiśca prāṇādiścecchādiśca sattvādiśca puṇyādiścaite pañcavargā ityeteṣāṃ pañcavargāṇāṃ dharmībhūtātmā jñānādṛte na vinaśyatyātmasannidhau nityatvena pratīyamāna ātmopādhiryastalliṅgaśarīraṃ hṛdgranthirityucyate tatra yatprakāśate caitanyaṃ sa
क्षेत्रज्ञ इत्युच्यते । kṣetrajña ityucyate ।
ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते । jñātṛjñānajñeyānāmāvirbhāvatirobhāvajñātā svayamāvirbhāvatirobhāvarahitaḥ svayaṃjyotiḥ sākṣītyucyate ।
ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते । brahmādipipīlikāparyantaṃ sarvaprāṇibuddhiṣvavaśiṣṭatayopalabhyamānaḥ sarvaprāṇibuddhistho yadā tadā kūṭastha ityucyate ।
कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते । kūṭasthopahitabhedānāṃ svarūpalābhaheturbhūtvā maṇigaṇe sūtramiva sarvakṣetreṣvanusyūtatvena yadā kāśyate ātmā tadāntaryāmītyucyate ।
सत्यं ज्ञानमनन्तं ब्रह्म । satyaṃ jñānamanantaṃ brahma ।
सत्यमविनाशि । satyamavināśi ।
अविनाशि नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि । avināśi nāma deśakālavastunimitteṣu vinaśyatsu yanna vinaśyati tadavināśi ।
ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमुच्यते । jñānaṃ nāmotpattivināśarahitaṃ nairantaryaṃ caitanyaṃ jñānamucyate ।
अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते । anantaṃ nāma mṛdvikāreṣu mṛdiva svarṇavikāreṣu svarṇamiva tantuvikāreṣu tanturivāvyaktādisṛṣṭiprapañceṣu pūrṇaṃ vyāpakaṃ caitanyamanantamityucyate ।
आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते । ānandaṃ nāma sukhacaitanyasvarūpo'parimitānandasamudro'vaśiṣṭasukhasvarūpaścānanda ityucyate ।
एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते । etadvastucatuṣṭayaṃ yasya lakṣaṇaṃ deśakālavastunimitteśvavyabhicārī tatpadārthaḥ paramātmetyucyate ।
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकभेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते । tvaṃpadārthādaupādhikāttatpadārthādaupādhikabhedādvilakṣaṇamākāśavatsūkṣmaṃ kevalasattāmātrasvabhāvaṃ paraṃ brahmetyucyate ।
माया नाम अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा māyā nāma anādirantavatī pramāṇāpramāṇasādhāraṇā na satī nāsatī na sadasatī svayamadhikā vikārarahitā nirūpyamāṇā
सतीतरलक्षणशून्या सा मायेत्युच्यते । satītaralakṣaṇaśūnyā sā māyetyucyate ।
अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते । ajñānaṃ tucchāpyasatī kālatraye'pi pāmarāṇāṃ vāstavī ca sattvabuddhirlaukikānāmidamitthamityanirvacanīyā vaktuṃ na śakyate ।
नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु । nāhaṃ bhavāmyahaṃ devo nendriyāṇi daśaiva tu ।
न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥ १॥ na buddhirna manaḥ śaśvannāhaṅkārastathaiva ca ॥ 1॥

अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा । aprāṇo hyamanāḥ śubhro buddhyādīnāṃ hi sarvadā ।
साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥ २॥ sākṣyahaṃ sarvadā nityaścinmātro'haṃ na saṃśayaḥ ॥ 2॥

नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः । nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ ।
मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥ ३॥ matsānnidhyātpravartante dehādyā ajaḍā iva ॥ 3॥

स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः । sthāṇurnityaḥ sadānandaḥ śuddho jñānamayo'malaḥ ।
आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ ४॥ ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ॥ 4॥

ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् । brahmaivāhaṃ sarvavedāntavedyaṃ nāhaṃ vedyaṃ vyomavātādirūpam ।
रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥ ५॥ rūpaṃ nāhaṃ nāma nāhaṃ na karma brahmaivāhaṃ saccidānandarūpam ॥ 5॥

नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे । nāhaṃ deho janmamṛtyu kuto me nāhaṃ prāṇaḥ kṣutpipāse kuto me ।
नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥ nāhaṃ cetaḥ śokamohau kuto me nāhaṃ kartā bandhamokṣau kuto ma ityupaniṣat ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

Нираламбана упанишада

निरालम्बोपनिषत् nirālambopaniṣat

यत्रालम्बालम्बिभावो विद्यते न कदाचन । yatrālambālambibhāvo vidyate na kadācana ।
ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥ jñavijñasamyagjñālambaṃ nirālambaṃ hariṃ bhaje ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये । oṃ namaḥ śivāya gurave saccidānanda mūrtaye ।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥ niṣprapañcāya śāntāya nirālambāya tejase ॥

निरालम्बं समाश्रित्य सालम्बं विजहाति यः । nirālambaṃ samāśritya sālambaṃ vijahāti yaḥ ।
स संन्यासी च योगी च कैवल्यं पदमश्नुते । sa saṃnyāsī ca yogī ca kaivalyaṃ padamaśnute ।
एषमज्ञानजन्तूनां समस्तारिष्टशान्तये । eṣamajñānajantūnāṃ samastāriṣṭaśāntaye ।
यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥ yadyadboddhavyamakhilaṃ tadāśaṅkya bravīmyaham ॥

किं ब्रह्म । kiṃ brahma ।
क ईश्वरः । ka īśvaraḥ ।
को जीवः । ko jīvaḥ ।
का प्रकृतिः । kā prakṛtiḥ ।
कः परमात्मा । kaḥ paramātmā ।
को ब्रह्मा । ko brahmā ।
को विष्णुः । ko viṣṇuḥ ।
को रुद्रः । ko rudraḥ ।
क इन्द्रः । ka indraḥ ।
कः शमनः । kaḥ śamanaḥ ।
कः सूर्यः । kaḥ sūryaḥ ।
कश्चन्द्रः । kaścandraḥ ।
के सुराः । ke surāḥ ।
के असुराः । ke asurāḥ ।
के पिशाचाः । ke piśācāḥ ।
के मनुष्याः । ke manuṣyāḥ ।
काः स्त्रियः । kāḥ striyaḥ ।
के पश्वादयः । ke paśvādayaḥ ।
किं स्थावरम् । kiṃ sthāvaram ।
के ब्राह्मणादयः । ke brāhmaṇādayaḥ ।
का जातिः । kā jātiḥ ।
किं कर्म । kiṃ karma ।
किमकर्म । kimakarma ।
किं ज्ञानम् । kiṃ jñānam ।
किमज्ञानम् । kimajñānam ।
किं सुखम् । kiṃ sukham ।
किं दुःखम् । kiṃ duḥkham ।
कः स्वर्गः । kaḥ svargaḥ ।
को नरकः । ko narakaḥ ।
को बन्धः । ko bandhaḥ ।
को मोक्षः । ko mokṣaḥ ।
क उपास्यः । ka upāsyaḥ ।
कः शिष्यः । kaḥ śiṣyaḥ ।
को विद्वान् । ko vidvān ।
को मूढः । ko mūḍhaḥ ।
किमासुरम् । kimāsuram ।
किं तपः । kiṃ tapaḥ ।
किं परमं पदम् । kiṃ paramaṃ padam ।
किं ग्राह्यम् । kiṃ grāhyam ।
किमग्राह्यम् । kimagrāhyam ।
कः संन्यासीत्याहशङ्क्याह ब्रह्मेति । kaḥ saṃnyāsītyāhaśaṅkyāha brahmeti ।
स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ sa hovāca mahadahaṅkārapṛthivyaptejovāyvākāśatvena bṛhadrūpeṇāṇḍakośena karmajñānārtharūpatayā bhāsamānamadvitīyamakhilopādhivinirmuktaṃ tatsakalaśaktyupabṛṃhitamanādyanantaṃ śuddhaṃ śivaṃ śāntaṃ nirguṇamityādivācyamanirvācyaṃ caitanyaṃ brahma ॥
ईश्वर इति च ॥ īśvara iti ca ॥

ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥ brahmaiva svaśaktiṃ prakṛtyabhidheyāmāśritya lokānsṛṣṭvā praviśyāntaryāmitvena brahmādīnāṃ buddhīndriyaniyantṛtvādīśvaraḥ ॥
जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । jīva iti ca brahmaviṣṇvīśānendrādīnāṃ nāmarūpadvārā sthūlo'hamiti mithyādhyāsavaśājjīvaḥ ।
सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः । so'hameko'pi dehārambhakabhedavaśādbahujīvaḥ ।
प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माणसामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः । prakṛtiriti ca brahmaṇaḥ sakāśānnānāvicitrajagannirmāṇasāmārthyabuddhirūpā brahmaśaktireva prakṛtiḥ ।
परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः । paramātmeti ca dehādeḥ parataratvadbrāhmaiva paramātmā sa brahmā sa viṣṇuḥ sa indraḥ sa śamanaḥ sa sūryaḥ sa candraste surāste asurāste piśācāste manuṣyāstāḥ striyaste paśvādayastatsthāvaraṃ te brāhmaṇādayaḥ ।
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन । sarvaṃ khalvidaṃ brahma neha nānāsti kiñcana ।
जातिरिति च । jātiriti ca ।
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः । na carmaṇo na raktasya na māṃsasya na cāsthinaḥ ।
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता । na jātirātmano jātirvyavahāraprakalpitā ।
कर्मेति च क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म । karmeti ca kriyamāṇendriyaiḥ karmaṇyahaṃ karomītyadhyātmaniṣṭhatayā kṛtaṃ karmaiva karma ।
अकर्मेति च कर्तृत्वभोक्तृत्वाद्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं akarmeti ca kartṛtvabhoktṛtvādyahaṅkāratayā bandharūpaṃ janmādikāraṇaṃ nityanaimittikayāgavratatapodānādiṣu phalābhisandhānaṃ
यत्तदकर्म । yattadakarma ।
ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ- jñānamiti ca dehendriyanigrahasadgurūpāsanaśravaṇamanananididhyāsanairyadyadṛgdṛśyasvarūpaṃ sarvāntarasthaṃ sarvasamaṃ ghaṭapaṭādipadārtha-
मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् । mivāvikāraṃ vikāreṣu caitanyaṃ vinā kiñcinnāstīti sākṣātkārānubhavo jñānam ।
अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रमबन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् । ajñānamiti ca rajjau sarpabhrāntirivādvitīye sarvānusyūte sarvamaye brahmaṇi devatiryaṅnarasthāvarastrīpuruṣavarṇāśramabandhamokṣopādhinānātmabhedakalpita jñānamajñānam ।
सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । sukhamiti ca saccidānandasvarūpaṃ jñātvānandarūpā yā sthitiḥ saiva sukham ।
दुःखमिति अनात्मरूपः विषयसङ्कल्प एव दुःखम् । duḥkhamiti anātmarūpaḥ viṣayasaṅkalpa eva duḥkham ।
स्वर्ग इति च सत्संसर्गः स्वर्गः । svarga iti ca satsaṃsargaḥ svargaḥ ।
नरक इति च असत्संसारविषयजनसंसर्ग एव नरकः । naraka iti ca asatsaṃsāraviṣayajanasaṃsarga eva narakaḥ ।
बन्ध इति च अनाद्यविद्यावासनया जातोऽहमित्यादिसङ्कल्पो बन्धः । bandha iti ca anādyavidyāvāsanayā jāto'hamityādisaṅkalpo bandhaḥ ।
पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः । pitṛmātṛsahodaradārāpatyagṛhārāmakṣetramamatā saṃsārāvaraṇasaṅkalpo bandhaḥ ।
कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः । kartṛtvādyahaṅkārasaṅkalpo bandhaḥ ।
अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पो बन्धः । aṇimādyaṣṭaiśvaryāśāsiddhasaṅkalpo bandhaḥ ।
देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः । devamanuṣyādyupāsanākāmasaṅkalpo bandhaḥ ।
यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः । yamādyaṣṭāṅgayogasaṅkalpo bandhaḥ ।
वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः । varṇāśramadharmakarmasaṅkalpo bandhaḥ ।
आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । ājñābhayasaṃśayātmaguṇasaṅkalpo bandhaḥ ।
यागव्रततपोदानविधिविधानज्ञानसम्भवो बन्धः । yāgavratatapodānavidhividhānajñānasambhavo bandhaḥ ।
केवलमोक्षापेक्षासङ्कल्पो बन्धः । kevalamokṣāpekṣāsaṅkalpo bandhaḥ ।
सङ्कल्पमात्रसंभवो बन्धः । saṅkalpamātrasaṃbhavo bandhaḥ ।
मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः । mokṣa iti ca nityānityavastuvicārādanityasaṃsārasukhaduḥkhaviṣayasamastakṣetramamatābandhakṣayo mokṣaḥ ।
उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः । upāsya iti ca sarvaśarīrasthacaitanyabrahmaprāpako gururupāsyaḥ ।
शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः । śiṣya iti ca vidyādhvastaprapañcāvagāhitajñānāvaśiṣṭaṃ brahmaiva śiṣyaḥ ।
विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान् । vidvāniti ca sarvāntarasthasvasaṃvidrūpavidvidvān ।
मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः । mūḍha iti ca kartṛtvādyahaṅkārabhāvārūḍho mūḍhaḥ ।
आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपाग्निहोत्रादिष्वन्तरात्मानं सन्तापयति चात्युग्ररागद्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् । āsuramiti ca brahmaviṣṇvīśānendrādīnāmaiśvaryakāmanayā niraśanajapāgnihotrādiṣvantarātmānaṃ santāpayati cātyugrarāgadveṣavihiṃsā dambhādyapekṣitaṃ tapa āsuram ।
तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं तपः । tapa iti ca brahma satyaṃ jaganmithyetyaparokṣajñānāgninā brahmādyaiśvaryāśāsiddhasaṅkalpabījasantāpaṃ tapaḥ ।
परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् । paramaṃ padamiti ca prāṇendriyādyantaḥkaraṇaguṇādeḥ parataraṃ saccidānandamayaṃ nityamuktabrahmasthānaṃ paramaṃ padam ।
ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् । grāhyamiti ca deśakālavastuparicchedarāhityacinmātrasvarūpaṃ grāhyam ।
अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् । agrāhyamiti ca svasvarūpavyatiriktamāyāmayabuddhīndriyagocarajagatsatyatvacintanamagrāhyam ।
संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्थानुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति । saṃnyāsīti ca sarvadharmānparityajya nirmamo nirahaṅkāro bhūtvā brahmeṣṭaṃ śaraṇamupagamya tattvamasi ahaṃ brahmāsmi sarvaṃ khalvidaṃ brahma neha nānāsti kiñcanetyādimahāvākyārthānubhavajñānādbrahmaivāhamasmīti niścitya nirvikalpasamādhinā svatantro yatiścarati sa saṃnyāsī sa muktaḥ sa pūjyaḥ sa yogī sa paramahaṃsaḥ so'vadhūtaḥ sa brāhmaṇa iti ।
इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥ idaṃ nirālambopaniṣadaṃ yo'dhīte gurvanugrahataḥ so'gnipūto bhavati sa vāyupūto bhavati na sa punarāvartate na sa punarāvartate punarnābhijāyate punarnābhijāyata ityupaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति निरालम्बोपनिषत्समाप्ता ॥ iti nirālambopaniṣatsamāptā ॥

Шукарахасья упанишада

॥ शुकरहस्योपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो रहस्योपनिषदं व्याख्यास्यामः ॥ १ ॥

देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रचछुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति ॥ २ ॥

सोऽब्रवीत् पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ॥ ३ ॥

श्रीवेदव्यास उवाच देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ ४ ॥

ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः । ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ५ ॥

ईश्वर उवाच मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ६ ॥

श्रीवेदव्यास उवाच यथा तथा वा भवतु ह्युपनायनकर्मणि । उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ७ ॥

सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर । तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ८ ॥

तच्छ्रुत्वा व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ९ ॥

कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् । तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम् ॥ १० ॥

श्रीशुक उवाच देवादिदेव सर्वज्ञ सच्चिदानन्दलक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥ ११ ॥

उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १२ ॥

श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ १३ ॥

श्रीसदाशिव उवाच साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने । प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १४ ॥

रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १५ ॥

अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १६ ॥

चतुर्णामपि वेदानां यथोपनिषदः शिरः । इयं रहस्योपनिषदत्तथोपनिषदां शिरः ॥ १७ ॥

रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १८ ॥

वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् । एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १९ ॥

अङ्गुलिविन्यासः

अङ्गुलिविन्यासः

अङ्गुलयः

पुराणेषु अङ्गुलिविन्यासः

सामवेदे अङ्गुलिविन्यासः
ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् । सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २० ॥

ध्यानम् । नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ २१ ॥

अथ महावाक्यानि चत्वारि । यथा ।
ॐ प्रज्ञानं ब्रह्म ॥ १ ॥
ॐ अहं ब्रह्मास्मि ॥ २ ॥
ॐ तत्त्वमसि ॥ ३ ॥
ॐ अयमात्मा ब्रह्म ॥ ४ ॥
तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥ २२ ॥

तत्पदमहामन्त्रस्य परमहंसः ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः । तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् । सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २३ ॥

ध्यानम् । ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं ध्यायेदेवं तन्महो भ्राजमानम् ॥ २४ ॥

त्वंपद महामन्त्रस्य विष्णुर्ऋषिः । गायत्री छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । सङ्कर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २५ ॥

ध्यानम् । जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहङ्कारयन्तारं जीवाख्यं त्वं पदं भजे ॥ २६ ॥

असिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः । पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः । अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा । तेजोद्व्यणुकाय मध्यमाभ्यां वषट् । वायुद्व्यणुकाय अनामिकाभ्यं हुम् । आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २७ ॥

ध्यानम् । जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥ २८ ॥

एवं महावाक्यषडङ्गान्युक्तानि ॥ २९ ॥

अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥ ३० ॥

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ ३१ ॥

चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ ३२ ॥

परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३३ ॥

स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ३४ ॥

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ३५ ॥

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ३६ ॥

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ३७ ॥

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ३८ ॥

अनात्मदृष्टेरविवेकनिद्रामहं मम स्वप्नगतिं गतोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ३९ ॥

वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ ४० ॥

त्वमिति तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभयवचनहेतू देशकालौ च हित्वा जगति भवति सोयं देवदत्तो यथैकः ॥ ४१ ॥

कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ ४२ ॥

श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ ४३ ॥

अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ ४४ ॥

महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः । केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा ॥ ४५ ॥

ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक । मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ ४६ ॥

ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ ४७ ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ४८ ॥

उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः ॥ ४९ ॥

परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ ५० ॥

अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ ५१ ॥

तच्छ्रुत्वा सकलाकारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ ५२ ॥

यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥ ५३ ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनाधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति शुकरहस्योपनिषत्समाप्ता ॥

Арунея упанишада

आरुणिकोपनिषत्
āruṇikopaniṣat

॥ आरुणिकोपनिषत् ॥
॥ āruṇikopaniṣat ॥

आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः । āruṇikākhyopaniṣatkhyātasaṃnyāsino'malāḥ ।
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥ yatprabodhādyānti muktiṃ tadrāmabrahma me gatiḥ ॥

ॐ आप्यायन्त्विति शान्तिः ॥ oṃ āpyāyantviti śāntiḥ ॥

ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । oṃ āruṇiḥ prājāpatyaḥ prajāpaterlokaṃ jagāma ।
तं गत्वोवाच । taṃ gatvovāca ।
केन भगवन्कर्माण्यशेषतो विसृजामीति । kena bhagavankarmāṇyaśeṣato visṛjāmīti ।
तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं स्वाध्यायं भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं taṃ hovāca prajāpatistava putrānbhrātṝnbandhvādīñchikhāṃ yajñopavītaṃ yāgaṃ svādhyāyaṃ bhūrlokabhuvarlokasvarlokamaharlokajanolokatapolokasatyalokaṃ cātalatalātalavitalasutalarasātalamahātalapātālaṃ brahmāṇḍaṃ
च विसृजेत् । ca visṛjet ।
दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । daṇḍamācchādanaṃ caiva kaupīnaṃ ca parigrahet ।
शेषं विसृजेदिति ॥ १॥ śeṣaṃ visṛjediti ॥ 1॥

गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । gṛhastho brahmacārī vā vānaprastho vā upavītaṃ bhūmāvapsu vā visṛjet ।
लौकिकाग्नीनुदराग्नौ समारोपयेत् । laukikāgnīnudarāgnau samāropayet ।
गायत्रीं च स्ववाचाग्नौ समारोपयेत् । gāyatrīṃ ca svavācāgnau samāropayet ।
कुटीचरो ब्रह्मचारी कुटुंबं विसृजेत् । kuṭīcaro brahmacārī kuṭuṃbaṃ visṛjet ।
पात्रं विसृजेत् । pātraṃ visṛjet ।
पवित्रं विसृजेत् । pavitraṃ visṛjet ।
दण्डाॅंलोकांश्च विसृजेदिति होवाच । daṇḍāॅṃlokāṃśca visṛjediti hovāca ।
अत उर्ध्वममन्त्रवदाचरेत् । ata urdhvamamantravadācaret ।
ऊ र्ध्वगमनं विसृजेत् । ū rdhvagamanaṃ visṛjet ।
औषधवदशनमाचरेत् । auṣadhavadaśanamācaret ।
त्रिसन्ध्यादौ स्नानमाचरेत् । trisandhyādau snānamācaret ।
सन्धिं समाधावात्मन्याचरेत् । sandhiṃ samādhāvātmanyācaret ।
सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय् एदिति ॥ २॥ sarveṣu vedeṣvāraṇyakamāvartayedupaniṣadamāvartayedupaniṣadamāvartay editi ॥ 2॥

खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । khalvahaṃ brahmasūcanātsūtraṃ brahmasūtramahameva vidvāntrivṛtsūtraṃ tyajedvidvānya evaṃ veda saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti triruktvābhayaṃ sarvabhūtebhyo mattaḥ sarvaṃ pravartate ।
सखामागोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । sakhāmāgopāyojaḥ sakhāyo'sīndrasya vajro'si vārtraghnaḥ śarma me bhava yatpāpaṃ tannivārayeti ।
अनेन मन्त्रेण कृतं वाइणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे रक्षत इति ॥ ३॥ anena mantreṇa kṛtaṃ vāiṇavaṃ daṇḍaṃ kaupīnaṃ parigrahedauṣadhavadaśanamācaredauṣadhavadaśanaṃ prāśnīyādyathālābhamaśnīyāt । brahmacaryamahiṃsā cāparigrahaṃ ca satyaṃ ca yatnena he rakṣata he rakṣata he rakṣata iti ॥ 3॥

अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा यतीनां athātaḥ paramahaṃsaparivrājakānāmāsanaśayanādikaṃ bhūmau brahmacaryaṃ mṛtpātramalāmbupātraṃ dārupātraṃ vā yatīnāṃ
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क् आरादीनपि परित्यजेत् । kāmakrodhaharṣaroṣalobhamohadambhadarpecchāsūyāmamatvāhaṅk ārādīnapi parityajet ।
वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा विचरेदिति ॥ ३॥ varṣāsu dhruvaśīlo'ṣṭau māsānekākī yatiścaret dvāveva vā vicareddvāveva vā vicarediti ॥ 3॥

स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् । sa khalvevaṃ yo vidvānsopanayanādūrdhvametāni prāgvā tyajet ।
पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा । pitraṃ putramagnyupavītaṃ karma kalatraṃ cānyadapīha yatayo bhikṣārthaṃ grāmaṃ praviśanti pāṇipātramudarapātraṃ vā ।
ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥ oṃ hi oṃ hi oṃ hītyetadupaniṣadaṃ vinyaset ॥
खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां khalvetadupaniṣadaṃ vidvānya evaṃ veda pālāśaṃ bailvamāśvatthamaudumbaraṃ daṇḍaṃ mauñjīṃ mekhalāṃ
यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । yajñopavītaṃ ca tyaktvā śūro ya evaṃ veda ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् । divīva cakṣurātatam ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदमिति । viṣṇoryatparamaṃ padamiti ।
एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमिति ॥ ५॥ evaṃ nirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanamiti ॥ 5॥

इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥ iti sāmavedīyāruṇikopaniṣatsamāptā ॥

Шатйайани упанишада

शाट्यायनीयोपनिषत्
śāṭyāyanīyopaniṣat

शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति । śāṭyāyanībrahmavidyākhaṇḍākārasukhākṛti ।
यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥ yativṛndahṛdāgāraṃ rāmacandrapadaṃ bhaje ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १॥ bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam ॥ 1॥

समासक्तं सदा चित्तं जन्तोर्विषयगोचरे । samāsaktaṃ sadā cittaṃ jantorviṣayagocare ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २॥ yadyevaṃ brahmaṇi syāttatko na mucyeta bandhanāt ॥ 2॥

वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् । vittameva hi saṃsārastatprayatnena śodhayet ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३॥ yaccittastanmayo bhavati guhyametatsanātanam ॥ 3॥

नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम । nāvedavinmanute taṃ bṛhantaṃ nābrahmavitparamaṃ praiti dhāma ।
विष्णुक्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४॥ viṣṇukrāntaṃ vāsudevaṃ vijānanvipro vipratvaṃ gacchate tattvadarśī ॥ 4॥

अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः । athāha yatparamaṃ brahma sanātanaṃ ye śrotriyā akāmahatā adhīyuḥ ।
शान्तो दान्त उपरतिस्तितिक्षुहुर्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५॥ śānto dānta uparatistitikṣuhuryo'nūcāno hyabhijajñau samānaḥ ॥ 5॥

त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र । tyakteṣaṇo hyanṛṇastaṃ viditvā maunī vasedāśrame yatra kutra ।
अथाश्रमं चरमं सम्प्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६॥ athāśramaṃ caramaṃ sampraviśya yathopapattiṃ pañcamātrāṃ dadhānaḥ ॥ 6॥

त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् । tridaṇḍamupavītaṃ ca vāsaḥ kaupīnaveṣṭanam ।
शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७॥ śikyaṃ pavitramityetadvibhṛyādyāvadāyuṣam ॥ 7॥

पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः । pañcaitāstu yatermātrāstā mātrā brahmaṇe śrutāḥ ।
न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८॥ na tyajedyāvadutkrāntirante'pi nikhanetsaha ॥ 8॥

विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च । viṣṇuliṅgaṃ dvidhā proktaṃ vyaktamavyaktameva ca ।
तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९॥ tayorekamapi tyaktvā patatyeva na saṃśayaḥ ॥ 9॥

त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । tridaṇḍaṃ vaiṣṇavaṃ liṅgaṃ viprāṇāṃ muktisādhanam ।
निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १०॥ nirvāṇaṃ sarvadharmāṇāmiti vedānuśāsanam ॥ 10॥

अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति । atha khalu saumya kuṭīcako bahūdako haṃsaḥ paramahaṃsa ityete parivrājakāścaturvidhā bhavanti ।
सर्व एते विष्णुलिङ्गिनः sarva ete viṣṇuliṅginaḥ
शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति । śikhinopavītinaḥ śuddhacittā ātmānamātmanā brahma bhāvayantaḥ śuddhacidrūpopāsanaratā japayamavanto niyamavantaḥ suśīlinaḥ puṇyaślokā bhavanti ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
कुटीचको बहूदकश्चापि हंसः परमहंस इव वृत्त्या च भिन्नाः । kuṭīcako bahūdakaścāpi haṃsaḥ paramahaṃsa iva vṛttyā ca bhinnāḥ ।
सर्व एते विष्णुलिङ्गं दधाना वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् । sarva ete viṣṇuliṅgaṃ dadhānā vṛttyā vyaktaṃ bahirantaśca nityam ।
पञ्चयज्ञा वेदशिरःप्रविष्टाः क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् । pañcayajñā vedaśiraḥpraviṣṭāḥ kriyāvanto'mī saṅgatā brahmavidyām ।
त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः संन्यस्तपुष्पा रसमेवाश्नुवानाः । tyaktvā vṛkṣaṃ vṛkṣamūlaṃ śritāsaḥ saṃnyastapuṣpā rasamevāśnuvānāḥ ।
विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११॥ viṣṇukrīḍā viṣṇuratayo vimuktā viṣṇvātmakā viṣṇumevāpiyanti ॥ 11॥

त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा । trisandhyaṃ śaktitaḥ snānaṃ tarpaṇaṃ mārjanaṃ tathā ।
उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२॥ upasthānaṃ pañcayajñānkuryādāmaraṇāntikam ॥ 12॥

दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा । daśabhiḥ praṇavaiḥ saptavyāhṛtibhiścatuṣpadā ।
गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३॥ gāyatrījapayajñaśca trisandhyaṃ śirasā saha ॥ 13॥

योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः । yogayajñaḥ sadaikāgrabhaktyā sevā harerguroḥ ।
अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४॥ ahiṃsā tu tapoyajño vāṅmanaḥkāyakarmabhiḥ ॥ 14॥

नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः । nānopaniṣadabhyāsaḥ svādhyāyo yajña īritaḥ ।
ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५॥ oṃityātmānamavyagro brahmaṇyagnā juhoti yat ॥ 15॥

ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः । jñānayajñaḥ sa vijñeyaḥ sarvayajñottamottamaḥ ।
ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६॥ jñānadaṇḍā jñānaśikhā jñānayajñopavītinaḥ ॥ 16॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । śikhā jñānamayī yasya upavītaṃ ca tanmayam ।
ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७॥ brāhmaṇyaṃ sakalaṃ tasya iti vedānuśāsanam ॥ 17॥

अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति । atha khalu saumyeta parivrājakā yathā prādurbhavanti tathā bhavanti ।
कामक्रोधलोभमोहदम्भदर्पासूयाममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष इव तिष्ठासेत् । kāmakrodhalobhamohadambhadarpāsūyāmamatvāhaṅkārādīṃstitīrya mānāvamānau nindāstutī ca varjayitvā vṛkṣa iva tiṣṭhāset ।
छिद्यमानो न ब्रूयात् । chidyamāno na brūyāt ।
तदैवं विद्वांस इहैवामृता भवन्ति । tadaivaṃ vidvāṃsa ihaivāmṛtā bhavanti ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
बन्धुपुत्रमनुमोदयित्वानवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः । bandhuputramanumodayitvānavekṣyamāṇo dvandvasahaḥ praśāntaḥ ।
प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी । prācīmudīciṃ vā nirvartayaṃścareta pātrī daṇḍī yugamātrāvalokī ।
शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८॥ śikhī muṇḍī copavītī kuṭumbī yātrāmātraṃ pratigṛhṇanmanuṣyāt ॥ 18॥

अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् । ayācitaṃ yācitaṃ vota bhaikṣaṃ mṛddārvalābūphalaparṇapātram ।
क्षीणं क्षौमं तृणं कन्थाजिने च पर्णमाच्छादनं स्यादहतं वा विमुक्तः ॥ १९॥ kṣīṇaṃ kṣaumaṃ tṛṇaṃ kanthājine ca parṇamācchādanaṃ syādahataṃ vā vimuktaḥ ॥ 19॥

ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् । ṛtusandhau muṇḍayenmuṇḍamātraṃ nādho nākṣaṃ jātu śikhāṃ na vāpayet ।
चतुरो मासान्ध्रुवशीलतः स्यात्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः । caturo māsāndhruvaśīlataḥ syātsa yāvatsupto'ntarātmā puruṣo viśvarūpaḥ ।
अन्यानथाष्टौ पुनरुत्थितेऽस्मिन्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २०॥ anyānathāṣṭau punarutthite'sminsvakarmalipsurviharedvā vasedvā ॥ 20॥

देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः । devāgnyagāre tarumūle guhāyāṃ vasedasaṅgo'lakṣitaśīlavṛttaḥ ।
अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१॥ anindhano jyotirivopaśānto na codvijedudvijedyatra kutra ॥ 21॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२॥ kimicchankasya kāmāya śarīramanusaṃjvaret ॥ 22॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ २३॥ nānudhyāyādbahūñchabdānvāco viglāpanaṃ hi tat ॥ 23॥

बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् । bālyenaiva hi tiṣṭhāsennirvidya brahmavedanam ।
ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४॥ brahmavidyā ca bālyaṃ ca nirvidya munirātmavān ॥ 24॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५॥ atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 25॥

अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं यो विजहाति स वीरहा भवति । atha khalu saumyedaṃ parivrājyaṃ naiṣṭhikamātmadharmaṃ yo vijahāti sa vīrahā bhavati ।
स ब्रह्महा भवति । sa brahmahā bhavati ।
स भ्रूणहा भवति । sa bhrūṇahā bhavati ।
स महापातकी भवति । sa mahāpātakī bhavati ।
य इमां वैष्णवीं निष्ठां परित्यज्यति । ya imāṃ vaiṣṇavīṃ niṣṭhāṃ parityajyati ।
स स्तेनो भवति । sa steno bhavati ।
स गुरुतल्पगो भवति । sa gurutalpago bhavati ।
स मित्रध्रुग्भवति । sa mitradhrugbhavati ।
स कृतघ्नो भवति । sa kṛtaghno bhavati ।
स सर्वस्माल्लोकात्प्रच्युतो भवति । sa sarvasmāllokātpracyuto bhavati ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् । stenaḥ surāpo gurutalpagāmī mitradhrugete niṣkṛteryānti śuddhim ।
व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६॥ vyaktamavyaktaṃ vā vidhṛtaṃ viṣṇuliṅgaṃ tyajanna śuddhyedakhilairātmabhāsā ॥ 26॥

त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा । tyaktvā viṣṇorliṅgamantarbahirvā yaḥ svāśramaṃ sevate'nāśramaṃ vā ।
प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७॥ pratyapattiṃ bhajate vātimūḍho naiṣāṃ gatiḥ kalpakoṭyāpi dṛṣṭā ॥ 27॥

त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् । tyaktvā sarvāśramāndhīro vasenmokṣāśrame ciram ।
मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८॥ mokṣāśramātparibhraṣṭo na gatistasya vidyate ॥ 28॥

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । pārivrājyaṃ gṛhītvā tu yaḥ svadharme na tiṣṭhati ।
तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९॥ tamārūḍhacyutaṃ vidyāditi vedānuśāsanam ॥ 29॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति । atha khalu saumyemaṃ sanātanamātmadharmaṃ vaiṣṇavīṃ niṣṭhāṃ labdhvā yastāmadūṣayanvartate sa vaśī bhavati ।
स पुण्यश्लोको भवति । sa puṇyaśloko bhavati ।
स लोकज्ञो भवति । sa lokajño bhavati ।
स वेदान्तज्ञो भवति । sa vedāntajño bhavati ।
स ब्रह्मज्ञो भवति । sa brahmajño bhavati ।
स सर्वज्ञो भवति । sa sarvajño bhavati ।
स स्वराड् भवति । sa svarāḍ bhavati ।
स परं ब्रह्म भगवन्तमाप्नोति । sa paraṃ brahma bhagavantamāpnoti ।
स पितॄन्सम्बन्धिनो sa pitṝnsambandhino
बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति । bāndhavānsuhṛdo mitrāṇi ca bhavāduttarayati ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् । śataṃ kulānāṃ prathamaṃ babhūva tathā parāṇāṃ triśataṃ samagram ।
एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् ॥ ३०॥ ete bhavanti sukṛtasya loke yeṣaṃ kule saṃnyasatīha vidvān ॥ 30॥

त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् । triṃśatparāstriṃśadaparāṃstriṃśacca parataḥ parān ।
उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१॥ uttarayati dharmiṣṭhaḥ parivrāḍiti vai śrutiḥ ॥ 31॥

संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि । saṃyastamiti yo brūyātkaṇṭhasthaprāṇavānapi ।
तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२॥ tāritāḥ pitarastena iti vedānuśāsanam ॥ 32॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् । atha khalu saumyemaṃ sanātanamātmadharmaṃ vaiṣṇavīṃ niṣṭhāṃ nāsamāpya prabrūyāt ।
नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः । nānūcānāya nānātmavide nāvītarāgāya nāviśuddhāya nānupasannāya nāprayatamānasāyeti ha smāhuḥ ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । vidyā ha vai brāhmaṇamājagāma gopāya māṃ śevadhiṣṭe'hamasmi ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३॥ asūyakāyānṛjave śaṭhāya mā mā brūyā vīryavatī tathā syām ॥ 33॥

यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । yameva vidyāśrutamapramattaṃ medhāvinaṃ brahmacaryopapannam ।
अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४॥ asmā imāmupasannāya samyak parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥ 34॥

अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā ।
यथैव तेन न गुरुर्भोजनीयस्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५॥ yathaiva tena na gururbhojanīyastathaiva cānaṃ na bhunakti śrutaṃ tat ॥ 35॥

गुरुरेव परो धर्मो गुरुरेव परा गतिः । gurureva paro dharmo gurureva parā gatiḥ ।
एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति । ekākṣarapradātāraṃ yo guruṃ nābhinandati ।
तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६॥ tasya śrutaṃ tathā jñānaṃ sravatyāmaghaṭāmbuvat ॥ 36॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । yasya deve parā bhaktiryathā deve tathā gurau ।
स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७॥ sa brahmavitparaṃ preyāditi vedānuśāsanam ॥ 37॥

इत्युपनिषत् ॥ ityupaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

इति शाट्यायनीयोपनिषत्समाप्ता ॥ iti śāṭyāyanīyopaniṣatsamāptā ॥

Нарадапаривраджика упанишада

नारदपरिव्राजकोपनिषत्

पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः ।
दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

स्वस्ति नः पूषा विश्वदेवाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम्
दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥

अथ कदाचित्परिव्राजकाभरणो नारदः सर्वलोकसंचारं
कुर्वन्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य
चित्तशुद्धिं प्राप्य निर्वैरः शान्तो दान्तः सर्वतो
निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धय
नियमानन्दविशेषगण्यं मुनिजनैरुपसंकीर्णं
नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपधनिस-
संज्ञैर्वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चिक-
पराङ्मुखाइर्हरिकथालापैः स्थावरजङ्गमनामकै-
र्भगवद्भक्तिविशेषाइर्नरमृगकिंपुरुषामरकिंनर-
अप्सरोगणान्संमोहयन्नागतं ब्रह्मात्मजं भगवद्भक्तं
नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः
श्रुताध्ययनसम्पन्नाः सर्वज्ञास्तपोनिष्ठापराश्च
ज्ञानवैराग्यसम्पन्नाः शौनकादिमहर्षयः
प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा
स्वयं सर्वेऽप्युपविष्टा भो भगवन्ब्रह्मपुत्र कथं
मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान्स होवाच नारदः
सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्-
संस्कारसम्पन्नः स्वाभिमतैकगुरुसमीपे स्वशाखाध्ययन-
पूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षशुश्रूषा-
पूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं
पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य
चतुर्विधब्रह्मचर्यं षड्विधं गार्हस्थ्यं चतुर्विधं
वानप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य
साधनचतुष्टयसम्पन्नः सर्वसंसारोपरि मनोवाक्काय-
कर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः
शान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलितस्वस्वरूप-
ध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥

इति प्रथमोपदेशः ॥ १॥

अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः
पप्रच्छुर्भो भगवन्संन्यासविधिं नो ब्रूहीति
तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव
ज्ञातुमुचितमित्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह
सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनं
नत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य
नारदः पितामहमुवाच गुरुस्त्वं जनकस्त्वं सर्वविद्या-
रहसज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकं
वक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः ।
किमितिचेत्पारिव्राज्यस्वरूपक्रमं नो ब्रूहीति नारदेन
प्रार्थितः परमेष्ठि सर्वतः सर्वानवलोक्य मुहूर्तमात्रं
समाधिनिष्ठो भूत्वा संसारातिनिवृत्यन्वेषण इति
निश्चित्य नारदमवलोक्य तमाह पितामहः ।
पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं
निरतिशयाकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं
ते विविच्योच्यते तत्क्रममतिरहस्यं बाढमवहितो भूत्वा
श्रूयतां भो नारद विधिवदादावनुपनीतोपनयानन्तरं
तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र
सत्सम्प्रदायस्थं श्रद्धावन्तं सत्कुलभवं श्रोत्रियं
शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्य नत्वा
यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य
द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा
तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य
पञ्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया
गृहस्थोचितकर्म कुर्वन्दौर्ब्राह्मण्यनिवृत्तिमेत्य
स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचित-
पञ्चविंशतिवत्सरं तीर्त्वा ततः पञ्चचिंशतिवत्सरपर्यन्तं
त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थकालमेकवारमाहार-
माहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसञ्चारं
विहाय निकारविरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य
दृष्टश्रवणविषयवैतृष्ण्यमेत्य चत्वारिंशत्संकार-
सम्पन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहङ्कारं
दग्ध्वा साधनचतुष्टयसम्पन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥

इति द्वितीयोपदेशः ॥ २॥

अथ हैनं नारदः पितामहं पप्रच्छ भगवन्केन
संन्यासाधिकारी वेत्येवमादौ संन्यासाधिकारिणं
निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः श‍ृणु ।
अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको
मूकः पाषण्डश्चक्री लिङ्गी वैखानसहरद्विजौ
भृतकाध्यापकः शिपिविष्टोऽनग्निको वैराग्यवन्तोऽप्येते
न संन्यासार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेन
अधिकारिणः पूर्वसंन्यासी परमहंसाधिकारी ॥--
परेणैवात्मनश्चापि परस्यैवात्मना तथा ।
अभयं समवाप्नोति स परिव्राडिति स्मृतिः ॥ १॥

षण्डोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी ।
पतितश्च परद्वारी वैखानसहरद्विजौ ॥ २॥

चक्री लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनग्निकः ।
द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च ।
एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥ ३॥

आतुरकालः कथमार्यसंमतः ॥--
प्राणस्योत्क्रमणासन्नकालस्त्वातुरसंज्ञकः ।
नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तकः ॥ ४॥

आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् ।
मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद्बुधः ॥ ५॥

आतुरेऽपि क्रमे वापि प्रैषभेदो न कुत्रचित् ।
न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥ ६॥

अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत् ।
मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत् ॥ ७॥

विध्युक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः ।
तस्मादातुरसंन्यासे मन्त्रावृत्तिविधिर्मुने ॥ ८॥

आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि ।
प्राजापत्येष्टिमप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥ ९॥

मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले ।
श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा ॥ १०॥

समाप्य संन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात् ॥ ११॥

यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये ॥ १२॥

विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् ।
सरागो नरकं याति प्रव्रजन्हि द्विजाधमः ॥ १३॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः ।
संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥ १४॥

संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥ १५॥

प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम् ।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिवान् ॥ १६॥

यदा तु विदितं तत्त्वं परं ब्रह्म सनातनम् ।
तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत् ॥ १७॥

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥ १८॥

पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत् ।
तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक् ॥ १९॥

अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् ।
इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ २०॥

यस्मिञ्शान्तिः शमः शौचं सत्यं सन्तोष आर्जवम् ।
अकिञ्चनमदम्भश्च स कैवल्याश्रमे वसेत् ॥ २१॥

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥ २२॥

दशलक्षणकं धर्ममनुतिष्ठन्समाहितः ।
वेदान्तान्विधिवच्छृत्वा संन्यस्तेदनृणो द्विजः ॥ २३॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २४॥

अतीतान्न स्मरेद्भोगान्न तथानागतानपि ।
प्राप्तांश्च नामिनन्देद्यः स कैवल्याश्रमे वसेत् ॥ २५॥

अन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान्विषयान्बहिः ।
शक्नोति यः सदा कर्तुं स कैवल्याश्रमे वसेत् ॥ २६॥

प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥ २७॥

कौपीनयुगलं कन्था दण्ड एकः परिग्रहः ।
यतेः परमहंसस्य नाधिकं तु विधीयते ॥ २८॥

यदि वा कुरुते रागादधिकस्य परिग्रहम् ।
रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥ २९॥

विशीर्णान्यमलान्येव चेलानि ग्रथितानि तु ।
कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥ ३०॥

एकवासा अवासा वा एकदृष्टिरलोलुपः ।
एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ ३१॥

कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरीद्यतिः ॥ ३२॥

कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये ।
तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥ ३३॥

रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः ।
प्राणिहिंसानिवृत्तश्च मुनिः स्यात्सर्वनिःस्पृहः ॥ ३४॥

दम्भाहङ्कारनिर्मुक्तो हिंसापैशून्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ ३५॥

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः ।
संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ ३६॥

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३७॥

श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ३८॥

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ ३९॥

संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ ४०॥

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ ४१॥

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ४२॥

क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ४३॥

अध्यात्मरतिरासीनो निरपेक्षो निराशिषः ।
आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४४॥

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ४५॥

अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपितम् ।
चर्मावबद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ४६॥

जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासैमं त्यजेत् ॥ ४७॥

मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।
देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ ४८॥

सा कालपुत्रपदवी सा माहावीचिवागुरा ।
सासिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥ ४९॥

सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते ।
स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुल्कसी ॥ ५०॥

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ५१॥

अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः ।
सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ५२॥

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायकः ।
सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥ ५३॥

कपालं वृक्षमूलानि कुचेलान्यसहायता ।
समता चैव सर्वस्मिन्नैतन्मुक्तस्य लक्षणम् ॥ ५४॥

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थं ग्राममाविशेत् ॥ ५५॥

एको भिक्षुर्यथोक्तः स्याद्वावेव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ ५६॥

नगरं न हि कर्तव्यं ग्रामो वा मिथुनं तथा ।
एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥ ५७॥

राजवार्तादितेषां स्याद्भिक्षावार्ता परस्परम् ।
स्नेहपैशून्यमात्सर्यं संनिकर्षान्न संशयः ॥ ५८॥

एकाकी निःस्पृहस्तिष्ठेन हि केन सहालपेत् ।
दद्यान्नारायणेत्येव प्रतिवाक्यं सदा यतिः ॥ ५९॥

एकाकी चिन्तयेद्ब्रह्म मनोवाक्कायकर्मभिः ।
मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥ ६०॥

कालमेव प्रतीक्षेत यावदायुः समाप्यते ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ ६१॥

अजिह्वः षण्डकः पङ्गुरन्धो बधिर एव च ।
मुग्धश्च मुच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥ ६२॥

इदमिष्टमिदं नेति योऽश्नन्नपि न सज्जति ।
हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ॥ ६३॥

अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षं च यो दृष्ट्वा निर्विकारः स षण्डकः ॥ ६४॥

भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च ।
योजनान्न परं याति सर्वथा पङ्गुरेव सः ॥ ६५॥

तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् ।
चतुर्युगां भुवं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ ६६॥

हिताहितं मनोरामं वचः शोकावहं तु यत् ।
श्रुत्वापि न श‍ृणोतीव बधिरः स प्रकीर्तितः ॥ ६७॥

सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः ।
सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥ ६८॥

नटादिप्रेक्षणं द्यूतं प्रमदासुहृदं तथा ।
भक्ष्यं भोज्यमुदक्यां च षण्न पश्येत्कदाचन ॥ ६९॥

रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु ।
षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत् ॥ ७०॥

मञ्चकं शुक्लवस्त्रं च स्त्रीकथालौल्यमेव च ।
दिवा स्वापं च यानं च यतीनां पातकानि षट् ॥ ७१॥

दूरयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः ।
सदोपनिषदं विद्यामभ्यसेन्मुक्तिहैतुकीम् ॥ ७२॥

न तीर्थसेवी नित्यं स्यान्नोपवासपरो यतिः ।
न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत् ॥ ७३॥

अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ।
इन्द्रियाणि समाहृत्य कूर्मोऽङ्गानीव सर्वशः ॥ ७४॥

क्षीणेन्द्रियमनोवृत्तिर्निराशीर्निष्परिग्रहः ।
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ॥ ७५॥

निर्ममो निरहङ्कारो निरपेक्षो निराशिषः ।
विविक्तदेशसंसक्तो मुच्यते नात्र संशय इति ॥ ७६॥

अप्रमत्तः कर्मभक्तिज्ञानसम्पन्नः स्वतन्त्रो
वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा
मुख्यवृत्तिका चेद्ब्रह्मचर्यं समाप्य गृही
भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदिवेतरतथा
ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाथ
पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव
प्रव्रजेत्तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्यथवा
न कुर्यादग्नेय्यमेव कुर्यादग्निर्हिप्राणः प्राणमेवैतया
करोति तस्मात्त्रैधातवीयामेव कुर्यादेतैव त्रयो धातवो
यदुत सत्त्वं रजस्तम इति ॥

अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन
मन्त्रेणाग्निमाजिघ्रेदेश वा अग्नेर्योनिर्यः प्राणः
प्राणं गच्छ स्वां योनिं गच्छ
स्वाहेत्येवमेवैतदाहवनीयादग्निमाहृत्य
पूर्ववदग्निमाजिघ्रेद्यदग्निं न विन्देदप्सु जुहुयादापो
वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
हुत्वोधृत्य तदुदकं प्राश्नीयात्साज्यं हविरनामयं
मोदमिति शिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म
चाध्ययनं मन्त्रान्तरं विसृज्यैव
परिव्रजत्यात्मविन्मोक्षमन्त्रैस्त्रैधातवीयैर्विधेस्तद्ब्रह्म
तदुपासितव्यमेवैतदिति ॥

पितामहं पुनः पप्रच्छ नारदः कथमयज्ञोपवीती
ब्राह्मण इति ॥ तमाह पितामहः ॥

सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ ७७॥

सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् ।
तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ ७८॥

येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शनः ॥ ७९॥

बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।
ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः ।
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ ८०॥

सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ।
ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ८१॥

ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ८२॥

अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८३॥

कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः ।
तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ ८४॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥ ८५॥

तदेतद्विज्ञाय ब्राह्मणः परिव्रज्य परिव्राडेकशाटी
मुण्डोऽपरिग्रहः शरीरक्लेशासहिष्णुश्चेदथवा
यथाविधिश्चेज्जातरूपधरो भूत्वा सपुत्रमित्रकलत्राप्त-
बन्धाद्वीनि स्वाध्यायं सर्वकर्माणि संन्यस्यायं
ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं
च त्यक्त्वा द्वन्द्वसहिष्णुर्न शीतं न चोष्णं न सुखं
न दुःखं न निद्रा न मानावमाने च षडूर्मिवर्जितो निन्दाहङ्कारमत्सरगर्वदम्भेर्ष्यासूयेच्छाद्वेष-
सुखदुःखकामक्रोधलोभमोहादीन्विसृज्य स्ववपुः
शवाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्तर्बहिरमन्यमानः
कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो
न स्वधाकारो न निन्दास्तुतिर्यादृच्छिको भवेद्यदृच्छा-
लाभसन्तुष्टः सुवर्णादीन्न परिग्रहेन्नावाहनं न विसर्जनं
न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं
न पृथक् नापृथक् न त्वन्यत्र सर्वत्रानिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृणकूटकुलालशालाग्निहोत्र-
शालाग्निदिगन्तरनदीतटपुलिनभूगृहकन्दरनिर्झरस्थण्डिलेषु वने वा श्वेतकेतुऋभुनिदाघऋषभदुर्वासःसंवर्तकदत्तात्रेयरैवतक-
वदव्यक्तलिङ्गोऽव्यक्ताचारो बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्त-
वदाचरंस्त्रिदण्डं शिक्यं पात्रं कमण्डलुं कटिसूत्रं च तत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्य कटिसूत्रं च कौओपीनं दण्डं वस्त्रं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेदात्मानमन्विच्छेद्यथा
जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः
शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणान्येन वा
याचिताहारमाहरन् लाभलाभे समो भूत्वा निर्ममः
शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः
संन्यस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति
ब्रह्मप्रणवमनुस्मरन्भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य
संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवतीत्युपनिषत् ॥

इति तृतीयोपदेशः ॥ ३॥

त्यक्त्वा लोकांश्च वेदांश्च विषयानिन्द्रियाणि च ।
आत्मन्येव स्थितो यस्तु स याति परमां गतिम् ॥ १॥

नामगोत्रादिवरणं देशं कालं श्रुतं कुलम् ।
ययो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥ २॥

न सम्भाषेत्स्त्रियं काञ्चित्पूर्वदृष्टां च न स्मरेत् ।
कथां च वर्जयेत्तासां न पश्येल्लिखितामपि ॥ ३॥

एतच्चतुष्टयं मोहात्स्त्रीणामाचरतो यतेः ।
चित्तं विक्रियतेऽवश्यं तद्विकारात्प्रणश्यति ॥ ४॥

तृष्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये ।
शिल्पं व्याख्यानयोगश्च कामो रागपरिग्रहः ॥ ५॥

अहङ्कारो ममत्वं च चिकित्सा धर्मसाहसम् ।
प्रायश्चित्तं प्रवासश्च मन्त्रौषधगराशिषः ॥ ६॥

प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः ।
आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदोऽपि वा ॥ ७॥

सन्माननं च न ब्रूयान्मुनिर्मोक्षपरायणः ।
प्रतिग्रहं न गृह्णीयान्नैव चान्यं प्रदापयेत् ॥ ८॥

प्रेरयेद्वा तया भिक्षुः स्वप्नेऽपि न कदाचन ।
जायाभ्रातृसुतादीनां बन्धूनां च शुभाशुभम् ॥ ९॥

श्रुत्वा दृष्ट्वा न कम्पेत शोकहर्षौ त्यजेद्यतिः ।
अहिंसासत्यमस्तेयब्रह्मचर्यापरिग्रहः ॥ १०॥

अनौद्धत्त्यमदीनत्वं प्रसादः स्थैर्यमार्जवम् ।
अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्तिर्दमः शमः ॥ ११॥

उपेक्षा धैर्यमाधुर्ये तितिक्षा करुणा तथा ।
ह्रीस्तथा ज्ञानविज्ञाने योगो लघ्वशनं धृतिः ॥ १२॥

एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ।
निर्द्वन्द्वो नित्यसत्त्वस्थः सर्वत्र समदर्शनः ॥ १३॥

तुरीयः परमो हंसः साक्षान्नारायणो यतिः ।
एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ॥ १४॥

वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ।
द्विरात्रं वा वसेद्ग्रामे भिक्षुर्यदि वसेत्तदा ॥ १५॥

रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् ।
ग्रामान्ते निर्जने देशे नियतात्माऽनिकेतनः ॥ १६॥

पर्यटेत्कीटवद्भूमौ वर्षास्वेकत्र संवसेत् ।
एकवासा अवासा वा एकदृष्टिरलोलुपः ॥ १७॥

अदूषयन्सतां मार्गं ध्यानयुक्तो महीं चरेत् ।
शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन् ॥ १८॥

पर्यटेत सदा योगी वीक्षयन्वसुधातलम् ।
न रात्रौ न च मध्याह्ने सन्ध्ययोर्नैव पर्यटन् ॥ १९॥

न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च ।
एकरात्रं वसेद्ग्रामे पत्तने तु दिनत्रयम् ॥ २०॥

पुरे दिनद्वयं भिक्षुर्नगरे पञ्चरात्रकम् ।
वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥ २१॥

आत्मवत्सर्वभूतानि पश्यन्भिक्षुश्चरेन्महीम् ।
अन्धवत्कुञ्जवच्चैव बधिरोन्मत्तमूकवत् ॥ २२॥

स्नानं त्रिषवणं प्रोक्तं बहूदकवनस्थयोः ।
हंसे तु सकृदेव स्यात्परहंसे न विद्यते ॥ २३॥

मौनं योगासनं योगस्तितिक्षैकान्तशीलता ।
निःस्पृहत्वं समत्वं च सप्तैतान्यैकदण्डिनाम् ॥ २४॥

परहंसाश्रमस्थो हि स्नानादेरविधानतः ।
अशेषचित्तवृत्तीनां त्यागं केवलमाचरेत् ॥ २५॥

त्वङ्मांसरुधिरस्नायुमज्जामेदोस्थिसंहतौ ।
विण्मूत्रपूये रमतां क्रिमीणां कियदन्तरम् ॥ २६॥

क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः ।
क्व चाङ्गशोभासौभाग्यकमनीयादयो गुणाः ॥ २७॥

मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।
देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ २८॥

स्त्रीणामवाच्यदेशस्य क्लिन्ननाडीव्रणस्य च ।
अभेदेऽपि मनोमेदाज्जनः प्रायेण वञ्च्यते ॥ २९॥

चर्मखण्डं द्विधा भिन्नमपानोद्गारधूपितम् ।
ये रमन्ति नमस्तेभ्यः साहसं किमतः परम् ॥ ३०॥

न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ।
निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजनः ॥ ३१॥

मुनिः कौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ।
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ॥ ३२॥

लिङ्गे सत्यपि खल्वस्मिञ्ज्ञानमेव हि कारणम् ।
निर्मोक्षायेह भूतानां लिङ्गग्रामो निरर्थकः ॥ ३३॥

यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ ३४॥

तस्मादलिङ्गो धर्मज्ञो ब्रह्मवृत्तमनुव्रतम् ।
गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् ॥ ३५॥

सन्दिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः ।
अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ॥ ३६॥

तं दृष्ट्वा शान्तमनसं स्पृहयन्ति दिवौकसः ।
लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनमिति ॥ ३७॥

अथ नारदः पितामहं संन्यासविधिं नो ब्रूहीति पप्रच्छ ।
पितामहस्तथेत्यङ्गीकृत्यातुरे वा क्रमे वापि
तुरीयाश्रमस्वीकारारार्थं कृच्छ्रप्रायश्चित्त-
पूर्वकमष्टश्राद्धं कुर्याद्देवर्षिदिव्यमनुष्य-
भूतपितृमात्रात्मेत्यष्टश्राद्धानि कुर्यात् ।
प्रथमं सत्यवसुसंज्ञकान्विश्वान्देवान्देवश्राद्धे
ब्रह्मविष्णुमहेश्वरानृषिश्राद्धे देवर्षिक्षत्रियर्षि-
मनुष्यर्षीन् दिव्यश्राद्धे वसुरुद्रादुत्यरूपान्मनुष्यश्राद्धे सनकसनन्दनसनत्कुमारसनत्सुजातान्भूतश्राद्धे
मातृपितामहीप्रपितामहीरात्मश्राद्धे
आत्मपितृपितामहाञ्जीवत्पितृकश्चेत्पितरं त्यक्त्वा
आत्मपितामहप्रपितामहानिति सर्वत्र युग्मक्लृप्त्या
ब्राह्मणानर्चयेदेकाध्वरपक्षेऽष्टाध्वरपक्षे वा स्वशाखानुगतमन्त्रैरष्टश्राद्धान्यष्टदिनेषु वा
एकदिने वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य
मुक्त्यन्तं यथाविधि निर्वर्त्य पिण्डप्रदानानि निर्वर्त्य
दक्षिणातांबूलैस्तोषयित्वा ब्राह्मणन्प्रेषयित्वा
शेषकर्मसिद्ध्यर्थं सप्तकेशान्विसृज्य
--'शेषकर्मप्रसिद्ध्यर्थं केशान्सप्ताष्ट वा द्विजः ।
संक्षिप्य वापयेत्पूर्वं केशश्मश्रुनखानि चे'ति
सप्तकेशान्संरक्ष्य कक्षोपस्थवर्जं क्षौरपूर्वकं
स्नात्वा सायंसन्ध्यावन्दनं निर्वर्त्य सहस्रगायत्रीं
जप्त्वा ब्रह्मयज्ञं निर्वर्त्य स्वाधीनाग्निमुपस्थाप्य
स्वशाखोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुति-
माज्यभागान्तं हुत्वाहुतिविधि,न् समाप्यात्मादिभिस्त्रिवारं
सक्तुप्राशनं कृत्वाचमनपूर्वकमग्निं संरक्ष्य
स्वयमग्नेरुत्तरतः कृष्णजिनोपरि स्थित्वा पुराणश्रवणपूर्वकं
जागरणं कृत्वा चतुर्थयामान्ते स्नात्वा तदग्नौ चरुं
श्रपयित्वा पुरुषसूक्तेनान्नस्य षोडशाहुतिर्हुत्वा
विरजाहोमं कृत्वा अथाचम्य सदक्षिणं वस्त्रं सुवर्णपात्रं
धेनुं दत्वा समाप्य ब्रह्मोद्वासनं कृत्वा ।
संमासिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः ।
संमायमग्निः सिञ्चत्वायुषा च धनेन च
बलेन चायुष्मन्तः करोतु मेति ।
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानम् ।
अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि ।
यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव
आजायमानः स क्षय एधीत्यनेनाग्निमात्मन्यारोप्य
ध्यात्वाग्निं प्रदक्षिणनमस्कारपूर्वकमुद्वास्य
प्रातःसन्ध्यामुपास्य सहस्रगायत्रीपूर्वकं
सूर्योपस्थानं कृत्वा नाभिदघ्नोदकमुपविश्य
अष्टदिक्पालकार्घ्यपूर्वकं गायत्र्युद्वासनं
कृत्वा सावित्रीं व्याहृतिषु प्रवेशयित्वा ।
अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि ।
द्रविणं मे सवर्चसं सुमेधा अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ।
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योध्यमृतात्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरि विश्रवम् । ब्रह्मणः कोशोऽसि मेधयापिहितः ।
श्रुतं मे गोपाय । दारेषणायाश्च वित्तेषणायाश्च
लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यस्तं मया
ॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मया
ॐ भूर्भुवःसुवः संन्यस्तं मयेति मन्द्रमध्यमतालज-
ध्वनिभिर्मनसा वाचोच्चार्याभयं सर्वभूतेभ्यो
मत्तः सर्वं प्रवर्तते स्वहेत्यनेन जलं प्राश्य प्राच्यां दिशि
पूर्णाञ्जलिं प्रक्षिप्योंस्वाहेति शिखामुत्पाठ्य ।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च्य शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।
यज्ञोपवीत बहिर्न निवसेत्त्वमन्तः प्रविश्य मध्ये ह्यजस्रं
परमं पवित्रं यशो बलं ज्ञानवैराग्यं मेधां प्रयच्छेति
यज्ञोपवीतं छित्त्वा उदकाञ्जलिना सह ॐ भूः समुद्रं गच्छ
स्वाहेत्यप्सु जुहुयादों भूः संन्यस्तं मया ॐ भुवः संन्यस्तं मया
ॐ सुवः संन्यस्तं मयेति त्रिरुक्त्वा त्रिवारमभिमन्त्र्य तज्जलं
प्राश्याचम्य ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य
सर्वकर्मनिर्वर्तकोऽहमिति स्मृत्वा जातरूपधरो भूत्वा
स्वरूपानुसन्धानपूर्वकमूर्ध्वबाहुरुदीचीं
गच्छेत्पूर्ववद्विद्वत्संन्यासी चेद्गुरोः सकाशात्प्रणव-
महावाक्योपदेशं प्राप्य यथासुखं विहरन्मत्तः कश्चिन्नान्यो
व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवालयेषु
संचरेत्संन्यस्याथ दिगंबरः सकलसंचारकः
सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूरलाभः
प्राणायामपरायणः फलरसत्वक्पत्रमूलोदकैर्मोक्षार्थी
गिरिकन्दरेषु विसृजेद्देहं स्मरंस्तारकम् ।
विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभिर्विप्रैस्तिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृहाण प्रणव महावाक्यग्रहणार्थं
गुरुनिकटमागच्छेत्याचार्यैर्दण्डकटिसूत्रकौपीनं
शाटीमेकां कमण्डलुं पादादिमस्तकप्रमाणमव्रणं
समं सौम्यमकाकपृष्ठं सलक्षणं वैणवं
दण्डमेकमाचमनपूर्वकं सखा मा गोपायौजः
सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रग्नः शर्म मे भव
यत्पापं तन्निवारयेति दण्डं परिग्रहेज्जगज्जीवनं
जीवनाधारभूतं मा ते मा मन्त्रयस्व सर्वदा
सर्वसौम्येति प्रणवपूर्वकं कमण्डलुं परिग्रह्य
कौपीनाधारं कटिसूत्रमोमिति गुह्याच्छादकं
कौपीनमोमिति शीतवातोष्णत्राणकरं देहैकरक्षणमोमिति
कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो
भूत्वा कृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥

इति चतुर्थोपदेशः ॥ ४॥

अथ हैनं पितामहं नारदः पप्रच्छ
भगवन्सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः
पुनः स्वाश्रमाचारपरो भवेदित्युच्यते ।
ततः पितामह उवाच ।
शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः
सन्ति तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः
पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव
चेद्भगवन्संन्यासाः कतिभेदास्तदनुष्ठानभेदाः
कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति ।
तथेत्यङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदज़्
कथमिति चेत्तत्त्वतस्त्वेक एव संन्यासः अज्ञानेनाशक्तिवशा-
त्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो
ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति
चातुर्विध्यमुपागतस्तद्यथेति दुष्टमदनाभाच्चेति
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः
स वैराग्यसंन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव-
श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहङ्कारा-
भिमानात्मकसर्वसंसारं निर्वृत्य दारेषणाधनेषणा-
लोकेषणात्मकदेहवासनां शास्त्रवासनां लोकवासनां
त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा
साधनचतुष्टयसम्पन्नो यः संन्यसति स एव ज्ञानसंन्यासी ।
क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां
स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी ।
ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य
वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः
संन्यस्यति स कर्मसंन्यासी ।
ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो
वैराग्यसंन्यासी ।
विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी
कर्मसंन्यासी ।
कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति ।
निमित्तस्त्वातुरः । अनिमित्तः क्रमसंन्यासः ।
आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः
स निमित्तसंन्यासः ।
दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं
सर्वं हेयं प्राप्य ।
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिधिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति
स संन्यासोऽनिमित्तसंन्यासः ।
संन्यासः षड्विधो भवति ।
कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति ।
कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः ।
बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो
मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी
असंक्लृप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी ।
परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेश्वेकरात्रान्नादनपरः
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो
वा भस्मोद्धूलनपरः सर्वत्यागी ।
तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो
दिगंबरः कुणपवच्छरीरवृत्तिकः ।
अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णेष्वजगर-
वृत्त्याहारपरः स्वरूपानुसन्धानपरः ।
आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः
कुटीचकबहूदकहंसानां ब्रह्मच-
र्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां
संन्यासविधिः ।
परमहंसादित्रयाणां न कटीसूत्रं न कौपीनं
न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक-
भैक्षाटनपरत्वं जातरूपधरत्वं विधिः ।
संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य
तदनन्तरं कटीसूत्रं कौपीनं दण्डं वस्त्रं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न
कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं
न तर्कं पठेन्न शब्दमपि बृहच्छब्दान्नाध्यापयेन्न
महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं
नान्यस्माद्वा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं
न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्तिः ।
पुनर्यतिविशेषः ।
कुटीचस्यैकत्र भिक्षा बहूदकस्यासंक्लृप्तं
माधुकरं हंसस्याष्टगृहेष्वष्टकवलं
परमहंसस्य पञ्चगृहेषु करपात्रं
फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः
सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्न कस्यापि
नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः
स ज्येष्ठोऽपि कनिष्ठो हस्ताभ्यां नद्युत्तरणं
न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न
क्रयविक्रयपरो न किञ्चिद्विनिमयपरो न दाम्भिको
नानृतवादी न यतेः किंचित्कर्तव्यमस्त्यस्तिचेत्सांकर्यम् ।
तस्मान्मननादौ संन्यासिनामधिकारः ।
आतुरकुटीचकयोर्भूर्लोको बहूदकस्य
स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य
सत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव
कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ।
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेव समाप्नोति नान्यथा श्रुतिशासनम् ।
तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपरो
न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञान-
वैराग्यसम्पन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति-
स्तदाचारः । जाग्रत्स्वप्नसुषुप्तेष्वेकशरीरस्य जाग्रत्काले
विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः
अवस्थाभेदादवस्थेश्वरभेदः कार्यभेदात्कारणभेदस्तासु
चतुर्दशकारणानां बाह्यवृत्तयोऽतर्वृतयस्तेषा-
मुपादानकारणम् ।
वृत्तयश्चत्वारः मनोबुद्धिरहङ्कारश्चित्तं चेति ।
तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः ।
नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ।
तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न
इव यद्यच्छृतं यद्यदृष्टं तत्सत्सर्वमविज्ञातमिव
यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति ।
स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव
मुक्तिरिति । भिक्षुर्नैहिकामुष्मिकापेक्षः । यद्यपेक्षास्ति
तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्रा-
भ्यासैरुष्ट्रकुङ्कुमभारवद्व्यर्थो न योगशास्त्र-
प्रवृत्तिर्न साङ्ख्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः ।
इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालङ्कारवच्चर्मकारव-
दतिविदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म
करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदतः सर्वं परित्यज्य
तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा
परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा न
काङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति ।
तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः ।
भिक्षामात्रेण जीवि स्यात्स यतिर्यतिवृत्तिहा ॥ १॥

न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण
मुक्तिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ।
काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।
स याति नरकान्घोरान्महारौरवसंज्ञितान् ॥ २॥

प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः ।
तस्मादेनां परित्यज्य कीटवत्पर्यटेद्यतिः ॥ ३॥

अयाचितं यथालाभं भोजनाच्छादनं भवेत् ।
परेच्छया च दिग्वासाः स्नानं कुर्यात्परेच्छया ॥ ४॥

स्वप्नेऽपि यो युक्तः स्याज्जाग्रतीव विशेषतः ।
ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ५॥

अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६॥

अभिपूजितलाभांश्च जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ ७॥

प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्ते वर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ ८॥

पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् ।
तिष्ठन्भुञ्ज्याच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥ ९॥

अब्धिवद्धृतमर्यादा भवन्ति विशादाशयाः ।
नियतिं न विमुञ्चन्ति महान्तो भास्करा एव ॥ १०॥

आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ११॥

अनिन्द्यं वै व्रजन्गेहं निन्द्यं गेहं तु वर्जयेत् ।
अनावृते विशेद्द्वारि गेहे नैवावृते व्रजेत् ॥ १२॥

पांसुना च प्रतिच्छन्नशून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३॥

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ १४॥

निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः ।
कालकाङ्क्षी चरन्नेव ब्रह्मभूयाय कल्पते ॥ १५॥

अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ १६॥

निर्मानश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः ।
नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥ १७॥

पुण्यायतनचारी च भूतानामविहिंसकः ।
काले प्राप्ते भवद्भैक्षं कल्प्यते ब्रह्मभूयसे ॥ १८॥

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातचर्यां लिप्सेत न चैनं हर्ष आविशेत् ॥ १९॥

अध्वा सूर्येण निर्दिष्टः कीटवद्विचरेन्महीम् ।
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥ २०॥

लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् ।
नासच्छात्रेषु सज्जेत नोपजीवेत जीविकाम् ।
अतिवादांस्त्यजेत्तर्कान्पक्षं कञ्चन नाश्रयेत् ॥ २१॥

न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ २२॥

अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् ।
कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥ २३॥

न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ २४॥

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीड आत्मरतिरात्मवान्समदर्शनः ॥ २५॥

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२६॥

क्षिप्रोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽपि वा ।
ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥ २७॥

विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः ।
श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥ २८॥

संमाननं परां हानिं योगर्द्धेः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ २९॥

तथा चरेत वै योगी सतां धर्ममदूषयन् ।
जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ३०॥

जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ ३१॥

कामक्रोधौ तथा दर्पलोभमोहादयश्च ये ।
तांस्तु दोषान्परित्यज्य परिव्राड् भयवर्जितः ॥ ३२॥

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ ३३॥

काषायवासाः सततं ध्यानयोगपरायणः ।
ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा ॥ ३४॥

भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् ।
चित्तशुद्धिर्भवेद्यावत्तावन्नित्यं चरेत्सुधीः ॥ ३५॥

ततः प्रव्रज्य शुद्धात्मा संचरेद्यत्र कुत्रचित् ।
बहिरन्तश्च सर्वत्र सम्पश्यन्हि जनार्दनम् ॥ ३६॥

सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः ।
समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत् ॥ ३७॥

निर्वैरेण समं पश्यन्द्विजगोश्वमृगादिषु ।
भावयन्मनसा विष्णुं परमात्मानमीश्वरम् ॥ ३८॥

चिन्मयं परमानन्दं ब्रह्मैवाहमिति स्मरन् ।
ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा
आशाम्बरधरो भूत्वा सर्वदा मनोवाक्कायकर्मभिः
सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः
स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो
भवतीत्युपनिषत् ॥

इति पञ्चमोपदेशः ॥ ५॥

अथ नारदः पितामहमुवाच ।
भगवन् तदभ्यासवशात् भ्रमकीटन्यायवत्तदभ्यासः कथमिति ।
तमाह पितामहः ।
सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो
वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि
शान्तिदान्ती नेत्रे मनोमुखं बुद्धिः कला
पञ्चविंशतितत्त्वान्यवयव अवस्था
पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं शाखा
जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि
पङ्कस्तम्भाकाराणीति । एवमपि नावमतिपङ्कं कर्णधार
इव यन्तेव गजं स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं
कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा
ब्रह्माहमिति व्यवहरेन्नान्यत्किञ्चिद्वेदितव्यं स्वव्यतिरेकेण ।
जीवन्मुक्तो वसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति
व्यवहरेत्किन्तु ब्रह्माहमस्मीत्यजस्रं जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तं
स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां
चतस्रोऽवस्थास्त्वेकैककरणाधीनानां चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् ।
चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं
जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं
वचसो वाग्व्यापारः पाणेरादानं पादयोः संचारः
पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम् ।
तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुद्ध्यति
चित्तेन चेतयत्यहङ्कारेणाहङ्करोति । विसृज्य जीव
एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन गृहस्थ
इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेयां
निद्रालस्यौ दक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः
पश्चिमे क्रीडारतिर्वायव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये
ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं
वक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं
स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयं चतुर्भिर्विरहितं
तुरीयातीतम् । विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवः
साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् ।
नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने
स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः
तुरीये तुरीयादिचतस्रोऽवस्थाः नत्वेवं तुरीयातीतस्य निर्गुणस्य ।
स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः
सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उत तटस्थो द्रष्टा
तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्व
अहङ्कारादिभिः स्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोऽपि
न स्पृष्ट इति चेन्न । जीवाभिमानेन क्षेत्राभिमानः ।
शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहाकाशव-
द्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति
मन्त्रेणोच्छ्वासनिःश्वासव्यपदेशेनानुसन्धानं करोति ।
एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति ।
स एव ब्रह्मेत्युच्यते।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ १॥

शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ २॥

आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजनेषु सिद्ध्यर्थी न गच्छेद्योगवित्क्वचित् ॥ ३॥

यथैनमवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चेद्योगी सतां वर्त्म न दूषयेत् ॥ ४॥

वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥ ५॥

विधूमे च प्रशान्ताग्नौ यस्तु माधुकरीं चरेत् ।
गृहे च विप्र्मुख्यानां यतिः सर्वोत्तमः स्मृतः ॥ ६॥

दण्डभिक्षां च यः कुर्यात्स्वधर्मे व्यसनं विना ।
यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥ ७॥

यस्मिन्गृहे विशेषेण लभेद्भिक्षां च वासनात् ।
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः ॥ ८॥

यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।
पारमार्थिक विज्ञानं सुखात्मानं स्वयंप्रभम् ॥ ९॥

परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् ।
वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १०॥

नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा ।
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ ११॥

यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ।
स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥ १२॥

योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् ।
सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः ॥ १३॥

तस्मादन्यगता वर्णा आश्रमा अपि नारद ।
आत्मन्यारोपिताः सर्वे भ्रान्त्या तेनात्मवेदिना ॥ १४॥

न विधिर्न निषेधश्च वर्ज्यावर्ज्य कल्पना ।
ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ॥ १५॥

विरज्य सर्वभूतेभ्य आविरिञ्चिपदादपि ।
घृणां विपाठ्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि ॥ १६॥

श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १७॥

सेवाभिः परितोष्यैनं चिरकालं समाहितः ।
सदा वेदान्तवाक्यार्थं श्रुणुयात्सुसमाहितः ॥ १८॥

निर्ममो निरहङ्कारः सर्वसङ्गविवर्जितः ।
सदा शान्त्यादियुक्तः सन्नात्मन्वात्मानमीक्षते ॥ १९॥

संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा ।
विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः ॥ २०॥

मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम् ।
अभ्यसेद्ब्रह्मविज्ञानं वेदान्तश्रवणादिना ॥ २१॥

ब्रह्मविज्ञानलाभाय परहंस समाह्वयः ।
शान्तिदान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥ २२॥

वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ।
निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः ॥ २३॥

जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथवा भवेत् ।
प्राज्ञो वेदान्तविद्योगी निर्ममो निरहङ्कृतिः ॥ २४॥

मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ।
एको ज्ञानी प्रशान्तात्मा स सन्तरति नेतरः ॥ २५॥

गुरूणां च हिते युक्तस्तत्र संवत्सरं वसेत् ।
नियमेष्वप्रमात्तस्तु यमेषु च सदाभवेत् ॥ २६॥

प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् ।
अविरोधेन धर्मस्य संचरेत्पृथिवीमिमाम् ॥ २७॥

ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम् ।
आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥ २८॥

अनुज्ञाप्य गुरूंश्चैव चरेद्धि पृथिवीमिमाम् ।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥ २९॥

द्वाविमौ न विरज्येते विपरीतेन कर्मणा ।
निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षुकः ॥ ३०॥

माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति ।
तस्माद्दृष्टिविषं नारीं दूरतः परिवर्जयेत् ॥ ३१॥

संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा ।
नृत्तं गानं सहासं च परिवादांश्च वर्जयेत् ॥ ३२॥

न स्नानं न जपः पूजा न होमो नैव साधनम् ।
नाग्निकार्यादिकार्यं च नैतस्यास्तीह नारद ॥ ३३॥

नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च ।
धर्माधर्मादिकं नास्ति न विधिर्लौकिकी क्रिया ॥ ३४॥

सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ।
कृमीकीटपतङ्गाश्च तथा योगी वनस्पतीन् ॥ ३५॥

न नाशयेद्बुधो जीवन्परमार्थमतिर्यतिः ।
नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः ॥ ३६॥

अन्तःसङ्गपरित्यागी लोके विहर नारद ।
नाराजके जनपदे चरत्येकचरो मुनिः ॥ ३७॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेदित्युपनिषत् ॥

इति षष्ठोपदेशः ॥ ६॥

अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः
पुरस्कृत्य विरक्तः सन्यो वर्षासु ध्रुवशीलोऽष्टौ
मास्येकाकी चरन्नेकत्र निवसेद्भिक्षुर्भयात्सारङ्गवदेकत्र
न तिष्ठेस्वगमननिरोधग्रहणं न कुर्याद्धस्ताभ्यां
नद्युत्तरणं न कुर्यान्न वृक्षारोहणमपि न
देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्यदेवार्चनं
कुर्यात्स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमहारन्कृशो
भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेदेकत्रान्नं
पललमिव गन्धलेपनमशुद्धिलेपनमैव क्षारमन्त्यजमिव
वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं
चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिव
सभास्थलं स्मशानस्थलमिव राजधानीं कुम्भीपाकमिव
शवपिण्डवदेकत्रान्नं न देहान्तरदर्शनं प्रपञ्चवृत्तिं
परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय
विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मर-
न्स्वशरीराभिमानदेशविस्मरणं मत्वा शवमिव हेयमुपगम्य
कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवस्थलं
विहाय दूरतो वसेत् ।
अयत्नेन प्राप्तमाहरन्ब्रह्मप्रणवध्यानानुसन्धानपरो
भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोधलोभमोहमद-
मात्सर्यादिकं दग्ध्वा त्रिगुणातीतः षडूर्मिरहितः
षड्भावविकारशून्यः । सत्यवाक्छुचिरद्रोही ग्राम
एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे
पञ्चरात्रमनिकेतः स्थिरमतिर्नानृतवादी गिरिकन्दरेषु
वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतुर्भि-
र्ग्राममित्येकश्चरेत् । भिक्षुश्चतुर्दशकरणानां
न तत्रावकाशं दद्यादविच्छिन्नज्ञानाद्वैराग्यसम्पत्ति-
मनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य
सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्ध-
प्रतिभासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा
देहपतनपर्यन्तं स्वरूपानुसन्धानेन वसेत् ।
त्रिषवणस्नानं कुटीचकस्य बहूदकस्य द्विवारं
हंसस्यैकवारं परमहंसस्य मानसस्नानं
तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानं
ऊर्ध्वपुण्ड्रं कुटीचकस्य त्रिपुण्ड्रं बहूदकस्य
ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं हंसस्य भस्मोद्धूलनं
परमहंसस्य तुरीयातीतस्य तिलकपुण्ड्रमवधूतस्य न
किञ्चित् । तुरीयातीतावधूतयोः ऋतुक्षौरं कुटीचकस्य
ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य
परमहंसस्य च न क्षौरम् । अस्तिचेदयनक्षौरम् ।
तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्नं
माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं
तुरीयातीतस्य गोमुखं अवधूतस्याजगरवृत्तिः । शाटिद्वयं
कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं
दिगंबरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयो-
र्जातरूपधरत्वं हंसपरमहंसयोरजिनं न त्वन्येषाम् ।
कुटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयो-
र्मानसार्चनं तुरीयातीतावधूतयोः सोहंभावना ।
कुटीचकबहूदकयोर्मन्त्रजपाधिकारो हंसपरमहंसयो-
र्ध्यानाधिकारस्तुरीयातीतावधूतयोर्न त्वन्याधिकार-
स्तुरीयातीतावधूतयोर्महावाक्योपदेशाधिकारः
परमहंसस्यापि । कुटीचकबहूदकहंसानां
नान्यस्योपदेशाधिकारः। कुटीचकबहूदकयोर्मानुषप्रणवः
हंसपरमहंसयोरान्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः ।
कुटीचकबहूदकयोः श्रवणं हंसपरमहंसयोर्मननं
तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मनुसन्धानं
विधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मर-
ञ्जीवन्मुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपाय-
मन्विष्येद्यतिरित्युपनिषत् ॥

इति सप्तमोपदेशः ॥ ७॥

अथ हैनं भगवन्तं परमेष्ठिनं नारदः
पप्रच्छ संसारतारकं प्रसन्नो ब्रूहीति ।
तथेति परमेष्ठी वक्तुमुचक्रमे ओमिति ब्रह्मेति
व्यष्टिसमष्टिप्रकारेण । का व्यष्टिः का
समष्टिः संहारप्रणवः सृष्टिप्रणव-
श्चान्तर्बहिश्चोभयात्मकत्वात्त्रिविधो
ब्रह्मप्रणवः । अन्तःप्रणवो व्यावहारिकप्रणवः ।
बाह्यप्रणव आर्षप्रणवः । उभयात्मको
विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव
अर्धमात्राप्रणवः । ओमितिब्रह्म । ओमित्येकाक्षर-
मन्तःप्रणवं विद्धि । सचाष्टधा भिद्यते ।
अकारोकारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति ।
तत्र चत्वार अकारश्चायुतावयवान्वित उकारः
सहस्रावयवान्वितो मकारः शतावयवोपेतोऽर्धमात्रा-
प्रणवोऽनन्तावयवाकारः । सगुणो विराट्प्रणवः संहारो
निर्गुणप्रणव उभयात्मकोत्पत्तिप्रणवो यथाप्लुतो
विराट्प्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः
षट्त्रिंशत्तत्त्वातीतः । षोडशमात्रात्मकत्वं
कथमित्युच्यते । अकारः प्रथमोकारो द्वितीया मकार-
स्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः
षष्ठी कला सप्तमी कलातीताष्टमी शान्तिर्नवमी
शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी
पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी
परा । षोडशी पुनश्चतुःषष्टिमात्रा प्रकृति-
पुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा-
स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः
सर्वाधारः परंज्योतिरेष सर्वेश्वरो विभुः । सर्वदेवमयः
सर्वप्रपञ्चाधारगर्भितः ॥ १॥

सर्वाक्षरमयः कालः सर्वागममयः शिवः ।
सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः ॥ २॥

भूतं भव्यं भविष्यद्यत्त्रिकालोदितमव्ययम् ।
तदप्योङ्कारमेवायं विद्धि मोक्षप्रदायकम् ॥ ३॥

तमेवात्मानमित्येतद्ब्रह्मशब्देन वर्णितम् ।
तदेकममृतमजरमनुभूय तथोमिति ॥ ४॥

सशरीरं समारोप्य तन्मयत्वं तथोमिति ।
त्रिशरीरं तमात्मानं परंब्रह्म विनिश्चिनु ॥ ५॥

परंब्रह्मानुसन्दध्याद्विश्वादीनां क्रमः क्रमात् ।
स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम् ॥ ६॥

ऐकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः ।
चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक् ॥ ७॥

एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभु ।
स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान् ॥ ८॥

विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः ।
सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप ॥ ९॥

सूक्ष्मभुक् चतुरात्माथ तैजसो भूतराडयम् ।
हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः पाद उच्यते ॥ १०॥

कामं कामयते यावद्यत्र सुप्तो न कञ्चन ।
स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम् ॥ ११॥

एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी ।
नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः ॥ १२॥

तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः ।
चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ञितः ॥ १३॥

एष सर्वेश्वरश्चैष सर्वज्ञः सूक्ष्मभावनः ।
एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥ १४॥

भूतानां त्रयमप्येतत्सर्वोपरमबाधकम् ।
तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्तितम् ॥ १५॥

चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम् ।
तुरीयावसितत्त्वाच्च एकैकत्वनुसारतः ॥ १६॥

ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम् ।
विकल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम् ॥ १७॥

मायामात्रं विदित्वैवं सच्चिदेकरसो ह्ययम् ।
विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम् ॥ १८॥

न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने ।
नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमान्तरम् ॥ १९॥

नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च ।
तदलक्षणमग्राह्यं यद्व्यवहार्यमचिन्त्य-
मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स ब्रह्म
प्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र
भानुवन्मुमुक्षूणामाधारः स्वयंज्योतिर्ब्रह्माकाशः
सर्वदा विराजते परंब्रह्मत्वादित्युपनिषत् ॥

इति अष्टमोपदेशः ॥ ८॥

अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्छ ।
तं होवाच पितामहः किं ब्रह्मस्वरूपमिति ।
अन्योसावन्योहमस्मीति ये विदुस्ते पशवो न स्वभाव-
पशवस्तमेवं ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते
नान्यः पन्था विद्यतेऽयनाय ।
कालः स्वभावो नियतिर्यदृच्छा
भूतानि योनिः पुरुष इति चिन्त्यम् ।
संयोग एषां नत्वात्मभावा-
दात्मा ह्यनीशः सुखदुःखहेतोः ॥ १॥

ते ध्यानयोगानुगता अपश्यन्
देवात्मशक्तिं स्वगुणैर्निगूढाम् ।
यः कारणानि निखिलानि तानि
कालात्मयुक्तान्यधितिष्ठत्येकः ॥ २॥

तमेकस्मिंस्त्रिवृतं षोडशान्तं
शतार्धारं विंशप्रतित्यराभिः ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ३॥

पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
पञ्चावर्तां पञ्चदुःखौघवेगां
पञ्चशद्भेदां पञ्चपर्वामधीमः ॥ ४॥

सर्वाजीवे सर्वसंस्थे बृहन्ते
तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।
पृथगात्मानं प्रेरितारं च मत्वा
जुष्टस्ततस्तेनामृतत्वमेति ॥ ५॥

उद्गीथमेतत्परमं तु ब्रह्म
तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।
अत्रान्तरं वेदविदो विदित्वा
लीनाः परे ब्रह्मणि तत्परायणाः ॥ ६॥

संयुक्तमेतत्क्षरमक्षरं च
व्यक्ताव्यक्तं भरते विश्वमीशः ।
अनीशश्चात्मा बध्यते भोक्तृभावा-
ज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ७॥

ज्ञाज्ञौ द्वावजावीशनीशावजा
ह्येका भोक्तृभोगार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ८॥

क्षरं प्रधानममृताक्षरं हरः
क्षरात्मानावीशते देव एकः ।
तस्याभिध्यानाद्योजनात्तत्त्वभावा-
द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ९॥

ज्ञात्वा देवं मुच्यते सर्वपाशैः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात्तृतयं देहभेदे
विश्वैश्वर्यं केवल आत्मकामः ॥ १०॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ११॥

आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् ।
य एवं विदित्वा स्वरूपमेवानुचिन्तयं-
स्तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ १२॥

तस्माविराड्भूतं भव्यं
भविष्यद्भवत्यनश्वरस्वरूपम् ।
अणोरणीयान्महतो महीया-
नात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुं पश्यति वीतशोको
धातुःप्रसादान्महिमानमीशम् ॥ १३॥

अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स श्रुणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥ १४॥

अशरीरं शरीरेष्वनवस्थेश्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १५॥

सर्वस्य धातारमचिन्त्यशक्तिं
सर्वागमान्तार्थविशेषवेद्यम् ।
परात्परं परमं वेदितव्यं
सर्वावसाने सकृद्वेदितव्यम् ॥ १६॥

कविं पुराणं पुरुषोत्तमोत्तमं
सर्वेश्वरं सर्वदेवैरुपास्यम् ।
अनादि मध्यान्तमनन्तमव्ययं
शिवाच्युताम्भोरुहगर्भभूधरम् ॥ १७॥

स्वेनावृतं सर्वमिदं प्रपञ्चं
पञ्चात्मकं पञ्चसु वर्तमानम् ।
पञ्चीकृतानन्तभवप्रपञ्चं
पञ्चीकृतस्वावयवैरसंवृतम् ।
परात्परं यन्महतो महान्तं
स्वरूपतेजोमयशाश्वतं शिवम् ॥ १७॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ १८॥

नान्तःप्रज्ञं न बहिःप्रज्ञं न स्थूलं नास्थूलं
न ज्ञानं नाज्ञानं नोभयतःप्रज्ञमग्राह्य-
मव्यवहार्यं स्वान्तःस्थितः स्वयमेवेति य एवं वेद
स मुक्तो भवति स मुक्तो भवतीत्याह भगवान्पितामहः ।
स्वस्वरूपज्ञः परिव्राट् परिव्राडेकाकी चरति
भयत्रस्तसारङ्गवत्तिष्ठति । गमनविरोधं न करोति ।
स्वशरीरव्यतिरिक्तं सर्वं त्यक्त्वा ष्ट्पदवृत्त्या स्थित्वा
स्वरूपानुसन्धानं कुर्वन्सर्वमनन्यबुद्ध्या
स्वस्मिन्नेव मुक्तो भवति । स परिव्राट् सर्वक्रियाकारकनिवर्तको
गुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वसंसारं विसृज्य
चामोहितः परिव्राट् कथं निर्धनिकः सुखी धनवा-
ञ्ज्ञानाज्ञानोभयातीतः सुखदुःखातीतः
स्वयंज्योतिप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः
सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमं पदं यत्र
गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति
न शशाङ्कोऽपि न स पुनरावर्तते न स पुनरावर्तते
तत्कैवल्यमित्युपनिषत् ॥

इति नवमोपदेशः ॥ ९॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति नारदपरिव्राजकोपनिषत्समाप्ता ॥

Маханараяна упанишада

॥ महानारायणोपनिषत् ॥

हरिः ॐ ॥

शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै
। तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽनुवाकः ।
अंभस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो
महीयान् ।
शुक्रेण ज्योती{\म्+}षि समनुप्रविष्टः प्रजापतिश्चरति
गर्भे अन्तः ॥ १॥

यस्मिन्निद{\म्+} सं च वि चैति सर्वं यस्मिन् देवा अधि
विश्वे निषेदुः ।
तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् ॥२॥

येनावृतं खं च दिवं मही च येनादित्यस्तपति तेजसा
भ्राजसा च ।
यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः ॥ ३॥

यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यचसर्जभूम्याम् ।
यदोषधीभिः पुरुषान् पशू{\म्+}श्च विवेश भूतानि चराचराणि ॥ ४॥

अतः परं नान्यदणीयस{\म्+} हि परात्परं यन्महतो
महान्तम् ।
यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्
॥ ५॥

तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ।
इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति
भुवनस्य नाभिः ॥ ६॥

तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः ।
तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥ ७॥

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि ।
कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥ ८॥

अर्धमासा मासा ऋतवः संवत्सरश्च कल्पन्ताम् ।
स आपः प्रदुधे उभे इमे अन्तरिक्षमथो सुवः ॥ ९॥

नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् ।
न तस्येशे कश्चन तस्य नाम महद्यशः ॥ १०॥

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति
कश्चनैनम् ।
हृदा मनीशा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते
भवन्ति ॥ ११॥

परमात्म##-## हिरण्यगर्भ##-## सूक्त
अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ ॥
अद्भ्य संभूतः पृथिव्यौ रसाच्च विश्वकर्मणः
समवर्तताधि ।
तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य
विश्वमाजानमग्रे । १।

वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् ।
तमेवं विद्वानमृत इह भवति नान्यःपन्थाविद्यतेऽयनाय
। २।

प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुथा विजायते ।
तस्य धीराः परिजानन्ति योनिम् मरीचीनां पदमिच्च्हन्ति
वेधसः । ३।

यो देवेभ्य आतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो
जातः नमो रुचाय ब्राह्मये । ४।

रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् । यस्त्वैवं
ब्राह्मणो विद्यात् तस्य देवा असन् वशे । ५।

ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि
रूपम् ।
अश्विनौ व्यात्तम् इष्टं मनिषाण अमुं मनिषाण सर्वं
मनिषाण । ६। इति उत्तरनारायणानुवाकः ।

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा
विधेम ॥ १॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा
विधेम ॥ २॥

य आत्मदा बलंदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः ।
यस्य च्हायामृतं यस्य मृत्युः कस्मै देवाय हविषा
विधेम ॥ ३॥

यस्येमे हिमवन्तो महित्वा यस्य समुद्र{\म्+} रसया सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
४॥

यं क्रन्दसी अवसा तस्तभाने अस्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥ ५॥

येन द्यौरुग्रा पृथिवी च दृढे येन सुवः स्तभितं येन
नाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ ६॥

आपो ह यन्महतीर्विश्वमायं दक्षं दधाना
जनयन्तीरग्निम् ।
ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा
विधेम ॥ ७॥

यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना
जनयन्तीरग्निम् ।
यो देवेश्वधि देव एक कस्मै देवाय हविषा विधेम ॥ ८॥

एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे
अन्तः ।
स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति
विश्वतोमुखः ॥ १२॥

विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत
विश्वतस्पात् ।
सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन्
देव एकः ॥ १३॥

वेनस्तत् पश्यन् विश्वा भुवनानि विद्वान् यत्र विश्वं
भवत्येकनीडम् ।
यस्मिन्निद{\म्+}सं च वि चैक{\म्+}स ओतः प्रोतश्च विभुः
प्रजासु ॥ १४॥

प्र तद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु ।
त्रीणि पदा निहिता गुहासु यस्तद्वेद सवितुः पिता सत् ॥ १५॥

स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा अमृतमानशानास्तृतीये धामान्यभ्यैरयन्त ॥
१६॥

परि द्यावापृथिवी यन्ति सद्यः परि लोकान् परि दिशः परि
सुवः ।
ऋतस्य तन्तुं विततं विचृत्य तदपश्यत् तदभवत्
प्रजासु ॥ १७॥

परीत्य लोकान् परीत्य भूतानि परीत्य सर्वाः प्रदिशो
दिशश्च ।
प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसंबभूव ॥ १८॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं
मेधामयासिषम् ॥ १९॥

उद्दीप्यस्व जातवेदोऽपघ्नन्निऋतिं मम । पशू{\म्+}श्च
मह्यममावह जीवनं च दिशो दिश ॥ २०॥

मा नो हि{\म्+}सीज्जातवेदो गामश्वं पुरुषं जगत् ।
अबिभ्रदग्न आगहि श्रिया मा परिपातय ॥ २१॥

पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो
रुद्रः प्रचोदयात् ॥ २२॥

गायत्र्याः ।
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः
प्रचोदयात् ॥ २३॥

तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः
प्रचोदयात् ॥ २४॥

तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः
प्रचोदयात् ॥ २५॥

तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः
प्रचोदयात् ॥ २६॥

तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः
प्रचोदयात् ॥ २७॥

वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म
प्रचोदयात् ॥ २८॥

नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः
प्रचोदयात् ॥ २९॥

वज्रनखाय विद्महे तीक्ष्णद{\म्+}ष्ट्राय धीमहि । तन्नो
नारसि{\म्+}हः प्रचोदयात् ॥ ३०॥

भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्य्यः
प्रचोदयात् ॥ ३१॥

वैश्वानरय विद्महे लालीलाय धीमहि । तन्नो अग्निः
प्रचोदयात् ॥ ३२॥

कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः
प्रचोदयात् ॥ ३३॥

[##पाठभेदःः
चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि । तन्नो ब्रह्मा
प्रचोदयात् ॥
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः
प्रचोदयात् ॥
पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः
प्रचोदयात् ॥
महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती
प्रचोदयात् ॥
सुभगायै विद्महे कमलमालिन्यै धीमहि । तन्नो गौरी
प्रचोदयात् ॥
नवकुलाय विद्महे विषदन्ताय धीमहि । तन्नः सर्पः
प्रचोदयात् ॥##]##
सहस्रपरमा देवी शतमूला शताङ्कुरा । सर्व{\म्+}हरतु मे
पापं दूर्वा दुःस्वप्ननाशिनी ॥ ३४॥

काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परि । एवा नो
दूर्वे प्रतनु सहस्रेण शतेन च ॥ ३५॥

या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके
विधेम हविषा वयम् ॥ ३६॥

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा । शिरसा
धारयिष्यामि रक्षस्व मां पदे पदे ॥ ३७॥

भूमिर्धेनुर्धरणी लोकधारिणी । उद्धृतासि वराहेण
कृष्णेन शतबाहुना ॥ ३८॥

मृत्तिके हन पापं यन्मया दुष्कृतं कृतम् ।
मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥ ३९॥

मृत्तिके प्रतिष्ठिते सर्वं तन्मे निर्णुद मृत्तिके । त्वया
हतेन पापेन गच्च्हामि परमां गतिम् ॥ ४०॥

यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्च्हग्धि
तव तन्न ऊतये विद्विषो विमृधो जहि ॥ ४१॥

स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः
पुर एतु नः स्वस्तिदा अभयङ्करः ॥ ४२॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
४३॥

आपान्तमन्युस्तृपलप्रभर्मा धुनिः
शिमीवाञ्च्हरुमा{\म्+}ऋजीषी ।
सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥
४४॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः
॥ ४५॥

स्योना पृथिवि भवान् नृक्षरा निवेशनी । यच्च्हा नः
शर्म सप्रथाः ॥ ४६॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरी{\म्+} सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ४७॥

श्रीर्मे भजतु अलक्ष्मीर्मे नश्यतु ।
विष्णुमुखा वै
देवाश्च्हन्दोभिरिमा।cंल्लोकाननपजय्यमभ्यजयन् ।
महा{\म्+} इन्द्रो वज्रबाहुः षोडशी शर्म यच्च्हतु ॥ ४८॥

स्वस्ति नो मघवा करोतु । हन्तु पाप्मानं योऽस्मान् द्वेष्टि ॥
४९॥

सोमान{\म्+} स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य
औशिजम् ।
शरीरं यज्ञशमलं कुसीदं तस्मिन्त्सीदतु योऽस्मान्
द्वेष्टि ॥ ५०॥

चरणं पवित्रं विततं पुराणं येन पूतस्तरति
दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अति पाप्मानमरातिं तरेम ॥ ५१॥

सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहञ्च्हूर
विद्वान् ।
जहि शत्रू{\म्+}रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो
नः ॥ ५२॥

सुमित्रा न आप ओषधयः सन्तु ।
दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं
द्विष्मः ॥ ५३॥

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय
चक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेऽह नः ।
उशतीरिव मातरः । तस्मा अरं गमाम वो यस्य क्षयाय
जिन्वथ । आपो जनयथा च नः ॥ ५४॥

हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थ मे देहि याचितः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ ५५॥

यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥
५६॥

नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै
नमोऽद्भ्यः ॥ ५७॥

यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्च्हतात्
॥ ५८॥

अत्याशनादतीपानाद् यच्च उग्रात् प्रतिग्रहात् ।
तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥ ५९॥

सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ।
नाकस्य पृष्ठमारुह्य गच्च्हेद्ब्रह्मसलोकताम् ॥ ६०॥

यश्चाप्सु वरुणः स पुनात्वघमर्षणः ॥ ६१॥

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोम{\म्+} सचता
परुष्णिया ।
असिक्निअ मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
६२॥

ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्रिरजायत ततः समुद्रो अर्णवः ॥ ६३॥

समुद्रादर्णवादधि संवत्सरो अजायत ।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ ६४॥

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो सुवः ॥ ६५॥

यत्पृथिव्या{\म्+} रजः स्वमान्तरिक्षे विरोदसी ।
इमा{\म्+}स्तदापो वरुणः पुनात्वघमर्षणः ॥
पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः ।
एष भूतस्य मध्ये भुवनस्य गोप्ता ॥
एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम् ।
द्यावापृथिव्योर्हिरण्मय{\म्+} स{\म्+}श्रित{\म्+} सुवः ।
स नः सुवः स{\म्+}शिशाधि ॥ ६६॥

आर्द्रं ज्वलतिज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि ।
योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं
मां जुहोमि स्वाहा ॥ ६७॥

अकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः ।
वरुणोऽपामघमर्षणस्तस्मात् पापात् प्रमुच्यते ॥ ६८॥

रजोभूमिस्त्व मा{\म्+} रोदयस्व प्रवदन्ति धीराः ॥ ६९॥

आक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान
इन्दुः ॥ ७०॥

2

द्वितीयोऽनुवाकः ।
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः
॥ १॥

दुर्गा सूक्तम् ।
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु
जुष्टाम् ।
दुर्गां देवी{\म्+} शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ २॥

अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय
शंयोः ॥ ३॥

विश्वानि नो दुर्गहा जातवेदः सिन्धुं न वावा दुरितातिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ ४॥
पृतनाजित{\म्+} सहमानमुग्नमग्नि{\म्+} हुवेम
परमात्सधस्तात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः
॥ ५॥

प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
स्वां चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व
॥ ६॥

गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम ।
नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह
मादयन्ताम् ॥ ७॥

3

तृतीयोऽनुवाकः ।
भूरन्नमग्नये पृथिव्यै स्वाहा भुवोऽन्न।म्
वायवेऽन्तरिक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहा
भूर्भुवस्सुवरन्नं चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः
स्वधा पितृभ्यो भूर्भुवः सुवरन्नमोम् ॥ १॥

4

चतुर्थोऽनुवाकः ।
भूरग्नये पृथिव्यै स्वाहा भुवो वायवेऽन्तरिक्षाय स्वाहा
सुवरादित्याय दिवे स्वाहा भुर्भुवस्सुवश्चन्द्रमसे दिग्भ्यः
स्वाहा
नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःसुवरग्न ओम् ॥ १॥
5
पञ्चमोऽनुवाकः ।
भूरग्नये च पृथिव्यै च महुते च स्वाहा भुवो वायवे
चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च
महते च स्वाहा भूर्भुवस्सुवश्चन्द्रमसे च
नक्षत्रेभ्यश्च
दिग्भ्यश्च महते च स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो
भुर्भुवः सुवर्महरोम् ॥ १॥
6
षष्ठोऽनुवाकः ।
पाहि नो अग्न एनसे स्वाहा पाहि नो विश्ववेदसे स्वाहा
यज्ञं पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहा ॥
१॥
7
सप्तमोऽनुवाकः ।
पाहि नो अग्न एकया पाह्युत द्वितीयया पाह्यूर्ज तृतीयया
पाहि गीर्भिश्चतसृभिर्वसो स्वाहा ॥ १॥
8
अष्टमोऽनुवाकः ।
यश्च्हन्दसामृषभो
विश्वरूपश्च्हन्दोभ्यश्चन्दा{\म्+}स्याविवेश । सता{\म्+}शिक्यः
प्रोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो
देवेभ्यः स्वधा
पितृभ्यो भूर्भुवस्सुवश्च्हन्द ओम् ॥ १॥
9
नवमोऽनुवाकः ।
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं
कर्णयोः श्रुतं मा च्योढं ममामुष्य ओम् ॥ १॥
10
दशमोऽनुवाकः ।
ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दमस्तपः
शमस्तपो दानं तपो यज्ञं तपो भूर्भुवः
सुवर्ब्रह्मैतदुपास्वैतत्तपः ॥ १॥
11
एकादशोऽनुवाकः ।
यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य
कर्मणो दूराद्गन्धो वाति यथासिधारां कर्तेऽवहितमवक्रामे
यद्युवे युवे हवा विह्वयिष्यामि कर्तं
पतिष्यामीत्येवममृतादात्मानं
जुगुप्सेत् ॥ १॥
12
द्वादशोऽनुवाकः ।
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्
॥ १॥
सप्त प्राणा प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त
जिह्वाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहिताः सप्त
सप्त ॥ २॥
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः
सर्वरूपाः ।
अतश्च विश्वा ओषधयो रसाश्च येनैष
भूतस्तिष्ठत्यन्तरात्मा ॥ ३॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो
मृगाणाम् ।
श्येनो गृध्राणा{\म्+}स्वधितिर्वनाना{\म्+}सोमः पवित्रमत्येति
रेभन् ॥ ४॥
अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती{\म्+}
सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः
॥ ५॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता
वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं
बृहत् ॥ ६॥
यस्माज्जाता न परा नैव किंचनास य आविवेश भुवनानि
विश्वा ।
प्रजापतिः प्रजया संविदानस्त्रीणि ज्योती{\म्+}षि सचते स
षोडशी ॥ ६ क॥
विधर्तार{\म्+} हवामहे वसोः कुविद्वनाति नः । सवितारं
नृचक्षसम् ॥ ६ ख॥
घृतं मिमिक्षिरे घृतमस्य योनिर्घृते श्रितो घृतमुवस्य
धाम ।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि
हव्यम् ॥ ७॥
समुद्रादूर्मिर्मधुमा{\म्+} उदारदुपा{\म्+}शुना
सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः
॥ ८॥
वयं नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा
नमोभिः ।
उप ब्रह्मा शृणवच्च्हस्यमान चतुःशृङ्गोऽवमीद्गौर
एतत् ॥ ९॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे सप्त हस्तासो
अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या{\म्+}
आविवेश ॥ १०॥
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
इन्द्र एक{\म्+} सूर्य एकं जजान वेनादेक{\म्+} स्वधया
निष्टतक्षुः ॥ ११॥
यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमान{\म्+} स नो देवः
शुभयास्मृत्या संयुनक्तु ॥ १२॥
यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति
कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण
सर्वम् ॥ १३॥
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां बिभ्राजते यद्यतयो विशन्ति ॥
१४॥
वेदान्तविज्ञानविनिश्चितार्थाः संन्यासयोगाद्यतयः
शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥
१५॥
दह्रं विपापं वरवेश्मभूत यत् पुण्डरीकं
पुरमध्यस{\म्+}स्थम् ।
तत्रापि दह्रे गगनं विशोकं तस्मिन् यदन्तस्तदुपासितव्यम्
॥ १६॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १७॥
13
त्रयोदशोऽनुवाकः ।
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं प्रभुम् ॥ १॥
विश्वतः परमं नित्यं विश्वं नारायण{\म्+} हरिम् ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ २॥
पतिं विश्वस्यात्मेश्वर{\म्+} शाश्वत{\म्+} शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ ३॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परः ।
नारायणः परो ज्योतिरात्मा नारयणः परः ॥ ४॥
नारायणः परो ध्याता ध्यानं नारायणः परः ।
यच्च किJण्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ ५॥
अनन्तमव्ययं कवि{\म्+} समुद्रेऽन्तं विश्वशम्भुवम् ।
पद्मकोशप्रतीकाश{\म्+} हृदयं चाप्यधोमुखम् ॥ ६॥
अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति ।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ७॥
सन्तत{\म्+} सिराभिस्तु लम्बत्याकोशसन्निभम् ।
तस्यान्ते सुषिर{\म्+} सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ॥
८॥
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ॥ ९॥
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तताः ।
सन्तापयति स्वं देहमापादतलमस्तकम् ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥ १०॥
नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा ।
नीवारशूक्वत्तन्वी पीता भास्वत्यणूपम ॥ ११॥
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्
॥ १२॥
14

चतुर्दशोऽनुवाकः ।
चतुर्दशोऽनुवाकः ।
आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचा
मण्डल{\म्+}
स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि
सामानि स
साम्नां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि
यजू{\म्+}षि स यजुषा मण्डल{\म्+} स यजुषां लोकः
सैषा त्रय्येव
विद्या तपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ॥ १॥
15
पञ्चदशोऽनुवाकः ।
आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो
मन्युर्मनुर्मृत्युः
सत्यो मित्रो वायुराकाशः प्राणो लोकपालः कः किं कं
तत्सत्यमन्नममृतो
जीवो विश्वः कतमः स्वयम्भु ब्रह्मैतदमृत एष पुरुष एष
भूतानामधिपतिर्ब्रह्मणः सायुज्य{\म्+}
सलोकतामाप्नोत्येतासामेव
देवताना{\म्+} सायुज्य{\म्+} सार्ष्टिता{\म्+}
समानलोकतामाप्नोति य एवं
वेदेत्युपनिषत् ॥ १॥
घृणिः सूर्य आदित्योमर्चयन्ति तपः सत्यं मधु क्षरन्ति
तद्ब्रह्म तदाप
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥ २॥
16
षोडशोऽनुवाकः ।
निधनपतये नमः । निधनपतान्तिकाय नमः ।
ऊर्ध्वाय नमः । ऊर्ध्वलिङ्गाय नमः ।
हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
सुवर्णाय नमः । सुवर्णलिङ्गाय नमः ।
दिव्याय नमः । दिव्यलिङ्गाय नमः ।
भवाय नमः। भवलिङ्गाय नमः ।
शर्वाय नमः । शर्वलिङ्गाय नमः ।
शिवाय नमः । शिवलिङ्गाय नमः ।
ज्वलाय नमः । ज्वललिङ्गाय नमः ।
आत्माय नमः । आत्मलिङ्गाय नमः ।
परमाय नमः । परमलिङ्गाय नमः ।
एतत्सोमस्य सूर्यस्य सर्वलिङ्ग{\म्+} स्थापयति पाणिमन्त्रं
पवित्रम् ॥ १॥
17
सप्तदशोऽनुवाकः ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥ १॥
18
अष्टदशोऽनुवाकः ।
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो
बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो
मनोन्मनाय नमः ॥ १॥
19
एकोनविंशोऽनुवाकः ।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व
सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ १॥
20
विंशोऽनुवाकः ।
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः
प्रचोदयात् ॥ १॥
21
एकविंशोऽनुवाकः ।
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्
॥ १॥
22
द्वाविंशोऽनुवाकः ।
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये।
अम्बिकापतय उमापतये पशुपतये नमो नमः ॥ १॥
23
त्रयोविंशोऽनुवाकः ।
ऋत{\म्+} सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ १॥
24
चतुर्विंशोऽनुवाकः ।
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः
सन्महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च
यत् ।
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥
25
पञ्चविंशोऽनुवाकः ।
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम
शंतम{\म्+} हृदे ।
सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥
26
षड्विंशोऽनुवाकः ।
यस्य वैकङ्कत्यग्निहोत्रहवणी भवति
प्रत्येवास्याहुतयस्तिष्ठत्यथो
प्रतिष्ठित्यै ॥ १॥
27
सप्तविंशोऽनुवाकः ।
कृणुष्व पाज इति पञ्च ।
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवा।cं
इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य
रक्षसस्तपिष्ठैः ॥ १॥
तव भ्रमास आशुया पतन्त्यनु स्पृश धृशता
शोशुचानः ।
तपूंष्यग्ने जुह्वा पतङ्गानसन्दितो वि सृज विश्वगुल्काः ॥
२॥
प्रति स्पशो विसृज तूर्णितमो भवा पायुर्विशी अस्या अदब्धः ।
यो नो दूरे अघशं सो यो अन्त्यग्ने माकिष्टे
व्यथिरादधर्षीत ॥ ३॥
उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रां।c ओषतात्तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचातं धक्ष्यतसं न
शुष्कम् ॥ ४॥
ऊर्ध्वो भव प्रतिं विध्याध्यस्मदाविष्कृणुष्व
दैव्यान्यग्ने ।
अवस्थिरा तनुहि यातुजूनां जामिमजामिं प्रमृणीहि
शत्रून् ॥ ५॥
28
अष्टाविंशोऽनुवाकः ।
अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्तेषा{\म्+}
सर्वभूतानां माता मेदिनी महती मही सावित्री गायत्री
जगत्युर्वी पृथ्वी बहुला विश्वा भूता कतमा काया सा
सत्येत्यमृतेति वासिष्ठः ॥ १॥
29
एकोनत्रिंशोऽनुवाकः ।
आपो वा इद{\म्+} सर्वं विश्वा भूतान्यापः प्राणा वा आपः
पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः
स्वराडापश्च्हन्दा{\म्+}स्यापो ज्योती{\म्+}ष्यापो
यजू{\म्+}ष्यापः
सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ओम् ॥ १॥
30
त्रिंशोऽनुवाकः ।
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ॥ १॥
यदुच्च्हिष्टमभोज्यं यद्वा दुश्चरितं मम ।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रह{\म्+} स्वाहा ॥ २॥
31
एकत्रिंशोऽनुवाकः ।
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् ।
मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना ।
अहस्तदवलिम्पतु । यत्किञ्च दुरितं मयि । इदमहं
माममृतयोनी ।
सत्ये ज्योतिषि जुहोमि स्वाहा ॥ १॥
32
द्वात्रिंशोऽनुवाकः ।
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम् । यद्रात्रिया पापमकार्षम् ।
मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना ।
रात्रिस्तदवलुम्पतु ।
यत्किञ्च दुरितं मयि । इअदमहं माममृतयोनी । सूर्ये
ज्योतिषि स्वाहा ॥ १॥
33
त्रयस्त्रिंशोऽनुवाकः ।
ओमित्येकाक्षरं ब्रह्म । अग्निर्देवता ब्रह्म इत्यार्षम् ।
गायत्रं
च्हन्दं परमात्मं सरूपम् । सायुज्यं विनियोगम् ॥ १॥
34
चतुस्त्रिंशोऽनुवाकः ।
आयातु वरदा देवी अक्षरं ब्रह्म संमितम् ।
गायत्री च्हन्दसां मातेदं ब्रह्म जुषस्व नः ॥ १॥
यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ।
यद्रात्रियात्कुरुते पापं तद्रात्रियात्प्रतिमुच्यते ।
सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ॥ २॥
35
पञ्चत्रिंशोऽनुवाकः ।
ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि
विश्वमसि
विश्वायुअः सर्वमसि सर्वायुरभिभूरों गायत्रीमावाहयामि
सावित्रीमावाहयामि सरस्वतीमावाहयामि
च्हन्दर्हीनावाहयामि
श्रियमावाहयामि गायत्रिया गायत्री च्हन्दो विश्वामित्र
ऋषिः
सविता देवताग्निर्मुखं ब्रह्मा शिरो विष्णुहृदय{\म्+} रुद्रः
शिखा
पृथिवी योनिः प्राणापानव्यानोदानस्माना सप्राणा श्वेतवर्णा
सांख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा
ष्ट्कुक्षिः
पञ्चशीर्षोपनयने विनियोगः ॥ १॥
ॐ भूः । ॐ भुवः । ओ{\म्+}सुवः । ॐ महः । ॐ जनः । ॐ
तपः ।
ओ{\म्+} सत्यम् । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोऽमृतं ब्रह्म
भूर्भुवः सुवरोम् ॥ २॥
36
षट्त्रिंशोऽनुवाकः ।
उत्तमे शिखरे देवि जाते भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्च्ह देवि यथासुखम् ॥ १॥
स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता ।
आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा
प्रजातुं ब्रह्मलोकम् ॥ २॥
37
सप्तत्रिंशोऽनुवाकः ।
घृणिः सूर्य आदित्यो न प्रभा वात्यक्षरम् । मधु क्षरन्ति
तद्रसम् ।
सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः
सुवरोम् ॥ १॥
38
त्रिसुपर्णमन्त्रः १
अष्टत्रिंशोऽनुवाकः ।
ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् ।
यास्ते सोम
प्रजा वत्सोऽभि सो अहम् । दुःष्वप्नहन् दुरुष्षह । यास्ते
सोम
प्राणा{\म्+}स्ताञ्जुहोमि ॥ १॥
त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा
एते घ्नन्ति ।
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ
सहस्रात् पङ्क्तिं
पुनन्ति । ॐ ॥ २॥
39
त्रिसुपर्णमन्त्रः २
एकोनचत्वारिंशोऽनुवाकः ।
ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधुमेधया ॥ १॥
अद्यानो देव सवितः प्रजावत्सावीः सौभगम् । परा
दुःष्वप्निय{\म्+} सुव ॥ २॥
विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्मम
आसुव ॥ ३॥
मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नः
सन्त्वोषधीः ॥ ४॥
मधु नक्तमुतोषसि मधुमत्पार्थिव{\म्+} रजः । मधुद्यौरस्तु
नः पिता ॥ ५॥
मधुमान्नो वनस्पतिर्मधुमा{\म्+} अस्तु सूर्यः । माध्वीर्गावो
भवन्तु नः ॥ ६॥
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् ।
भ्रूणहत्यां वा एते घ्नन्ति ।
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ
सहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥ ७॥
40
त्रिसुपर्णमन्त्रः ३
चत्वारिंशोऽनुवाकः ।
ब्रह्म मेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा ॥ १॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो
मृगाणाम् ।
श्येनो गृद्धाणा{\म्+} स्वधितिर्वनाना{\म्+} सोमः पवित्रमत्येति
रेभत् ॥ २॥
ह{\म्+}सः शुचिषद्वसुरन्तरिक्षसद्धोता
वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं
बृहत् ॥ ३॥
ऋचे त्वा ऋचे त्वा समित्स्रवन्ति सरितो न धेनाः ।
अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा
अभिचाकशीमि ॥ ४॥
हिरण्ययो वेतसो मध्य आसाम् । तस्मिन्त्सुपर्णो मधुकृत्
कुलायी भजन्नास्ते
मधु देवताभ्यः । तस्यासते हरयः सप्त तीरे स्वधां
दुहाना अमृतस्य
धाराम् ॥ ५॥
य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् ।
वीरहत्यां वा एते घ्नन्ति ।
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति ।
आसहस्रात्
पङ्क्तिं पुनन्ति । ॐ ॥ ६॥
41
एकचत्वारिंशोऽनुवाकः ।
मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा
सुमनस्यमाना ।
त्वया जुष्टा जुषमाणा दुरुक्तान्बृहद्वदेम विदथे
सुवीराः ॥ १॥
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मागतश्रीरुत
त्वया ।
त्वया जुष्टश्चित्रं विन्दते वसु सा नो जुषस्व द्रविणेन
मेधे ॥ २॥
42
द्विचत्वारिंशोऽनुवाकः ।
मेधां म इन्द्रो ददातु मेअधां देवी सरस्वती ।
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ ॥ १॥
अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः ।
दैवी मेधा सरस्वती स मां मेधा सुरभिर्जुषता{\म्+}
स्वाहा ॥ २॥
43
त्रिचत्वारिंशोऽनुवाकः ।
आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ।
ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका
जुषताम् ॥ १॥
44
चतुश्चत्वारिंशोऽनुवाकः ।
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु ।
मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु ।
मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥ १॥
45
पञ्चचत्वारिंशोऽनुवाकः ।
अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु ।
पर्णं वनस्पतेरिवाभि नः शीयता{\म्+}रयिः सचतां नः
शचीपतिः ॥ १॥
46
षट्चत्वारिंशोऽनुवाकः ।
परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजा{\म्+} रीरिषो
मोत वीरान् ॥ १॥
47
सप्तचत्वारिंशोऽनुवाकः ।
वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य
गोपाः ।
स नो मृत्योस्त्रायतां पात्व{\म्+}हसो ज्योग्जीवा जराम शीमहि
॥ १॥
48
अष्टचत्वारिंशोऽनुवाकः ।
अमुत्रभूयादध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा
शचीभिः ॥ १॥
49
एकोनपञ्चाशोऽनुवाकः ।
हरि{\म्+} हरन्तमनुयन्ति देवा विश्वस्येशानं वृषभं
मतीनाम् ।
ब्रह्मसरूपमनु मेदमागादयनं मा विवधीर्विक्रमस्व ॥ १॥
50
पञ्चाशोऽनुवाकः ।
शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् ।
उभयोर्लोकयोरृध्वाति मृत्युं तराम्यहम् ॥ १॥
51
एकपञ्चाशोऽनुवाकः ।
मा च्हिदो मृत्यो मा वधीर्मा मे बलं विवृहो मा प्रमोषीः ।
प्रजां मा मे रीरिष आयुरुग्र नृचक्षसं त्वा हविषा
विधेम ॥ १॥
52
द्विपञ्चाशोऽनुवाकः ।
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न
उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र
रीरिषः ॥ १॥
53
त्रिपञ्चाशोऽनुवाकः ।
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु
रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते
॥ १॥
54
चतुष्पञ्चाशोऽनुवाकः ।
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
यत्कामस्ते जुहुमस्तन्नो अस्तु वय{\म्+} स्याम पतयो रयीणाम् ॥
१॥
55
पञ्चपञ्चाशोऽनुवाकः ।
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ १॥
56
षट्पञ्चाशोऽनुवाकः ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ १॥
57
सप्तपञ्चाशोऽनुवाकः ।
ये ते सहस्रमयु पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानवयजामहे ॥ १॥
58
अष्टपञ्चाशोऽनुवाकः ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ १॥
59
एकोनषष्टितमोऽनुवाकः ।
देवकृतस्यैनसोऽवयजनमसि स्वाहा ।
मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ।
पितृकृतस्यैसोऽवयजनमसि स्वाहा ।
आत्मकृतस्यैनसो।वयाजनमसि स्वाहा ।
अन्यकृतस्यैनसोऽवयजनमसि स्वाहा ।
अस्मत्कृतस्यैनसोऽवयजनमसि स्वाहा ।
यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा ।
यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि
स्वाहा ।
यत्सुषुप्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि
स्वाहा ।
यद्विद्वा{\म्+}सश्चाविद्वा{\म्+}सश्चैनश्चकृम
तस्यावयजनमसि स्वाहा ।
एनस एनसोऽवयजनमसि स्वाहा ॥ १॥
60
षष्टितमोऽनुवाकः ।
यद्वो देवाश्चकृम जिह्वयां गुरु मनसो वा प्रयुती
देवहेडनम् ।
अरावा यो नो अभि दुच्च्हुनायते तस्मिन् तदेनो वसवो निधेतन
स्वाहा ॥ १॥
61
एकषष्टितमोऽनुवाकः ।
कामोऽकार्षीन्नमो नमः । कामोऽकार्शीत्कामः करोति नाहं
करोमि कामः कर्ता
नाहं कर्ता कामः कारयिता नाहं कारयिता एष ते काम
कामाय स्वाहा ॥ १॥
62
द्विषष्टितमोऽनुवाकः ।
मन्युरकार्षीन्नमो नमः । मन्युरकार्षीन्मन्युः करोति नाहं
करोमि मन्युः कर्ता नाहं कर्ता
मन्युः कारयिता नाहं कारयिता एष ते मन्यो मन्यवे स्वाहा
॥ १॥
63
त्रिषष्टितमोऽनुवाकः ।
तिलाञ्जुहोमि सरसान् सपिष्टान् गन्धार मम चित्ते रमन्तु
स्वाहा ॥ १॥
गावो हिरण्यं धनमन्नपान{\म्+} सर्वेषा{\म्+} श्रियै स्वाहा
॥ २॥
श्रियं च लक्ष्मीं च पुष्टिं च कीर्तिं चानृण्यताम्
। ब्राह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रजाः संददातु
स्वाहा ॥ ३॥
64
चतुःषष्टितमोऽनुवाकः ।
तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः ।
तिलाः पुनन्तु मे पापं यत्किञ्चिद् दुरितं मयि स्वाहा ॥ १॥
चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः ।
गोस्तेय{\म्+} सुरापानं भ्रूणहत्या तिला शान्ति{\म्+} शमयन्तु
स्वाहा ॥ २॥
श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं चानृण्यताम् ।
ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रज्ञा तु जातवेदः
संददातु स्वाहा ॥ ३॥
65
पञ्चषष्टितमोऽनुवाकः ।
प्राणापानव्यानोदानसमाना मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ १॥
वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पा
मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ २॥
त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भुयास{\म्+} स्वाहा ॥ ३॥
शिरःपाणिपादपार्श्वपृष्ठोरूधरजङ्घाशिश्नोपस्थपायव्
ओ मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ४॥
उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि
ददापयिता मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ५॥
66
षट्षष्टितमोऽनुवाकः ।
पृथिव्यप्तेजोवायुराकाशा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ १॥
शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ २॥
मनोवाक्कायकर्माणि मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ३॥
अव्यक्तभावैरहङ्कारैर्##-##
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ४॥
आत्मा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भुयास{\म्+} स्वाहा ॥ ५॥
अन्तरात्मा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ६॥
परमात्मा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ ७॥
क्षुधे स्वाहा । क्षुत्पिपासाय स्वाहा । विविट्यै स्वाहा ।
ऋग्विधानाय स्वाहा । कषोत्काय स्वाहा । ॐ स्वाहा ॥ ८॥
क्षुत्पिपासामलं ज्येष्ठामललक्ष्मीर्नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वान्निर्णुद मे पाप्मान{\म्+} स्वाहा
॥ ९॥
अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे
शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयास{\म्+} स्वाहा ॥ १०॥
67
सप्तषष्टितमोऽनुवाकः ।
अग्नये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । ध्रुवाय भूमाय
स्वाहा । ध्रुवक्षितये स्वाहा ।
अच्युतक्षितये स्वाहा । अग्नये स्विष्टकृते स्वाहा ॥
धर्माय स्वाहा । अधर्माय स्वाहा । अद्भ्यः स्वाहा ।
ओषधिवनस्पतिभ्यः स्वाहा । रक्षोदेवजनेभ्यः स्वाहा ।
गृह्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अवसानपतिभ्यः
स्वाहा । सर्वभूतेभ्यः स्वाहा । कामाय स्वाहा । अन्तरिक्षाय
स्वाहा । यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं
नाम्ने स्वाहा । पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा । दिवे
स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः
स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये
स्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्यः स्वाहा । नमो
रुद्राय पशुपतये स्वाहा । देवेभ्यः स्वाहा । पितृभ्यः
स्वधास्तु । भूतेभ्यो नमः । मनुष्येभ्यो हन्ता । प्रजापतये
स्वाहा । परमेष्ठिने स्वाहा ॥ १॥
यथा कूपः शतधारः सहस्रधारो अक्षितः ।
एवा मे अस्तु धान्य{\म्+} सहस्रधारमक्षितम् ॥ धनधान्यै
स्वाहा ॥ २॥
ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्च्हन्तो वितुदस्य
प्रेष्याः ।
तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु
स्वाहा ॥ ३॥
68
अष्टषष्टितमोऽनुवाकः ।
ॐ तद्ब्रह्म । ॐ तद्वायुअः । ॐ तदात्मा । ॐ तत्सत्यम् ।
ॐ तत्सर्वम् । ॐ तत्पुरोर्नमः ॥ १॥
ॐ अन्तश्वरति भूतेषु गुहायां विश्वमूर्तिषु । त्वं
यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्व{\म्+} रुद्रस्त्वं विष्णुस्त्वं
ब्रह्म त्वं प्रजापतिः । त्वं तदाप आपो ज्योती रसोऽमृतं
ब्रह्म भूर्भुवः सुवरोम् ॥ २॥
69
एकोनसप्ततितमोऽनुवाकः ।
श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि ।
श्रद्धायामपाने निविष्टोऽमृतं जुहोमि ।
श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि ।
श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि ।
श्रद्धाया{\म्+} समाने निविष्टोऽमृतं जुहोमि ।
ब्रह्मणि म आत्मामृतत्वाय ॥ १॥
अमृतोपस्तरणमसि ॥ २॥
श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा
विशाप्रदाहाय । प्राणाय स्वाहा ॥
श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । शिवो मा
विशाप्रदाहाय । अपानाय स्वाहा ॥
श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि । शिवो मा
विशाप्रदाहाय । व्यानाय स्वाहा ॥
श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । शिवो मा
विशाप्रदाहाय । उदानाय स्वाहा ॥
श्रद्धाया{\म्+} समाने निविष्टोऽमृतं जुहोमि । शिवो मा
विशाप्रदाहाय । समानाय स्वाहा ॥
ब्रह्मणि म आत्मामृतत्वाय ॥ ३॥
अमृतापिधानमसि ॥ ४॥
70

71
एकसप्ततितमोऽनुवाकः ।
अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ॥ १॥
72
द्विसप्ततितमोऽनुवाकः ।
वाङ् म आसन् । नसोः प्राणः । अक्ष्योश्चक्षुः । कर्णयोः
श्रोत्रम् । बाहुवोर्बलम् । उरुवोरोजः । अरिष्टा
विश्वान्यङ्गानि तनूः । तनुवा मे सह नमस्ते अस्तु मा मा
हि{\म्+}सीः ॥ १॥
73
त्रिसप्ततितमोऽनुवाकः ।
वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव
बद्धान् ॥ १॥
74
चतुःसप्ततितमोऽनुवाकः ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ १॥
75
पञ्चसप्ततितमोऽनुवाकः ।
नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॥ १॥
76
षट्सप्ततितमोऽनुवाकः ।
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे
शुचिः ॥ १॥
77
सप्तसप्ततितमोऽनुवाकः ।
शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व
ब्रह्मवर्चसेन मे
संतिष्ठस्व यज्ञस्यर्द्धिमनुसंतिष्ठस्वोप ते यज्ञ नम
उप ते
नम उप ते नमः ॥ १॥
78
अष्टसप्ततितमोऽनुवाकः ।
सत्यं परं पर{\म्+} सत्य{\म्+} सत्येन न
सुवर्गाल्लोहाच्च्यवन्ते कदाचन
सता{\म्+} हि सत्यं तस्मात्सत्ये रमन्ते ॥ १॥
तप इति तपो नानशनात्परं यद्धि परं तपस्तद्
दुर्धर्षं तद्
दुराधष तस्मात्तपसि रमन्ते ॥ २॥
दम इति नियतं ब्रह्मचारिणस्तस्माद्दमे रमन्ते ॥ ३॥
शम इत्यरण्ये मुनस्तमाच्च्हमे रमन्ते ॥ ४॥
दानमिति सर्वाणि भूतानि प्रश{\म्+}सन्ति दानान्नातिदुष्करं
तस्माद्दाने रमन्ते ॥ ५॥
धर्म इति धर्मेण सर्वमिदं परिगृहीतं
धर्मान्नातिदुश्चरं
तस्माद्धर्मे रमन्ते ॥ ६॥
प्रजन इति भूया{\म्+}सस्तस्मात् भूयिष्ठाः प्रजायन्ते तस्मात्
भूयिष्ठाः प्रजनने रमन्ते ॥ ७॥
अग्नय इत्याह तस्मादग्नय आधातव्याः ॥ ८॥
अग्निहोत्रमित्याह तस्मादग्निहोत्रे रमन्ते ॥ ९॥
यज्ञ इति यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते ॥
१०॥
मानसमिति विद्वा{\म्+}सस्तस्माद्विद्वा{\म्+}स एव मानसे रमन्ते
॥ ११॥
न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा
एतान्यवराणि
तपा{\म्+}सि न्यास एवात्यरेचयत् य एवं वेदेत्युपनिषत् ॥
१२॥

2.79
एकोनाशीतितमोऽनुवाकः ।
प्राजापत्यो हारुणिः सुपर्णेयः प्रजापतिं पितरमुपससार किं
भगवन्तः परमं वदन्तीति तस्मै प्रोवाच ॥ १॥
सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः
प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं
वदन्ति ॥ २॥
तपसा देवा देवतामग्र आयन् तपसार्षयः सुवरन्वविन्दन्
तपसा सपत्नान्प्रणुदामारातीस्तपसि सर्वं प्रतिष्ठितं
तस्मात्तपः परमं वदन्ति ॥ ३॥
दमेन दान्ताः किल्बिषमवधून्वन्ति दमेन ब्रह्मचारिणः
सुवरगच्च्हन् दमो भूतानां दुराधर्षं दमे सर्वं
प्रतिष्ठितं तस्माद्दमः परमं वदन्ति ॥ ४॥
शमेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्वविन्दन्
शमो भूतानां दुराधर्षं शमे सर्वं प्रतिष्ठितं
तस्माच्च्हमः परमं वदन्ति ॥ ५॥
दानं यज्ञानां वरूथं दक्षिणा लोके दातार{\म्+}
सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्त दानेन
द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं
परमं वदन्ति ॥ ६॥
धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठ प्रजा
उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं
तस्माद्धर्मं परमं वदन्ति ॥ ७॥
प्रजननं वै प्रतिष्ठा लोके साधु प्रजायास्तन्तुं तन्वानः
पितृणामनुणो भवति तदेव तस्यानृणं तस्मात् प्रजननं
परमं वदन्ति ॥ ८॥
अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्य ऋक्
पृथिवी रथन्तरमन्वाहार्यपचनः यजुरन्तरिक्षं
वामदेव्यमाहवनीयः साम सुवर्गो लोको बृहत्तस्मादग्नीन्
परमं वदन्ति ॥ ९॥
अग्निहोत्र{\म्+} सायं प्रातर्गृहाणां निष्कृतिः स्विष्ट{\म्+}
सुहुतं यज्ञक्रतूनां प्रायण{\म्+} सुवर्गस्य लोकस्य
ज्योतिस्तस्मादग्निहोत्रं परमं वदन्ति ॥ १०॥
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गता
यज्ञेनासुरानपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे
सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति ॥ ११॥
मानसं वै प्राजापत्यं पवित्रं मानसेन मनसा साधु
पश्यति ऋषयः प्रजा असृजन्त मानसे सर्वं प्रतिष्ठितं
तस्मान्मानसं परमं वदन्ति ॥ १२॥
न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्मा विश्वः कतमः
स्वयम्भूः प्रजापतिः संवत्सर इति ॥ १३॥
संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स परमेष्ठी
ब्रह्मात्मा ॥ १४॥
याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति
पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं
भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा श्रद्धा
श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा
शान्तिः शान्त्या चित्तं चित्तेन स्मृतिः स्मृत्या स्मार{\म्+}
स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति तस्मादन्नं
ददन्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां
प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्म योनिः
॥ १५॥
स वा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं
प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च
दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत्स
सभूत{\म्+} स भव्यं जिज्ञासक्लृप्त ऋतजा रयिष्ठाः
श्रद्धा सत्यो पहस्वान्तमसोपरिष्टात् । ज्ञात्वा तमेवं
मनसा हृदा च भूयो न मृत्युमुपयाहि
विद्वान् । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ॥ १६॥
वसुरण्वो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि
विश्वसृत्तेजोदास्त्वमस्यग्नेरसि वर्चोदास्त्वमसि सूर्यस्य
द्युम्नोदास्त्वमसि चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे त्वा
महसे ॥ १७॥
ओमित्यात्मानं युञ्जीत । एतद्वै महोपनिषदं देवानां
गुह्यम् । य एवं वेद ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो
महिमानमित्युपनिषत् ॥ १८॥

2.80
अशीतितमोऽनुवाकः ।
तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी
शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः
काम आज्यं मन्युः पशुस्तपोऽअग्निर्दमः शमयिता दानं
दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा
श्रोत्रमग्नीत् यावद्ध्रियते सा दीक्षा यदश्नाति
तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो
यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं
तदाहवनीयो या व्याहृतिराहुतीर्यदस्य विज्ञानं तज्जुहोति
यत्सायं प्रातरत्ति तत्समिधं यत्प्रातर्मध्यन्दिन{\म्+} सायं
च तानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ
येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते
पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः
सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथ एतद्वै
जरामर्यमग्निहोत्र{\म्+}सत्रं य एवं विद्वानुदगयने प्रमीयते
देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्च्हत्यथ यो
दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः
सायुज्यं गच्च्हत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो
विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमित्युपनिषत् ॥ १॥

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं
न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम्
।सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आविद्वक्तारम् ॥

ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति महानारायणोपनिषत्समाप्ता ॥

Раматапини упанишада

श्रीरामतापिन्युपनिषत्

श्रीरामतापनीयार्थं भक्तध्येयकलेवरम् ।
विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥

स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥

रामनाम भुवि ख्यातमभिरामेण वा पुनः ।
राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥

प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ।
धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥

तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् ।
तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥

रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ।
द्वित्तत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥

अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥

शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।
कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥

ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः ।
जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११॥

क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ ।
मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥

सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना ।
विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥

इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १॥

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ।
जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ।
यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः ॥ २॥

तथैव रामबीजस्थं जगदेतच्चराचरम् ।
रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥ ३॥

इति रामतापिन्युओअनिषदि द्वितीयोपनिषत् ॥ २॥

सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त ।
स्थितानि च प्रहितान्येव तेषु ततो रामो मानवो माययाधात् ॥ १॥

जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत्प्राग्गुणेनेति ॥ २॥

इति रामतापिन्युपनिषदि तृतीयोपनिषत् ॥ ३॥

जीववाची नमो नाम चात्मारामेति गीयते ।
तदात्मिका या चतुर्थी तथा मायेति गीयते ॥ १॥

मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगएतयोः ।
फलतश्चैव सर्वेषां साधकानां न संशयः ॥ २॥

यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ।
तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥

बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि ।
कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४॥

सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ।
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥

सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ।
उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥

प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥

प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः ।
प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् ॥ ८॥

हेमाभया द्विभुजया सर्वालङ्कृतया चिता ।
श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः ॥ ९॥

दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ।
हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥

तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया ।
एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥

स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ।
कामरूपाय रामाय नमो मायामयाय च ॥ १२॥

नमो वेदादिरूपाय ओङ्काराय नमो नमः ।
रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥

जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने ।
भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥

रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥

त्वमैश्वर्यं दापयाथ सम्प्रत्याश्वरिमारणम् ।
कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥

स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ।
रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥

स रावण इति ख्यातो यद्वा रावाच्च रावणः ।
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥

विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् ।
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥

पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥

स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः ।
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥

सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् ॥ २२॥

जगामागर्जदनुजो वालिनो वेगतो गृहात् ।
तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥

निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः ।
हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥

आदाय मैथिलीमद्य ददताश्वाशु गच्छत ।
ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥

सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥

तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥

तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८॥

हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥

ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥

मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥

उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥

भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्छ्रत्रं सचामरम् ॥ ३३॥

तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥

द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥

बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् ।
जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥

विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥

ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः ।
इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥

बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ।
वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥

एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥

तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥

कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥

दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥

क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् ।
वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४॥

केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् ।
तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ४५॥

अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णांलिख्य तत्केसरे रमाम् ॥ ४६॥

तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् ।
अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥

आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् ॥ ४८॥

वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ ४९॥

ह्रं स्रं भ्रं व्रं लूॅं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः ।
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥

विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः ।
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥

द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥

द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् ।
अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३॥

महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥

नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ।
कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥

यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् ॥ ५६॥

हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७॥

रुद्रेण संयुता वह्निमेधामरविभूषिता ।
दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता ॥ ५८॥

क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥

सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥

कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥

कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा ।
तापनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥

नारायणात्मकः कालः प्राणाभो विद्यया युतः ।
पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥

सप्तचत्वारिंशद्वर्णगुणान्तःस्पृङ्मनुः स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥

इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥

अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६६॥

इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ ६७॥ इति॥

इति तुरीयोपनिषत् ॥

ॐ भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः ।
अर्चाविधावस्य पीठाधरोर्ध्वपार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥

कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकमर्चयित्वा ।
शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्ज स्वासनाधः प्रकल्प्य ॥ २॥

विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च ।
पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च ॥ ३॥

मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यादिमैरर्चितानि ।
रजः सत्वं तम एतान् वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥

आशाव्याशास्वप्यथात्मानमन्तरात्मानं वा परमात्मानमन्तः ।
ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कलापारतत्त्वे ॥ ५॥

सम्पूजयेद्विमलादीश्च शक्तीरभ्यर्चयेद्देवमवाहयेच्च ।
अङ्गव्यूहानिलजाद्यैश्च पूज्य घृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥

वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः ।
मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मै जपादींश्च सम्यक्प्रकल्प्य ॥ ७॥

एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् ।
गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥

विश्वव्यापी राघवो यस्तदानीमन्तर्दधे शङ्खचक्रे गदाब्जे ।
धृत्वा रमासहितः सानुजश्च सपत्तनः सानुगः सर्वलोकी ॥ ९॥

तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च ।
इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥

इति पञ्चमोऽपनिषत् ॥

चिन्मयेऽस्मिंस्त्रयोदश ।
स्वभूर्ज्योतिस्तिस्रः ।
सीतारामावेका ।
जीववाची षट्षष्टिः ।
भूतादिकमेकादश ।
पञ्चखण्डेषु त्रिनवतिः ।
इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥

रामोत्तरतापिन्युपनिषत्
ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् ।
यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति ।
तस्मादविमुक्तमेव निषेवेत ।
अविमुक्तं न विमुञ्चेत् ।
एवमेवैतद्याज्ञवल्क्य ॥ १॥

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तारयतीति ।
स होवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्यम् ।
अकारः प्रथमाक्षरो भवति ।
उकारोद्वितीयाक्षरो भवति ।
मकारस्तृतीयाक्षरो भवति ।
अर्धमात्रश्चतुर्थाक्षरो भवति ।
बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरो भवति ।
तारकत्वात्तारको भवति ।
तदेव तारकं ब्रह्म त्वं विद्धि ।
तदेवोपासितव्यमिति ज्ञेयम् ।
गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति ।
तस्मादुच्यते षडक्षरं तारकमिति ।
य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते ।
स पाप्मानं तरति ।
स मृत्युं तरति ।
स ब्रह्महत्यां तरति ।
स भ्रूणहत्यां तरति।
स संसारं तरति ।
स सर्वं तरति ।
सोऽविमुक्तमाश्रितो भवति ।
स महान्भवति ।
सोऽमृतत्वं च गच्छति ॥ २॥

अत्रैते श्लोका भवन्ति ।
अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ १॥

प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २॥

श्रीरामसांनिध्यवशाज्जगदाधारकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥

सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता ।
प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ४॥ इति॥

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ।
सर्वं ह्येतद्ब्रह्म ।
अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ।
यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ।
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्याहमोंत-
त्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः ।
सोऽहमोन्तद्रामभद्रपरंज्योतीरसोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥

सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥
इत्युपनिषत् ॥

य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति ।
स होवाच याज्ञवल्क्यः ।
सोऽविमुक्त उपास्योऽयम् ।
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ।
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥

का वै वरणा का च नासीति ।
जन्मान्तरकृतान्सर्वान्दोषन्वारयतीति तेन वरणा भवतीति ।
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति ।
कतमच्चास्य स्थानं भवतीति ।
भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥

सोऽविमुक्त उपास्य इति ।
सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ अथ तं प्रत्युवाच ।
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥१॥

ततः प्रसन्नो भगवाञ्छ्रीरामः प्राह शंकरम् ।
वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ २॥ इति ॥

अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ ।
मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः ।
म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥ ३॥ इति ॥

अथ स होवाच श्रीरामः ॥

क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः ।
कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ ४॥

अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ ५॥

क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव ।
ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६॥

त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ ७॥

मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ ८॥

इति श्रीरामचन्द्रेणोक्तम् ॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति ।
स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ।
स होवाच याज्ञवल्क्यः ॥ पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ॥

विश्वरूपधरं विष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥

मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् ।
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥

यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ ॥

यश्चाखण्डैकरसात्मा ॥ २॥ यच्च ब्रह्मानन्दामृतम् ॥ ३॥

यत्तारकं ब्रह्म ॥ ४॥ यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा ॥ ५॥

ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः ॥ ६॥

यो जीवान्तरात्मा ॥ ७॥ यः सर्वभूतान्तरात्मा ॥ ८॥

ये देवासुरमनुष्यादिभावाः ॥ ९॥ ये मत्स्यकूर्माद्यवताराः ॥ १०॥

योऽन्तःकरणचतुष्टयात्मा ॥ ११॥ यश्च प्राणः ॥ १२॥

यश्च यमः ॥ १३॥ यश्चान्तकः ॥ १४॥ यश्च मृत्युः ॥ १५॥

यच्चामृतम् ॥ १६॥ यानि च पञ्चमहाभूतानि ॥ १७॥

यः स्थावरजङ्गमात्मा ॥ १८॥ ये पञ्चाग्नयः ॥ १९॥

याः सप्त महाव्याहृतयः ॥ २०॥ या विद्या ॥ २१॥

या सरस्वती ॥ २२॥ या लक्ष्मीः ॥ २३॥ या गौरी ॥ २४॥

या जानकी ॥ २५॥ यच्च त्रैलोक्यम् ॥ २६॥ यः सूर्यः ॥ २७॥

यः सोमः ॥ २८॥ यानि च नक्षत्राणि ॥ २९॥ ये च नव ग्रहाः ॥ ३०॥

ये चाष्टौ लोकपालाः ॥ ३१॥ ये चाष्टौ वसवः ॥ ३२॥

ये चैकादश रुद्राः ॥ ३३॥ ये च द्वदिशादित्याः ॥ ३४॥

यच्च भूतं भव्यं भविष्यत् ॥ ३५॥

यद्ब्रह्माण्डस्य बहिर्व्याप्तम् ॥ ३६॥

यो हिरण्यगर्भः ॥ ३७॥

या प्रकृतिः ॥ ३८॥

यश्चोङ्कारः ॥ ३९॥

याश्चतस्रोऽर्धमात्राः ॥ ४०॥

यः परमपुरुषः ॥ ४१॥

यश्च महेश्वरः ॥ ४२॥

यश्च महादेवः ॥ ४३॥

य ॐ नमो भगवते वासुदेवाय ॥ ४४॥

यो महाविष्णुः ॥ ४५॥

यः परमात्मा ॥ ४६॥

यो विज्ञानात्मा ॥ ४७॥

ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा ।
यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥

इति तान्ब्रह्माब्रवीत् ।
सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
ततो देवः प्रीतो भवति ।
स्वात्मानं दर्शयति ।
तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति ।
सोऽमृतत्वं गच्छतीति महोपनिषत् ॥ ५॥

अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति ।
स होवाच याज्ञवल्क्यः ।
स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः ।
तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ १॥

अखण्डैकरसानन्दस्तारकब्रह्मवाचकः ।
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ २॥

नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् ।
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ३॥ इति ॥

य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते ।
सोऽग्निपूतो भवति ।
स वायुपूतो भवति ।
स आदित्यपूतो भवति ।
स सोमपूतो भवति ।
स ब्रह्मपूतो भवति ।
स विष्णुपूतो भवति ।
स रुद्रपूतो भवति ।
सर्वैर्देवैर्ज्ञातो भवति ।
सर्वक्रतुभिरिष्टवान्भवति ।
तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
श्रीरामचन्द्रमनुस्मरणेन गायत्र्यः शतसहस्राणि जप्तानि फलानि
भवन्ति ।
प्रणवानामयुतकोटिजपा भवन्ति ।
दश पूर्वान्दशोत्तरान्पुनाति ।
स पङ्क्तिपावनो भवति ।
स महान्भवति ।
सोऽमृतत्वं च गच्छति ॥

अत्रैते श्लोका भवन्ति ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ४॥

गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः ।
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ५॥

षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौघनिवारणः ।
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ६॥

कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
सर्वं दहति निःशेषं तूलराशिमिवानलः ॥ ७॥

ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ ८॥

कोटिकोटिसहस्राणि उपपातकजान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ९॥

भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः ।
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १०॥

ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ ११॥

ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् ।
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १२॥

अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् ।
सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १३॥

श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् ।
रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ॥ १४॥

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १५॥

गत्वापि मातरं मोहादगम्याश्चैव योषितः ।
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १६॥

महापातकपापिष्ठसङ्गत्या संचितं च यत् ।
नाशयेत्तत्कथालापशयनासनभोजनैः ॥ १७॥

पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
तदनुष्ठानमात्रेणसर्वमेतद्विलीयते ॥ १८॥

यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि ।
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ १९॥

पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
बुद्धिपूर्वमघं कृत्वा तदप्याशुविनाशयेत् ॥ २०॥

कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि ।
पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् ॥ २१॥

आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि ।
किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २२॥

अवस्थात्रितयेष्वेवबुद्धिपूर्वमघं च यत् ।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २३॥

अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत् ।
तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २४॥

आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भ्वाः ।
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २५॥

येषु येष्वपि देशेषु रामभद्र उपास्यते ।
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २६॥

शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २७॥

सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ २८॥

तदेतदृचाभ्युक्तम् ।
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदम् ।
ॐ सत्यमित्युपनिषत् ॥ ६॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥

इति रामतापिन्युपनिषत्समाप्ता॥

Шандилья упанишада

शाण्डिल्योपनिषत्

शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः ।
यद्बोधाद्यान्ति कैवल्यं स रामो मे परा गतिः ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

शाण्डिल्यो ह वा अथर्वाणं पप्रच्छात्मलाभोपायभूतमष्टाङ्गयोगमनुब्रूहीति । स होवाचाथर्वा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि । तत्र दश यमाः । तथा नियमाः । आसनान्यष्टौ । त्रयःप्राणायामाः । पञ्चप्रत्याहाराः । तथा धारणा । द्विप्रकारं ध्यानम् । समाधिस्त्वेकरूपः । तत्राहिंसासत्यास्तेयब्रह्मचर्यदयाजपक्षमाधृतिमिताहारशौचानि चेति यमादश । तत्र हिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदा क्लेशजननम् । सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् । अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहा । ब्रह्मचर्यं नाम सर्वावस्थासु मनोवाक्कायकर्मभिः सर्वत्र मैथुनत्यागः । दया नाम सर्वभूतेषु सर्वत्रानुग्रहः । आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा एकरूपत्वम् । क्षमा नाम प्रियाप्रियेषु सर्वेषु ताडनपूजनेषु सहनम् । धृतिर्नामार्थहानौ स्वेष्टबन्धुवियोगे तत्प्राप्तौ सर्वत्र चेतः स्थापनम् । मिताहारो नाम चतुर्थांशावशेषकसुस्निग्धमधुराहारः । शौचं नाम द्विविधं बाह्यमान्तरं चेति । तत्र मृज्जलाभ्यां बाह्यम् । मनःशुद्धिरान्तरम् । तदध्यात्मविद्यया लभ्यम् ॥ १॥

तपःसन्तोषास्तिक्यदानेश्वरपूजनसिद्धान्तश्रवणह्रीमतिजपो व्रतानि दश नियमाः । तत्र तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् । सन्तोषो नाम यदृच्छालाभसन्तुष्टिः । आस्तिक्यं नाम वेदोक्तधर्माधर्मेषु विश्वासः । दानं नाम न्यायार्जितस्य धनधान्यादिः श्रद्धयार्ह्तिभ्यः प्रदानम् । ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादि पूजनम् । सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः । ह्रीर्नाम वेदलौकिकमार्गकुत्सितकर्मणि लज्जा । मतिर्नाम वेदविहितकर्ममार्गेषु श्रद्धा । जपो नाम विधिवद्गुरूपदिष्टवेदाविरुद्धमन्त्राभ्यासः । तद्द्विविधं वाचिकं मानसं चेति । मानसं तु मनसा ध्यानयुक्तम् । वाचिकं द्विविधमुच्चैरुपांशुभेदेन । उच्चैरुच्चारणं यथोक्तफलम् । उपांशु सहस्रगुणम् । मानसं कोटिगुणम् । व्रतं नाम वेदोक्तविधिनिषेधानुष्ठाननैयत्यम् ॥ २॥

स्वस्तिकगोमुखपद्मवीरसिंहभद्रमुक्तमयूराख्यान्यासनान्यष्टौ ।
स्वस्तिकं नाम-जानूर्वोन्तरे सम्यक्कृत्वा पादतले उभे ।
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १॥

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा ॥ २॥

अङ्गुष्ठेन निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण च ।
ऊर्वोरुपरि शाण्डिल्य कृत्वा पादतले उभे ।
पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ ३॥

एकं पादमथैकस्मिन्विन्यस्योरुणि संस्थितः ।
इतरस्मिंस्तथा चोरूं वीरासनमुदीरितम् ॥ ४॥

दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् ।
हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च ॥ ५॥

व्यक्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ।
सिंहासनं भवेदेतत्पूजितं योगिभिः सदा ॥ ६॥

योनीं वामेन सम्पीड्य मेढ्राद्रुपरि दक्षिणम् ।
भ्रूमध्ये च मनोलक्ष्यं सिद्धासनमिदं भवेत् ॥ ७॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पादपार्श्वे तु पाणिभ्यां दृढं बध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ ८॥

सम्पीड्य सीविनीं सूक्ष्मां गुल्फेनैव तु सव्यतः ।
सव्यं दक्षिणगुल्फेन मुक्तासनमुदीरितम् ॥ ९॥

अवष्टभ्य धरां सम्यक्तलाभ्यां तु करद्वयोः ।
हस्तयोः कूर्परौ चापि स्थापयेन्नाभिपार्श्वयओः ॥ १०॥

समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः ।
मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥ ११॥

शरीरान्तर्गताः सर्वे रोगा विनश्यन्ति ।
विषाणि जीर्यन्ते ।
येन केनासनेन सुखधारणं भवत्यशक्तस्तत्समाचरेत् ।
येनासनं विजितं जगत्त्रयं तेन विजितं भवति ।
यमनियमाभ्यां संयुक्तः पुरुषः प्राणायामं चरेत् ।
तेन नाड्यः शुद्धा भवन्ति ॥ ३॥

अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ केनोपायेन नाड्यः शुद्धाः स्युः । नाड्यः कतिसंख्याकाः । तासामुत्पत्तिः कीदृशी । तासु कति वयवस्तिष्ठन्ति । तेषां कानि स्थानानि । तत्कर्माणि कानि । देहे यानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति । स होवाच अथर्वाण अथेदं शरीरं षण्णवत्यङ्गुलात्मकं भवति । शरीरात्प्राणो द्वादशाङ्गुलाधिको भवति । शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा यः करोति स योगिपुङ्गवो भवति । देहमध्ये शिखिस्थानं त्रिकोणं तप्तजाम्बूनदप्रभं मनुष्याणाम् । चतुष्पदां चतुरस्रम् । विहङ्गानां वृत्ताकारम् । तन्मध्ये शुभा तन्वी पावकी शिखा तिष्ठति । गुदाद्व्यङ्गुलादूर्ध्वं मेढ्राद्व्यङ्गुलादधो देहमध्यं मनुष्याणां भवति । चतुष्पदां हृन्मध्यम् । विहङ्गानां तुङ्गमध्यम् । देहमध्यं नवाङ्गुलं चतुरङ्गुलमुत्सेधायतमण्डाकृति । तन्मध्ये नाभिः । तत्र द्वादशारयुतं चक्रम् । तच्चक्रमध्ये पुण्यपापप्रचोदितो जीवो भ्रमति । तन्तुपञ्जरमध्यस्थलूतिका यथा भ्रमति तथा चासौ तत्र प्राणश्चरति । देहेऽस्मिञ्जीवः प्राणारूढो भवेत् । नाभेस्तिर्यगधऊर्ध्वं कुण्डलिनीस्थानम् । अष्टप्रकृतिरूपाष्टधा कुण्डलीकृता कुण्डलिनी शक्तिर्भवति । यथावद्वायुसंचारं जलान्नादीनि परितः स्कन्धः पार्श्वेषु निरुध्यैनं मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रं योगकाले चापानेनाग्निना च स्फुरति । हृदयाकाशे महोज्ज्वला ज्ञानरूपा भवति । मध्यस्थकुण्डलिनीमाश्रित्य मुख्या नाड्यश्चतुर्दश भवन्ति । इडा पिङ्गला सुषुम्ना सरस्वती वारुणी पूषा हस्तिजिह्वा यशस्विनी विश्वोदरी कुहूः शङ्खिनी पयस्विनी अलम्बुसा गान्धारीति नाड्यचतुर्दश भवन्ति । तत्र सुषुम्ना विश्वधारिणी मोक्षमार्गेति चाचक्षते । गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्तं ब्रह्मरन्ध्रे विज्ञेया व्यक्ता सूक्ष्मा वैष्णवी भवति । सुषुम्नायाः सव्यभागे इडा तिष्ठति । दक्षिणभागे पिङ्गला इडायां चन्द्रश्चरति । पिङ्गलायां रविः । तमोरूपश्चन्द्रः । रजोरूपो रविः । विषभागो रविः । अमृतभागश्चन्द्रमाः । तावेव सर्वकालं धत्ते । सुषुम्ना कालभोक्त्री भवति । सुषुम्ना पृष्ठपार्श्वयोः सरस्वतीकुहू भवतः । यशस्विनीकुहूमध्ये वारुणी प्रतिष्ठिता भवति । पूषासरस्वतीमध्ये पयस्विनी भवति । गान्धारीसरस्वतिमध्ये यशस्विनी भवति । कन्दमयेऽलम्बुसा भवति। सुषुम्नापूर्वभागे मेढ्रान्तं कुहूर्भवति । कुण्डलिन्या अधश्चोर्ध्वं वारुणी सर्वगामिनी भवति । यशस्विनी सौम्या च पादाङ्गुष्ठान्तमिष्यते । पिङ्गला चोर्ध्वगा याम्यनासान्तं भवति । पिङ्गलायाः पृष्ठतो याम्यनेत्रानतं पूषा भवति । याम्यकर्णान्तं यशस्विनी भवति । जिह्वाया ऊर्ध्वानतं सरस्वती भवति । आसव्यकर्णान्तमूर्ध्वगा शङ्खिनी भवति । इडापृष्ठभागात्सव्यनेत्रान्तगा गान्धारी भवति । पायुमूलादधोर्ध्वगालम्बुसा भवति । एताश्च चतुर्दशसु नाडीष्वन्या नाड्यः संभवन्ति । तास्वन्यास्तास्वन्या भवन्तीति विज्ञेयाः ॥ यथाश्वत्थादिपत्रं शिराभिर्व्याप्तमेवं शरीरं नाडीभिर्व्याप्तम् । प्राणापानसमानोदानव्याना नागकूर्मकृकरदेवदत्तधनञ्जया एते दश वायवः सर्वासु नाडीषु चरन्ति । आस्यनासिकाकण्ठनाभिपादाङ्गुष्ठद्वयकुण्डल्यधश्चोर्ध्वभागेषु प्राणः संचरति । श्रोत्राक्षिकटिगुल्फघ्राणगलस्फिग्देशेषु व्यानः संचरति । गुदमेढ्रोरुजानूदरवृषणकटिजङ्घानाभिगुदाग्न्यगारेष्वपानः संचरति । सर्वसन्धिस्थ उदानः । पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी समानः । भुक्तान्नरसादिकं गात्रेग्निना सह व्यापयन्द्विसप्ततिसहस्रेषु नाडीमार्गेषु चरन्समानवायुरग्निना सह साङ्गोपाङ्गकलेवरं व्याप्नोति । नागादिवायवः पञ्चत्वगस्थ्यादिसंभवाः । तुन्दस्थं जलमन्नं च रसादिषु समीरितं तुन्दमध्यगतः प्रागस्तानि पृथक्कुर्यात् । अग्नेरुपरि जलं स्थाप्य जलोपर्यन्नादीनि संस्थाप्य स्वयमपानं सम्प्राप्य तेनैव सह मारुतः प्रयाति देहमध्यगतं ज्वलनम् । वायुना पालितो वह्निरपानेन शनैर्देहमध्ये ज्वलति । ज्वलनो ज्वालाभिः प्राणेन कोष्ठमध्यगतं जलमत्युष्णमकरोत् । जलोपरि समर्पितव्यञ्जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्वमकरोत् । तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरीषादिकं प्राणः पृथक्कुर्यात् । समानवायुना सह सर्वासु नाडीषु रसं व्यापयञ्छ्वासरूपेण देहे वायुश्चरति । नवभिर्व्योमरन्ध्रैः शरीरस्य वायवः कुर्वन्ति विण्मूत्रादिविसर्जनम् । निश्वासोच्छ्वासकासश्च प्राणकर्मोच्यते । विण्मूत्रादिविसर्जनमपानवायुकर्म । हानोपादानचेष्टादि व्यानकर्म । देहस्योन्नयनादिकमुदानकर्म । शरीरपोषणादिकं समानकर्म । उद्गारादि नागकर्म । निमीलनादि कूर्मकर्म । क्षुत्करणं कृकरकर्म । तन्द्रा देवदत्तकर्म । श्लेष्मादि धनञ्जयकर्म । एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा नाडीसंशोधनं कुर्यात् ॥ ४॥

यमनियमयुतः पुरुषः सर्वसङ्गविवर्जितः कृतविद्यः सत्यधर्मरतो जितक्रोधो गुरुशुश्रूषानिरतः पितृमातृविधेयः स्वाश्रमोक्तसदाचारविद्वच्छिक्षितः फलमूलोदकान्वितं तपोवनं प्राप्य रम्यदेशे ब्रह्मघोषसमन्विते स्वधर्मनिरतब्रह्मवित्समावृते फलमूलपुष्पवारिभिः सुसम्पूर्णे देवायतने नदीतीरे ग्रामे नगरे वापि सुशोभनमठं नात्युच्चनीचायतमल्पद्वारं गोमयादिलिप्तं सर्वरक्षासमन्वितं कृत्वा तत्र वेदान्तश्रवणं कुर्वन्योगं समारभेत् । आदौ विनायकं सम्पूज्य स्वेष्टदेवतां नत्वा पूर्वोक्तासने स्थित्वा प्राङ्मुख उदङ्मुखो वापि मृद्वासनेषु जितासनगतो विद्वान्समग्रीवशिरोनासाग्रदृग्भ्रूमध्ये शशभृद्बिंबं पश्यन्नेत्राभ्याममृतं पिबेत् । द्वादशमात्रया इडया वायुमापूर्योदरे स्थितं ज्वालावलीयुतं रेफबिन्दुयुक्तमग्निमण्डलयुतं ध्यायेद्रेचयेत्पिङ्गलया । पुनः पिङ्गलयापूर्य कुम्भित्वा रेचयेदिडया । त्रिचतुस्त्रिचतुःसप्तत्रिचातुर्मासपर्यन्तं त्रिसन्धिषु तदन्तरालेषु च षट्कृत्व आचरेन्नाडीशुद्धिर्भवति । ततः शरीरे लघुदीप्तिवह्निवृद्धिनादाभिव्यक्तिर्भवति ॥ ५॥

प्राणापानसमायोगः प्राणायामो भवति । रेचकपूरककुम्भकभेदेन स त्रिविधः । ते वर्णात्मकाः । तस्मात्प्रणव एव प्राणायामः पद्माद्यासनस्थः पुमान्नासाग्रे शशभृद्बिम्बज्योत्स्नाजालवितानिताकारमूर्ती रक्ताङ्गी हंसवाहिनी दण्डहस्ता बाला गायत्री भवति । उकारमूर्तिः श्वेताङ्गी तार्क्ष्यवाहिनी युवती चक्रहस्ता सावित्री भवति । मकारमूर्तिः कृष्णाङ्गी वृषभवाहिनी वृद्धा त्रिशूलधारिणी सरस्वती भवति । अकारादित्रयाणां सर्वकारणमेकाक्षरं परंज्योतिः प्रणवं भवतीति ध्यायेत् । इडया बाह्याद्वायुमापूर्य षोडशमात्राभिरकारं चिन्तयन्पूरितं वायुं चतुःषष्टिमात्राभिः कुम्भयित्वोकारं ध्यायन्पूरितं पिङ्गलया द्वात्रिंशन्मात्रया मकारमूर्तिध्यानेनैवं क्रमेण पुनः पुनः कुर्यात् ॥ ६॥

अथासनदृढो योगी वशी मितहिताशनः सुषुम्नानाडीस्थमलशोषार्थं योगी बद्धपद्मासनो वायुं चन्द्रेणापूर्य यथाशक्ति कुम्भयित्वा सूर्येण रेचयित्वा
पुनः सूर्येणापूर्य कुम्भयित्वा चन्द्रेण विरेच्य यया त्यजेत्तया सम्पूर्य धारयेत् ।
तदेते श्लोका भवन्ति ।
प्राणं प्रागिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया ।
सूर्याचन्द्रमसोरनेन विधिनाऽभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ १॥

प्रातर्मध्यन्दिने सायमर्धरात्रे तु कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २॥

कनीयसि भवेत्स्वेदः कंपो भवति मध्यमे ।
उत्तिष्ठत्त्युत्तमे प्राणरोधे पद्मासनं महत् ॥ ३॥

जलेन श्रमजातेन गात्रमर्दनमाचरेत् ।
दृढता लघुता चापि तस्य गात्रस्य जायते ॥ ४॥

अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ।
ततोऽभ्यासे स्थिरीभूते न तावन्नियमग्रहः ॥ ५॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।
तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ६॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ ७॥

यथेष्टधारणाद्वायोरनलस्य प्रदीपनम् ।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ८॥

विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते ।
सुषुम्नावदनं भित्त्वा सुखाद्विशति मारुतः ॥ ९॥

मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते ।
यो मनःसुस्थिरो भावः सैवावस्था मनोन्मनी ॥ १०॥

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ॥ ११॥

अधस्तात्कुञ्चनेमाशु कण्ठसङ्कोचने कृते ।
मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ १२॥

अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयन् ।
योगी जराविनिर्मुक्तः षोडशो वयसा भवेत् ॥१३॥

सुखासनस्थो दक्षनाड्या बहिस्थं पवनं समाकृष्याकेशमानखाग्रं कुम्भयित्वा सव्यनाड्या रेचयेत् ।
तेन कपालशोधनं वातनाडीगतसर्वरोगसर्वविनाशनं भवति ।
हृदयादिकण्ठपर्यन्तं सस्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्ति कुम्भयित्वा इडया विरेच्य गच्छंस्तिष्ठन्कुर्यात् ।
तेन श्लेष्महरं जठराग्निवर्धनं भवति ।
वक्त्रेण सीत्कारपूर्वकं वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् ।
तेन क्षुत्तृष्णालस्यनिद्रा न जायते ।
जिह्वया वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् ।
तेन गुल्मप्लीहज्वरपित्तक्षुधादीनि नश्यन्ति ॥ अथ कुम्भकः ।
स द्विविधः सहितः केवलश्चेति ।
रेचकपूरकयुक्तः सहितः तद्विवर्जितः केवलः ।
केवलसिद्धिपर्यन्तं सहितमभ्यसेत् ।
केवलकुम्भके सिद्धे त्रिषु लोकेषु न तस्य दुर्लभं भवति ।
केवलकुम्भकात्कुण्डलिनीबोधो जायते ।
ततः कृशवपुः प्रसन्नवदनो निर्मललोचनोऽभिव्यक्तनादो निर्मुक्तरोगजालो जितबिन्दुः पट्वग्निर्भवति ।
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता ।
एषा सा वैष्णवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ १४॥

अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि ।
मुद्रेयं खलु खेचरी भवति सा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्फुरति सा तत्त्वं पदं वैष्णवी ॥ १५॥

अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षणश्चन्द्रार्कावपि लीनतामुपनयन्निष्पन्दभावोत्तरम् ।
ज्योतीरूपमशीषबाह्यरहितं देदीप्यमानं परं तत्त्वं तत्परमस्ति वस्तुविषयं शाण्डिल्य विद्धीह तत् ॥ १६॥

तारं ज्योतिषि संयोज्य किञ्चिदुन्नमयन्भ्रुवौ ।
पूर्वाभ्यासस्य मार्गोऽयमुन्मनीकारकः क्षणात् ॥ १७॥

तस्मात्खेचरीमुद्रामभ्यसेत् ।
तत उन्मनी भवति ।
ततो योगनिद्रा भवति ।
लब्धयोगनिद्रस्य योगिनः कालो नास्ति ।
शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् ।
मनसा मन आलोक्य शाण्डिल्य त्वं सुखी भव ॥ १८॥

खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
सर्वं च खमयं कृत्वा न किञ्चिदपि चिन्तय ॥ १९॥

बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका ।
सर्वचिन्तां परित्यज्य चिन्मात्रपरमो भव ॥ २०॥

कर्पूरमनले यद्वत्सैन्धवं सलिले यथा ।
तथा च लीयमानं च मनस्तत्त्वे विलीयते ॥ २१॥

ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते ।
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ २२॥

ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम् ।
मानसे विलयं याते कैवल्यमवशिष्यते ॥ २३॥

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर ।
योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ २४॥

तस्मिन्निरोधिते नूनमुपशान्तं मनो भवेत् ।
मनःस्पन्दोपशान्तायं संसारः प्रविलीयते ॥ २५॥

सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा ।
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासयोगतः ॥ २६॥

अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु ।
यथाभिवाञ्छितध्यानाच्चिरमेकतयोहितात् ॥ २७॥

एकतत्त्वदृढाभ्यासात्प्राणस्पन्दो निरुध्यते ।
पूरकाद्यनिलायामादृढाभ्यासदखेदजात् ॥ २८॥

एकान्तध्यानयोगाच्च मनःस्पन्दो निरुध्यते ।
ओङ्कारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् ।
सुषुप्ते संविदा ज्ञाते प्राणस्पन्दो निरुध्यते ॥ २९॥

तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रं गते प्राणे प्राणस्पन्दो निरुध्यते ॥ ३०॥

प्राणे गलितसंवित्तौ तालूर्ध्वं द्वादशान्तगे ।
अभ्यासादूर्ध्वरन्ध्रेण प्राणस्पन्दो निरुध्यते ॥ ३१॥

द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलेऽम्बरे ।
संविद्दृशि प्रशाम्यन्त्यां प्राणस्पन्दो निरुध्यते ॥ ३२॥

भ्रूमध्ये तारकालोकशान्तावन्तमुपागते ।
चेतनैकतने बद्धे प्राणस्पन्दो निरुध्यते ॥ ३३॥

ओमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं शिवम् ।
असंस्पृष्टविकल्पांशं प्राणस्पन्दो निरुध्यते ॥ ३४॥

चिरकालं हृदेकान्तव्योमसंवेदनान्मुने ।
अवासनमनोध्यानात्प्राणस्पन्दो निरुध्यते ॥ ३५॥

एभिः क्रमैस्तथान्यैश्च नानासंकल्पकल्पितैः ।
नानादेशिकवक्त्रस्थैः प्राणस्पन्दो निरुध्यते ॥ ३६॥

आकुञ्चनेन कुण्डलिन्याः कवाटमुद्घाट्य मोक्षद्वारं विभेदयेत् ।
येन मार्गेण गन्तव्यं तद्द्वारं मुखेनाच्छाद्य प्रसुप्ता कुण्डलिनी कुटिलाकारा सर्पवद्वेष्टिता भवति ।
सा शक्तिर्येन चालिता स्यात्स तु मुक्तो भवति ।
सा कुण्डलिनी कण्ठोर्ध्वभागे सुप्ता चेद्योगिनां मुक्तये भवति ।
बन्धनायाधो मूढानाम् ।
इडादिमार्गद्वयं विहाय सुषुम्नामार्गेणागच्छेत्तद्विष्णोः परमं पदम् ।
मरुदभ्यसनं सर्वं मनोयुक्तं समभ्यसेत् इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ ३७॥

दिवा न पूजयेद्विष्णुं रात्रौ नैव प्रपूजयेत् ।
सततं पूजयेद्विष्णुं दिवारात्रं न पूजयेत् ॥ ३८॥

सुषिरो ज्ञानजनकः पञ्चस्रोतःसमन्वितः ।
तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ ३९॥

सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः ।
तिष्ठतः खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ ४०॥

इडापिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् ।
तिष्ठन्ती खेचरी मुद्रा तत्र सत्यं प्रतिष्ठितम् ॥ ४१॥

सोमसूर्यद्वयोर्मध्ये निरालम्बतले पुनः ।
संस्थिता व्योमचक्रे सा मुद्रा नाम्ना च खेचरी ॥ ४२॥

छेदनचालनदाहैः फलां परां जिह्वां कृत्वा दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे जिह्वा विपरीतगा यदा भवति तदा खेचरी मुद्रा जायते ।
जिह्वा चित्तं च खे चरति तेनोर्ध्वजिह्वः पुमानमृतो भवति ।
वामपादमूलेन योनिं सम्पीड्य दक्षिणपादं प्रसार्य तं कराभ्यां धृत्वा नासाभ्यां वायुमापूर्य कण्ठबन्धं समारोप्योर्ध्वतो वायुं धारयेत् ।
तेन सर्वक्लेशहानिः ।
ततः पीयूषमिव विषं जीर्यते ।
क्षयगुल्मगुदावर्तजीर्णत्वगादिदोषा नश्यन्ति ।
एष प्राणजयोपायः सर्वमृत्यूपघातकः ।
वामपादपार्ष्णिं योनिस्थाने नियोज्य दक्षिणचरणं वामोरूपरि संस्थाप्य वायुमापूर्य हृदये चुबुकं निधाय योनिमाकुञ्च्य मनोमध्ये यथाशक्ति धारयित्वा स्वात्मानं भावयेत् ।
तेनापरोक्षसिद्धिः ।
बाह्यात्प्राणं समाकृष्य पूरयित्वोदरे स्थितम् ।
नाभिमध्ये च नासाग्रे पदाङ्गुष्ठे च यत्नतः ॥ ४३॥

धारयेन्मनसा प्राणं सन्ध्याकालेषु वा सदा ।
सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लमः ॥ ४४॥

नासाग्रे वायुविजयं भवति ।
नाभिमध्ये सर्वरोगविनाशः ।
पादाङ्गुष्ठदारणाच्छरीरलघुता भवति ।
रसनाद्वायुमाकृष्य यः पिबेत्सतततं नरः ।
श्रमदाहौ तु न स्यातां नश्यन्ति व्याधयस्तथा ॥ ४५॥

सन्ध्ययोर्ब्राह्मणः काले वायुमाकृष्य यः पिबेत् ।
त्रिमासात्तस्य कल्याणी जायते वाक् सरस्वती ॥ ४६॥

एवं षण्मासाभ्यासात्सर्वरोगनिवृत्तिः ।
जिह्वया वायुमानीय जिह्वामूले निरोधयेत् ।
यः पिबेदमृतं विद्वान्सकलं भद्रमश्नुते ॥ ४७॥

आत्मन्यात्मानमिडया धारयित्वा भ्रुवोन्तरे ।
विभेद्य त्रिदशाहारं व्याधिस्थोऽपि विमुच्यते ॥ ४८॥

नाडीभ्यां वायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः ।
घटिकैकां वहेद्यस्तु व्याधिभिः स विमुच्यते ॥ ४९॥

मासमेकं त्रिसन्ध्यं तु जिह्वयारोप्य मारुतम् ।
विभेद्य त्रिदशाहारं धारयेत्तुन्दमध्यमे ॥ ५०॥

ज्वराः सर्वेऽपि नश्यन्ति विषाणि विविधानि च ।
मुहूर्तमपि यो नित्यं नासाग्रे मनसा सह ॥ ५१॥

सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ।
तारसंयमात्सकलविषयज्ञानं भवति ।
नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् ।
तदधश्चित्तसंयमादग्निलोकज्ञानम् ।
चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् ।
श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् ।
तत्पार्श्वे संयमान्निरृतिलोकज्ञानम् ।
पृष्ठभागे संयमाद्वरुणलोकज्ञानम् ।
वामकर्णे संयमाद्वायुलोकज्ञानम् ।
कण्ठे संयमात्सोमलोकज्ञानम् ।
वामचक्षुषि संयमाच्छिवलोकज्ञानम् ।
मूर्ध्नि संयमाद्ब्रह्मलोकज्ञानम् ।
पादादोभागे संयमादतललोकज्ञानम् ।
पादे संयमाद्वितललोकज्ञानम् ।
पादसन्धौ संयमान्नितललोकज्ञानम् ।
जङ्घे संयमात्सुतललोकज्ञानम् ।
जानौ संयमान्महातललोकज्ञानम् ।
ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् ।
कटौ चित्तसंयमात्तलातललोकज्ञानम् ।
नाभौ चित्तसंयमाद्भूलोकज्ञानम् ।
कुक्षौ संयमाद्भुवर्लोकज्ञानम् ।
हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् ।
हृदयोर्ध्वभागे चित्तसंयमान्महर्लोकज्ञानम् ।
कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् ।
भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानम् ।
मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् ।
धर्माधर्मसंयमादतीतानागतज्ञानम् ।
तत्तज्जन्तुध्वनौ चित्तसंयमात्सर्वजन्तुरुतज्ञानम् ।
संचितकर्मणि चित्तसंयमात्पूर्वजातिज्ञानम् ।
परचित्ते चित्तसंयमात्परचित्तज्ञानम् ।
कायरूपे चित्तसंयमादन्यादृश्यरूपम् ।
बले चित्तसंयमाद्धनुमदादिबलम् ।
सूर्ये चित्तसंयमाद्भुवनज्ञानम् ।
चन्द्रे चित्तसंयमात्ताराव्यूहज्ञानम् ।
ध्रुवे तद्गतिदर्शनम् । स्वार्थसंयमात्पुरुषज्ञानम् ।
नाभिचक्रे कायव्यूहज्ञानम् । कण्ठकूपे क्षुत्पिपासा निवृत्तिः ।
कूर्मनाड्यां स्थैर्यम् । तारे सिद्धदर्शनम् ।
कायाकाशसंयमादाकाशगमनम् ।
तत्तत्स्थाने संयमात्तत्तत्सिद्धयो भवन्ति ॥ ७॥

अथ प्रत्याहारः ।
स पञ्चविधः विषयेषु विचरतामिन्द्रियाणां बलादाहरणं प्रत्याहरः ।
यद्यत्पश्यति तत्सर्वमामेति प्रत्याहारः ।
नित्यविहितकर्मफलत्यागः प्रत्याहारः ।
सर्वविषयपराङ्मुखत्वं प्रत्याहारः ।
अष्टादशसु मर्मस्थानेषु क्रमाद्धारणं प्रत्याहारः ।
पादाङ्गुष्ठगुल्फजङ्घाजानूरुपायुमेढ्रनाभिहृदयकण्ठकूपतालुनासाक्षिभ्रूमध्यललाटमूर्ध्नि स्थानानि ।
तेषु क्रमादारोहावरोहक्रमेण प्रत्याहरेत् ॥ ८॥

अथ धारणा ।
सा त्रिविधा ।
आत्मनि मनोधारणं दहराकाशे बाह्याकाशधारणं पृथिव्यप्तेजोवाय्वाकाशेषु पञ्चमूर्तिधारणं चेति ॥ ९॥

अथ ध्यानम् ।
तद्द्विविधं सगुणं निर्गुणं चेति ।
सगुणं मूर्तिध्यानम् ।
निर्गुणमात्मयाथात्म्यम् ॥ १०॥

अथ समाधिः ।
जीवात्मपरमात्मैक्यावस्थात्रिपुटीरहिता
परमानन्दस्वरूपा शुद्धचैतन्यात्मिका भवति ॥ ११॥

इति प्रथमोऽध्यायः ॥ १॥
अथ ह शाण्डिल्यो ह वै ब्रह्मऋषिश्चतुर्षु वेदेषु ब्रह्मविद्यामलभमानः किं नामेत्यथर्वाणं भगवन्तमुपसन्नः पप्रच्छाधीहि भगवन् ब्रह्मविद्यां येन श्रेयोऽवाप्स्यामीति ।
स होवाचाथर्वा शाण्डिल्य सत्यं विज्ञानमनन्तं ब्रह्म यस्मिन्निदमोतं च प्रोतं च ।
यस्मिन्निदं सं च विचैति सर्वं यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति ।
तदपाणिपादमचक्षुःश्रोत्रमजिह्वमशरीरमग्राह्यमनिर्देश्यम् ।
यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सह ।
यत्केवलं ज्ञानगम्यम् ।
प्रज्ञा च यस्मात्प्रसृता पुराणी ।
यदेकमद्वितीयम् ।
आकाशवत्सर्वगतं सुसूक्ष्मं निरञ्जनं निष्क्रियं सन्मात्रं चिदानन्दैकरसं शिवं प्रशान्तममृतं तत्परं च ब्रह्म ।
तत्त्वमसि ।
तज्ज्ञानेन हि विजानीहि य एको देव आत्मशक्तिप्रधानः सर्वज्ञः सर्वेश्वरः सर्वभूतान्तरात्मा सर्वभूताधिवासः सर्वभूतनिगूढो
भूतयोनिर्योगैकगम्यः ।
यश्च विश्वं सृजति विश्वं बिभर्ति विश्वं भुङ्क्ते स आत्मा ।
आत्मनि तं तं लोकं विजानीहि ।
मा शोचीरात्मविज्ञानी शोकस्यान्तं गमिष्यति ॥

इति द्वितीयोऽध्यायः ॥ २॥

अथैनं शाण्डिल्योऽथर्वाणं पप्रच्छ यदेकमक्षरं निष्क्रियं शिवं सन्मात्रं परंब्रह्म ।
तस्मात्कथमिदं विश्वं जायते कथं स्थीयते कथमस्मिंल्लीयते ।
तन्मे संशयं छेत्तुमर्हसीति ।
स होवाचाथर्वा सत्यं शाण्डिल्य परंब्रह्म निष्क्रियमक्षरमिति ।
अथाप्यस्यारूपस्य ब्रह्मणस्त्रीणि रूपाणि भवन्ति सकलं निष्कलं सकलनिष्कलं चेति ।
यत्सत्यं विज्ञानमानन्दं निष्क्रियं निरञ्जनं सर्वगतं सुसूक्ष्मं सर्वतोमुखमनिर्देश्यममृतमस्ति तदिदं निष्कलं रूपम् ।
अथास्य या सहजास्त्यविद्या मूलप्रकृतिर्माया लोहितशुक्लकृष्णा ।
तया सहायवान् देवः कृष्णपिङ्गलो ममेश्वर ईष्टे । तदिदमस्य सकलनिष्कलं रूपम् ॥
अथैष ज्ञानमयेन तपसा चीयमानोऽकामयत बहु स्यां प्रजायेयेति ।
अथैतस्मात्तप्यमानात्सत्यकामात्त्रीण्यक्षराण्यजायन्त ।
तिस्रो व्याहृतयस्त्रिपदा गायत्री त्रयो वेदास्त्रयो देवास्त्रयो वर्णास्त्रयोऽग्नयश्च जायन्ते ।
योऽसौ देवो भगवान्सर्वैश्वर्यसम्पन्नः सर्वव्यापी सर्वभूतानां हृदये संनिविष्टो मायावी मायया क्रीडति स ब्रह्मा स विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः सर्वाणि भूतानि स एव पुरस्तात्स एव पश्चात्स एवोत्तरतः स एव दक्षिणतः स एवाधस्तात्स एवोपरिष्टात्स एव सर्वम् ।
अथास्य देवस्यात्मशक्तेरात्मक्रीडस्य भक्तानुकंपिनो दत्तात्रेयरूपा सुरूपा तनूरवासा इन्दीवरदलप्रख्या चतुर्बाहुरघोरापापकशिनी ।
तदिदमस्य सकलं रूपम् ॥ १॥

अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ भगवन्सन्मात्रं चिदानन्दैकरसं कस्मादुच्यते परं ब्रह्मेति ।
स होवाचाथर्वा यस्माच्च बृहति बृंहयति च सर्वं तस्मादुच्यते परंब्रह्मेति ।
अथ कस्मादुच्यते आत्मेति ।
यस्मात्सर्वमाप्नोति सर्वमादत्ते सर्वमत्ति च तस्मादुच्यते आत्मेति ।
अथ कस्मादुच्यते महेश्वर इति ।
यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या च महत ईशते तस्मादुच्यते महेश्वर इति ।
अथ कस्मादुच्यते दत्तात्रेय इति ।
यस्मात्सुदुश्चरं तपस्तप्यमानायात्रये पुत्रकामायातितरां तुष्टेन भगवता ज्योतिर्मयेनात्मैव दत्तो यस्माच्चानसूयायामत्रेस्तनयोऽभवत्तस्मादुच्यते दत्तात्रेय इति ।
अथ योऽस्य निरुक्तानि वेद स सर्वं वेद ।
अथ यो ह वै विद्ययैनं परमुपास्ते सोऽहमिति स ब्रह्मविद्भवति ॥

अत्रैते श्लोका भवन्ति ॥

दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ १॥

भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं प्रफ़ुल्लकमलेक्षणम् ॥२॥

ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकंपिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ ३॥

एवं यः सततं ध्यायेद्देवदेवं सनातनम् ।
स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ ४॥

इत्यों सत्यमित्युपनिषत् ॥

इति तृतीयोऽध्यायः ॥ ३॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति शाण्डिल्योपनिषत्समाप्ता ॥